________________
विभाग-१, बृहद्वृत्तिः मनोवाक्कायास्त एव देहिनामुत्पथप्रवर्तकत्त्वाच्चपलत्वाच्च तुरङ्गा अश्वास्ततश्च वल्गतोऽनियमिततया यदृच्छया प्रसरन्तो गौरवचण्डा दण्डतुरगा येषां ते तथा ॥
यथा हि तुरगा निर्बला अपि जातिस्वाभाव्याद् वल्गन्ति यदा तु गौरवेण बलोपचयेन दप्पिष्ठास्तदा किं वक्तव्यं ॥ एवं दण्डाअपि स्वरुपेणैव तावदुद्धरा ऋध्यादिगौरवत्रयसङ्कलितानां तेषां का कथा ॥
न च यतीनां दण्डवयोल्लासनमुपपन्नम् ॥ दुर्गतिहेतुत्वेन तस्यानुचितत्वात् ॥ यदुक्तम् ॥ त्रयोमनोभाषितकायदण्डा विनिर्मितासद्गतिपातदण्डाः ॥ न जातु कार्या यतिना प्रचण्डाः समीकृताकाण्डकृतान्तदण्डाः ॥ लिङ्गिनस्तु गौरवोद्भुरकन्धरतया सततं तान्वल्पयन्ति ॥
तथा कषाया एव हेयोपादेयवस्तुतत्त्वचैतन्यहारित्वादुरगा भुजङ्गास्ततश्चधार्मिकजनसत्क्रियादर्शनासहनेन पुष्यन्तः प्रबलीभवन्तः कषायोरागा येषां ते तथा, यतीनां हि सौश्रामण्यवैफल्योत्पादनात्कषायाः कर्तुं न युज्यन्ते ॥ यदाहुः ॥ मुक्त्यङ्गनायाः क्रयणेभरण्यं श्रामण्यमुच्चैर्गुणिनां शरण्यम् ॥ कृतव्यपाया यतितां कषायाः । सस्यं निरस्यंति यथा कुवाताः ॥
यंत्याभासास्तु गुणिषुनिनिमित्तकषायकलुषितान्तःकरणा एवोपलभ्यन्त इति ॥ एवं तावत् पञ्चाश्रवविरमणपञ्चेन्द्रिभागृहदण्डत्रयविरतिकषायचतुष्टयजयलक्षणसप्तदशविधसंयमाभावेन तेषां लोकोत्तरबाह्यत्वं प्रदर्चेदानी लोकलोकोत्तरबाह्यत्वमपिदर्शयतीत्याह ॥
सर्वाकृत्यकृतोपि लोकलोका नरविरुद्धाबह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोपि ॥ यदाह ॥ दगपाणं पुष्फफलं अणेसणिज्जं गिहत्थकिच्चाई ॥अजया पडी सेवंती
जइवेसविडम्बगा नवरं ॥ ... नामजैना इति प्रकृतम् ॥ कष्टं महदुःखमेतत् ॥ अधुना सम्प्रति स्थित्वा आरुह्य
सन्मुनिमूर्धसु सुविहितसाधुमस्तकेषु प्रतिपदमसूयया सुविहितानामसदोषारोपणेन लाघवो त्पादनमेव हि तेषां तन्मूर्द्धस्ववस्थानम् ॥ उद्धतधियो नास्त्यस्मत्समो जगति सम्प्रति कश्चिदिति दाध्मातबुद्धयः तुष्टन्ति सुविहितं मन्या अप्येतेऽस्माभिर्लघूकृता इत्याशयेन मोदन्ते ॥ तुष्यन्ति च साध्वादिपरिवारेण श्राद्धादिपूजयाच वर्द्धन्ते चः समुच्चये ॥
अथ कथमेवंविधा अपि सन्मुनिमूर्द्धावस्थानेन ते तुष्यन्ति पुष्यन्ति चेत्यत आह ॥ अन्त्याश्चर्यराजाश्रिताः पाश्चात्याश्चर्यपार्थिवानुगताय त इति हेतुगर्भविशेषणम् ॥ एतदुक्तं भवति ॥ नह्येवंविधाकृत्यविधायिनो महामुनीनां मस्तकेष्ववस्थानं कर्तुं पारयन्ति ॥
कथञ्चित्कुर्वाणा अपि वा न तोषं पोषं च ते प्राप्नुवन्ति ॥ महामुनितिरस्कारमात्रेणापि तत्कारिणामिहैव हानिश्रवणात् ॥ यदाह ॥ इहेव हीलिया हाणिं हसियारोवियव्वए अक्कोसिया वहं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org