________________
विभाग-१, बृहवृत्तिः ___ अमुमेवार्थ भावग्रामविचारप्रकमे शङ्कोत्तराभ्यामूचतुस्तत्र भगवन्तौ कल्पभाष्यचूर्णिकारौ ॥ नाणाइतिगं भावो जओय एएसि उप्पत्ती भावग्रामो नाणदंसण चरित्ताणि ॥ जओ वा एएसि उप्पत्ती हवइ । केय ते जओ उप्पत्ती हवइ ॥ उच्यते ॥ तित्थगरा जिणचुद्दसदसभिन्ने संविग्ग तह असंविग्गे ॥ सारूविय वयदंसणपडिमाओ भावगामाओ ॥ जा संमिभावियाओ पडिमा इयरी न भावगामो य ॥ भावो जइ नत्थि तहिं नणु कारणकज्जउवयारो ॥ आह कहं मिच्छद्दिठिपरिग्गहियाओ भावगामो न हवइ ॥ उच्चते ॥ तत्र ज्ञानादिभावो नास्ति ॥ आह ॥ ननु ॥ कारणे कार्योपचार इति कृत्वा ॥ ताओवि दट्ठणं कस्सवि समुप्पाओ होज्जा तो कहं ताओ भावगामो न भवइ ॥ आयरिओ भणइ ॥ एवं खु भावगामे निह्नवमाईवि जह मयं तुमं ॥ एयमवच्चं कोणुहु वयविवरीओ वइज्जाहि ॥ __ननु तथापि मिथ्यादृक्परिगृहीतचैत्यानामभावग्रामत्वमेवोक्तं नत्वनायतनत्वम् ॥ अभावग्रामाऽनायतन शब्दयोः पर्यायत्वाभावादिति चेन्न ॥ भावग्रामशब्दस्य ज्ञानाद्युत्पत्तिकारणाद्यर्थत्वेनायतनपर्यायत्वसिद्धौ तद्विपक्षस्यार्थादेवानायतनपर्यायत्वसिद्धेः ॥
एवं च भगवत्कल्पभाष्यार्थमीमांसनेन कथं मिथ्यादृष्टिपरिगृहीतार्हत्प्रतिमानां नायतनत्वं सिध्यतीति । एतेन "परतित्थिपरिग्गहिए मुत्तुं अरहंतचेइए सेसे अवंदमाणो पारंचियारिहो होइ" त्ति विशेषकल्पचूर्णौ सूत्रमिदमधीयत इति यत्कैश्चिदुच्यते ॥ तद्ग्राम्यजनविप्रलम्भनमिति मन्तव्यम् ॥
एवंविधसूत्रस्य तत्र क्वाप्यनुपलम्भात् ॥ जा सम्मिभावियाओ इत्यादि कल्पभाष्यविरोधाच्च मिथ्याभिनिवेशेन च स्वकपोलशिल्पिकल्पितैरेवंविधपालैर्मुग्धजनव्यामोहने महापापप्रसङ्गात् ॥ - नन्वेतावतापि प्रबन्धेन तदवस्थमेव पार्श्वस्थादिपरिगृहीतचैत्यानामायतनत्वम् ॥ परतीथिकानामेव मिथ्यादृष्टित्वात्पार्श्वस्थादीनां च स्वयूथ्यत्वेनतदभावादिति चेन्न ॥ तेषामपि सिद्धान्ते मिथ्यात्वप्रतिपादनात् ॥
तथा ह्युपदेशमालायाम् ॥ सावज्जजोगपरिवज्जणाइ सव्वुत्तमो जईधम्मो ॥ बीओ सावग्गधम्मो तइओ संविग्ग पक्खपहो॥
इत्यनेनोत्तममध्यमजघन्यभेदेन मुक्तिपथत्रयं प्रदर्श्य संसारपथत्रयं दिदर्शयिषता ग्रन्थकारेण प्रतिपादितं सेसामिच्छद्दिठीगिहिलिङ्गकुलिङ्गदव्वलिङ्गेहिं जह तिन्नीमुरकपहा संसारपहा तहा तिन्नि॥
अत्र सुसाध्वादिव्यतिरिक्ता मिथ्यादृष्टयो गृहिलिङ्गिद्रव्यलिङ्गिनो दर्शिताः ॥ तत्र गृहिलिङ्गिनां हलधरगोपालादीनां सामाचार उत्तमः संसारपथः ॥ तन्मिथ्यात्वस्यानाभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org