________________
श्री सङ्घपट्टकः
१००
दिति मरणं दिति ताडिया | परं चैवमनर्थकारिणोपि लिङ्गिनः सुविहितां स्तिरस्कृत्यापि नन्दन्ति तन्नूनं दशमाश्चर्यमहिमायम् ॥
यदुच्यते ॥ भेकेन क्वणता सरोषपरुषं यत् कृष्णसर्पानने, दातुं तेन चम्पेटमुद्धतधिया हस्तः समुल्लासितः ॥ यच्चाधोमुखमक्षिणी विदधता तेनापि तन्मर्षितम् ॥ तन्मन्ये विषमंत्रिणो बलवतः कस्यापि लीलायितम् ॥
ततश्च यथा नीचा अपि केचन किंराजादेः स्वामिनोऽवष्टम्भेन महतामपिमूर्द्धस्वारुह्य पुष्यन्ति ॥ एवमेतेपि दशमाश्चर्यमहिम्ना महामुनीन् परिभूयापि पुष्यन्तीत्यपिशब्दार्थः ॥
तथा च प्रकरणकारैरेवाऽन्यत्राभिहितम् ॥ अइदसमदुरन्तच्छेरयप्रासरासी, दुसमसमयहं भोतुमसप्पभावे || जमिहकवडकूडासाहुलिङ्गीगुणदेपरिभबिय पहुत्तं जंतिनंदंतिदूरं एतच्च महत्कष्टं, न हि महामुनीनामेवं पराभवः कर्तुमुचित इति वृत्तार्थः ॥ २२॥
साम्प्रतं तेषां प्रत्यहं सर्वविरतिरूपप्रत्याख्यानभङ्गकरणेन तपश्चरणाद्यभावं प्रतिपाद
यन्नाह ॥
॥ मूलकाव्यम् ॥
सर्वारम्भपरिग्रहस्य गृहिणोप्येकाशनाद्येकदा, प्रत्याख्याय न रक्षितो हृदिभवेत्तीव्रानुतापस्सदा । षट्कृत्वस्त्रिविधंत्रिधेत्यनुदिनं प्रोच्यापिभञ्जन्ति ये,
तेषां तु क्वतपः क्वसत्यवचनं क्वज्ञानिता क्व व्रतम् ॥२३॥
टीका:- सर्वारम्भपरिग्रहस्य सकलसावद्यव्यापारधनधान्यादिसङ्ग्रहतत्परस्य गृहिणोपि - श्राद्धस्याप्यास्तां महामुनेरित्यपिशब्दार्थः ॥ एकाशनं अंतर्दिवसमेकवारनियमित भोजनः प्रत्याख्यानभेदस्तदादिर्यस्य निव्र्व्विकृतिकादेस्तदादिप्रत्याख्यानम् ॥
एकदा कदाचिदष्टम्यादितिथिषु प्रमादबाहुल्येन नित्यप्रत्याख्यानाभावात् प्रत्याख्याय नियम्य तदपि कदाचित् कृतमेकासनादि न रक्षितोऽनाभोगसहसाकारादिना न पालयतो भञ्जतइत्यर्थः हृदि चेतसि भवेज्जायेत तीव्रो निष्ठुरोऽनुतापः ॥
बहुना कालेन तावदद्य प्रत्याख्यानं कृतम् ॥ तदपि मया मन्दभाग्येन भग्नमतो धिग्मां कथं मे शुद्धिर्भविष्यतीत्येवंरूपः पश्चात्तापः सदा सर्वदा यावद् भङ्गप्रायश्चितं गुरुभ्यो नासादयति ॥ षट्कृत्वस्त्रीन् वारान् सायंतनप्रतिक्रमणे त्रींश्चप्रगेतनप्रतिक्रमणे इति षट्वारान् संख्याया वारेकृत्वस्तद्धितः ॥ त्रिविधं त्रिधेति ॥ अनेन सामायिकसूत्रमुपलक्षयति ॥ किल साधवः सायं प्रातश्च प्रतिक्रमणे सामायिकसूत्रमुच्चारयन्तः त्रिविधं त्रिविधेनेति पठन्ति ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org