________________
विभाग-१, बृहद्वृत्तिः सावद्यशय्यारूपमठवासाभ्युपगमः ॥ अभ्युपेयतां चाधाकर्मादिसकलदोषरहितपरगृहवासेन सौविहित्यमिति ॥
तस्मादुक्तनीत्या यत्रेति मठादावित्यर्थानुपपत्तेर्यथा वृत्तिकृद्व्याख्यानमेवसाधीय इति ॥ एवं च बडिशपिशितोपमानेन जिनबिम्बस्यानायतनत्वसिद्धेर्युक्तमुदितं बडिश पिशितवद्विम्बमादयॆ जैनमिति ॥ साम्प्रतं प्रकृतमुपक्रम्यते ॥ ___तथा तन्नाम्ना जिननामधेयेन भगवद्भाण्डागारादिनिमित्तमेते निर्माप्यन्ते नास्मन्निमित्तमिति व्यपदेशेन रम्यरूपान् रुचिररचनया दृढबन्धतया च मनोहराकारान् अपवरका अन्तर्गृहा: मठा निलयविशेषास्ततो द्वन्द्वस्तान् ॥ ___ स्वेष्टसिद्ध्यै वयमेष्वाजन्मसुखेन वत्स्याम इत्यात्माभिमतनिष्पत्तये विधाप्य कारयित्वा ते हि शठाः स्वनिमित्तमवरकादीन्निष्पादयन्ति ॥ मुग्धाश्चजानते जिननिमित्तमित्यहो एतेषां जिनभक्तिरिति तेषु रज्यन्ते तैश्चोपजीव्यन्त इति वञ्चनप्रकारः ॥
तथा यात्राः पित्राद्युद्देशेन भवद्भिरत्राष्टाह्निकाः कर्त्तव्याः ॥ अमुष्मिन्वा मासादावमुनाश्राद्धेन श्रीमतात्र देवगृहे यात्राः कृतास्तस्माद्भवद्भिरपि तथैव विधेयाः ॥ तथा स्नात्रं श्राद्धपक्षादिषु पित्रादिश्रेयसे युष्माभिरत्रस्नानं कर्त्तव्यमित्युपदेशव्याजेन यात्रास्नात्रविधापनं ततो द्वन्द्वः ॥ ___ आदिशब्दाच्छ्रुतानुक्ताधुनाप्रवर्तितमाणिक्यप्रस्तारिकादिपर्वग्रहः ॥ तदादय उपाया मुग्धविप्रलम्भनप्रकारास्तैः ॥ ननु कथमेवंविधयात्रादीनां मुग्धजनप्रतारकत्वं यावता यथातथा भगवत्पूजायाः कुशलानुबन्धहेतुत्वादितिचेन्न ॥ एवं हि लोकोदाहरणप्रामाण्येन भगवत्पूजाविधाने भगवतोऽप्रमाण्यापादनेन मिथ्यात्वादिप्रसङ्गात् ॥
जिलृमि विजमाणे उचिए अणुजिट्ठपूयणमजुत्तं ॥ लोगाहरणं च तहा पयडे भगवंतवयणमि ॥ लोगो गुरुतरगो खलु एवं सइ भगवओवि इट्ठोत्ति ॥ मिच्छत्तमो य एवं एसा आसयणा परमा । ___ तथा नमसितकमुपयाचितकंभवतामिदानीमीदृगुपद्रवः समुपस्थितःसमुपस्थास्यमानं वा वर्त्तते तस्माद्भवद्भिस्तन्निवृत्तये जिनगोत्रदेवताऽम्बिकादिशासनसुराणामियद्रव्यमेषणीयमिति गृहिणः प्रति जिनाद्युद्देशेन वित्तव्ययविधापनमिति यावत् ॥
‘निशाजागरउपसर्गवर्गोपशमनाय प्रवचनदेवतादीनां पुरतो बल्यादिस्थापनगीतवाद्यलास्यपुरस्सरं सकलरात्रिजागरणं ततो द्वन्द्वः ॥ आदिग्रहणादन्येषामपिशान्तिकपाष्टिकानां संग्रहः ॥ तदादीनि छलानि छद्मानि लोकोपजीवनार्थमागमानभिहितत्वेन विलोभननिमित्तानीति यावत् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org