________________
विभाग-१, बृहद्वृत्तिः
१०१
यथा सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काणमित्यादि ॥ तत्र त्रिविधमिति तिस्स्रो विधा यस्येति त्रिविधं कृतकारितानुमतलक्षणं त्रिधेति त्रिविधेन करणेन मनोवाक्कायरूपेण सावद्यं योगं प्रत्याख्यामि ॥ इत्येवंरूपतया अनुदिनं प्रतिवासरं प्रोच्याप्यभिधाय प्रतिज्ञायापीत्यर्थः ॥
अप्रतिज्ञातानुष्ठानस्य हि भङ्गेनापि न तथा दोष इत्यपिशब्दार्थः भञ्जन्ति खण्डयन्ति ये लिङ्गमात्रवृत्तयस्तेषां तुर्गृहिणो भेदप्रदर्शनार्थः ॥ क्वशब्दाः सर्वेप्यक्षमाव्यञ्जकाक्षेपार्थाः ॥ तपोऽनशनादि ।। नित्यप्रत्याख्यानस्य सर्वसावद्ययोगविरतिरूपस्य सकललोकसमक्षमभ्युपेतस्य भङ्गदर्शनेन नैमित्तिकप्रत्याख्यानस्यापिकथञ्चिल्लोकपङ्क्त्या विहितस्योपवासादेर्भङ्गानुमानान्नास्त्येव तेषां क्वचित्तपः ॥
यद्वा वस्तुगत्यापि तपः कुर्वतां तेषां तपो नास्त्येव ॥ तामलिवत् ॥ षट्कायोप- मदिनां तपसो विफलत्वेनाभिधानात् ॥ क्व सत्यवचनम् ॥ तथ्यवाक् ॥ सर्वं सावद्यं योगं न करोमि इत्याद्यभिधाय पुनस्तत्क्षणमेव तन्निषेवणात् प्रत्यक्षमृषावादिता प्रसङ्गेनांशेनापि सत्यवचनाभावात् ॥ यदुक्तम् ॥ न करेमित्तिभणित्ता तं चेवनिसेवई पुणो पावं ॥ पच्चक्खमुसावाई मायानियडीपसङ्गोय ॥
एवं च यदा प्रव्रज्यावसरोक्तस्य सर्व्वविरतिविषयस्य तद्वचनस्यालीकत्वं तदा वस्त्वंतरविषयस्य तस्य का सत्यत्वसंभावनेति सर्वथानृतभाषिण एव इति ॥
क्व ज्ञानितासिद्धान्तरहस्यपरिच्छेतृत्वं ॥ ज्ञानस्य हि फलं विरतिस्तस्याश्चसातशीलतया तैः समूलमुन्मूलनात्तथा च कथञ्चित्सतोपिज्ञानस्य किञ्चित्करत्वेन तदाभासत्त्वात्ज्ञानगन्धोपि तेषां नास्तीति ॥ यदुक्तम् ॥ सुबहुंपि सुयमहीयं किं काही चरणविप्पहीणस्स ॥ अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि॥
क्व व्रतं दीक्षा ॥ दीक्षोपादानेपि प्रत्याख्यानभङ्गादलीकभाषणेन दीक्षाया अपार्थक्यापादानाद् व्रतं तेषां नास्तीति ॥ यदाह || लोएवि जो ससूगो अलियं सहसा न भासई किंवि ॥ अहदिक्खिओवि अलियं भासइ तो किञ्च दिक्खाए ||
अत्र चासकृत्क्वशब्दोपादानेन लोके लोकोत्तरे च तत्तपः प्रभृतेस्तपस्त्वादिकं न संभवतीति ज्ञाप्यते ॥ तेनायमाशयः ॥ यदा किल गृहिणोपि संततं गृहारम्भसंरम्भरतत्वात् प्रमादभरनिर्भरा अप्यनवगतसिद्धान्ततत्त्वा अपि कदाचित् प्रत्याख्यानभङ्गेनैवमनुतप्यन्ते तदा सुतरां यतीनां सर्वसावद्ययोगविरतानां विदितागमसाराणां कथञ्चिद्विरतिभङ्गे पश्चात्तापः प्रायश्चित्तग्रहश्च युक्तः ये तु निःशूकतया तां भजन्तो मनाग्लज्जामपि नादधति तेषां नास्त्येव तपः प्रभृतीतिवृत्तार्थः ॥२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org