________________
श्री सङ्घपट्टकः ग्रहिकत्वेन सङ्क्लेशाभावेनचोत्तमत्वात् ॥ कुतीथिनां तद्भक्तानांच मध्यमः ॥ तन्मिथ्यात्वस्याभिग्रहिकत्वेन प्रथमापेक्षया निबिडत्वात् ॥ द्रव्यलिङ्गिनां पार्श्वस्थादीनां तु जघन्यस्तन्मिथ्यात्वस्याभिनिवेशिकत्वेन गोष्ठामाहिलादिवदितिबद्धमूलत्वात् ॥ एवं च ग्रन्थार्थ पूर्वापरपर्यालोचनेन कथं न तेषां महामिथ्यारूपत्वम् ॥ __ तथा च सिद्धं तत्परिगृहीताऽर्हच्चैत्यानामनायतनत्वं तत्प्रदर्शितस्य सर्वस्याप्य-धुनातनरूढ्या प्रत्यक्षस्य पथः संसारपथत्वेनाऽनायतनत्वात् ॥ तदेवमहोमोहध्वांतमहिमायदेव मुदितेपि सकलभावाभासने भगवद्वचने तमोपहे मूढानां विवेकलोचनगोचरं विधुरयति ॥
अथवा तामसानामियमेव गतिः ॥ किञ्च पञ्चकल्पेपि प्रश्नपूर्वमनायतनदेश-परिहारेणायतनदेशविहारक्रमं प्रतिपादयता भाष्यकारेण ॥ जहियं तु अणाययणा न हुंति केपुण अणाययणा भणिया ॥ साहम्मिभिन्नचित्ता मूलुत्तरदोसपडिसेवी ॥ एएहिं जो देसो आइन्नो तहय अन्नतित्थिहि ॥ मच्छंधवाहगामा पुलिंददेसाअणाययणा ॥ इत्यादिना सुविहितानां देशस्यापि पार्श्वस्थादिकुदेशनानिबिडनिगडितस्याऽनायतनत्वमुपदर्शितम् ॥ किं पुनः सतततन्निवासदूषितस्य जिनभवनस्य वक्तव्यम् ॥ दुरन्तत्वात्तत्संसर्गस्येति ॥
ननु भवत्येवं जिनगृहानायतनत्वसिद्धिर्यदिजत्थसाहम्मिया इत्यादौ यत्रेति जिनगृहादावित्ययमर्थः स्यान्न चैवं किन्तुयोति मठादौ ॥ तथा च तदेवतद्वासाङ्कितत्वादनायतनं न जिनभवनमिति चेन्न ॥ नाणस्सदंसणस्स य इत्यादौ यत्रेति जिनगृहादावित्यायतन इति वृत्तिकृव्याख्यानेनैकप्रकमात् ॥ जत्थसाहिम्मिया इत्यत्रापि तदर्थानुवृत्तेर्यक्रेत्यायतन इति व्याख्यानस्य न्यायप्राप्तत्वान यत्रेति मठादावित्यर्थः ॥
भवतु वा यत्रेति मठादौ तथापि किंमठादावेव वसन्ति अहो मठादावपीति विकल्पयुगलं भवन्मनोरथपथमथनपटिष्ठमुत्तिष्ठते ॥ तत्र यद्याद्यः पक्षस्तदा भवतो वाङमनसविसंवादेन चैत्यवासाभ्युपगमभङ्गप्रसङ्गः इतरथा मठादावेवेत्यवधारणानुपपत्तेः ॥ ___ अथ द्वितीयः ॥ तदानेनैवामृतं भक्षय ॥ मठदेवगृहयोरुभयत्रापि तन्निवाससिद्धेः सिद्धं नः समीहितम् ॥ अथ मठादावेव वसन्ति चैत्यवासाभ्युपगमस्त्वऽभ्युपगममात्रं मठवाससिध्यर्थं तं विना यतीनां चैत्यवासप्रयोजकत्वतच्चिन्ताविधानाद्यनुपपत्तेरितिचेन्न ॥ विकल्पासहत्वात् ॥
तथाहि तदभ्युपगममात्रं प्रमाणमूलमप्रमाणमूलं वा स्यात् ॥ प्रमाणमूलं चेन्मठादावेवेत्यवधारणव्याघातः ॥ तदभ्युपगममात्रस्य प्रमाणमूलत्वे चैत्यवासस्यापितन्मूलत्वेन प्रमाणसिद्धेः॥
अप्रमाणमूलं चेत्त्यज्यतां तर्हिचैत्वासाभिनिवेशः ॥समूलमुन्मूल्यतां तत्समर्थनाय विरचितानि वादस्थलानि ॥ समुत्सृज्यतामप्रमाणिकचैत्यवासाभ्युपगममूलत्वेना प्रमाण्यान्महा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org