________________
श्री सङ्घपट्टकः
तैः करणभूतैश्चशब्दउक्तवञ्चनप्रकारसमुच्चये श्रद्धालुर्विवेकविकलधर्मेच्छावान् ॥ विवेकिनो हि प्रायेण नैवंविधैः प्रतारयितुं पार्यन्ते नामतः संज्ञामात्रेण जैनैर्जिनदेवतैर्न तु क्रियया भ्रष्टाचारत्वात्तेषां तेन लिङ्गिभिरित्यर्थः ॥
९८
शठैः प्रपञ्चप्रपञ्चनचतुरैः छलितइवेत्युपमानम् ॥ यथा छलितः शाकिन्यादिभिर्वशीकृतस्तथाविधचैतन्यराहित्यात् सुखेन वञ्चयितुं शक्यते तथायमेष जनः श्राद्धलोको हाइति विषादे वञ्च्यते विप्रलभ्यते ॥ महानयमस्मच्चेतसि विषादो यद्धर्मार्थिलोकोधूर्तैः स्वार्थं वञ्चयित्वा दुर्गतौ पात्यत इति वृत्तार्थः ॥ २१ ॥
इदानीमत्युच्छृङ्खलानां नामजैनानां दशमाश्चर्यानुभावादभ्युदयं स्वविषादपुरस्सरं दर्शयन्नाह ॥
॥ मूलकाव्यम् ॥
सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोपि कष्टमधुनान्त्याश्चर्यराजाश्रिताः, स्थित्वा सन्मुनिमूर्द्धसूद्धतधियस्तुष्यन्ति पुष्यन्ति च ॥२२॥
टीका:- सर्वत्रलोकसमक्षमसमक्षं च आश्रवति सञ्चिनोति जीवः कर्मभिरित्याश्रवाः पञ्चप्राणातिपातादयस्ततश्चास्थगिता अनिरुद्धा आश्रवा यैस्ते तथा ॥ किल यतीनां सप्तदशविधसंयममध्यात्पञ्चाश्नवद्वारनिरोधः परमसंयमस्तेनैव तेषां पञ्चमहाव्रतधारित्वसिद्धे स्ते त्वतिनिरङ्कुशत्वान्न तानि निरुन्धन्ति ॥
अनिरुधाना अपि केचन लोकापवादभिया न प्राकट्येन तत्प्रतिसेविनो भवन्ति ॥ इमेतुनिस्त्रपतया सर्वत्र तान्यप्रतिहतप्रसरत्वेन सेवन्त इति ॥ तथा स्वविषयेष्वात्मग्राह्येषु रूपरसगन्धस्पर्शशब्देषु व्यासक्तान्युपभोगप्रवणानि सर्वेन्द्रियाणि सकलकरणानि चक्षूरसनघ्राणत्वग्श्रोत्राणि येषां ते तथा ॥ यतिना हि निगृहीतेन्द्रियेण भवितव्यम् ॥
अन्यथा प्रव्रज्याया जीवनमात्रतापत्तेः ॥ यदाह || प्रसञ्जितानि दीक्षित्वा, स्वानि येन सुखाशया ॥ विषयेषु हृषीकाणि, प्रव्रज्या तस्य जीवनम् ॥ लिङ्गिनस्त्वैहिकमेव, सुखं पुरस्कृत्य विषयेष्विन्द्रियाणि व्यासञ्जतो, यथेच्छं विचरन्ति ॥ तथा गौरवाण्यात्मन्युत्कर्षप्रत्ययहेतवोऽध्यवसायविशेषास्तानि च ऋद्धिरससातातिरेकहेतुत्वेन कारणे कार्योपचारादृद्धिरससातसंज्ञान्येव त्रीणि तैश्चण्डास्तत्साहाय्येनोद्धुराः ॥
दण्डा दण्ड्यते दुर्गर्तिपातेन दुःखे संस्थाप्यते आत्माऽमीभिरिति दण्डा अकुशल
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org