SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९४ श्री सङ्घपट्टकः कदाचिदनायतनव्यपदेशादौपाधिकत्वेन तस्य पृथगपरिसङ्ख्यानात् ॥ यद्वा ॥ तत्पूजार्हाणामेव चैत्यानां सङ्ख्याभिधानम् ॥ अनायतनचैत्यस्यत्वपूज्यत्वेन पृथगपाठात्तदन्तः पाठे तस्याप्येवं प्रतिपोरन्मन्दमेधसः ॥ ___ एक सूत्रनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति वैयाकरणन्यायात् ॥ तस्मात् ज्ञायते विशेषप्रतिपत्तये तेभ्यस्तस्य पार्थक्याभिधानमिति नागमोक्तचैत्यसङ्ख्या विरोध इति ॥ नन्वेतावता कुतीर्थपरिगृहीतार्हच्चैत्यानां सिध्यत्वनायतनत्वं नतु स्वयूथ्यपार्श्वस्थादिपरिगृहीतानामिति चेन्न तेषामपि सिद्धान्तोक्तेन भावग्रामत्वेन तथात्वसिद्धेः ॥ ननु कोयं भावग्रामो नामयदभावात्प्रतिमानामनायतनत्वं प्रसाध्यते भवतेति चेत् ॥ उच्यते ॥ ज्ञानदर्शनचारित्राणि भावग्रामो येभ्यो वा ज्ञानादीनामुत्पत्तिरिति ॥ अथ के ते येभ्यो ज्ञानाद्युत्पादः ॥ अवहितीभूय श्रूयताम् ॥ तीर्थंकरमनःपर्यायावधिज्ञानिनश्चतुर्दशदशनवपूर्वधराः संविग्नास्तत्पाक्षिकाच सारूपिणो गृहीताणुव्रताः प्रतिपन्नसम्यक्त्वाश्च श्रावकाः अर्हत्प्रतिमाश्च ॥ तीर्थंकरादयो हि देशनादिद्वारेण. भव्यसत्वानां ज्ञानाद्युत्पादहेतुत्वेन भवन्ति भावग्रामः ॥ नन्वेवं तर्हि फलितमस्माकं मनोरथपादपेन ॥ तीथङ्करादिवत्प्रतिमानामपि भावग्रामत्वेनाऽनायतनत्वासिद्धेरितिचेन सम्यग्दृष्टिपरिगृहीतानामेव तासां भावग्रामत्वप्रतिपादनात् ॥ अथ कथञ्चित् मिथ्यादृष्टिपरिगृहीतानां तासां तन्नभवति ज्ञानाद्यभावादिति चेन्न तदभावेपि तासां वीतरागत्वलिङ्गदर्शनेन कस्यचित्सम्यक्त्वाद्युत्पादात् ॥ यदुक्तम् ॥ दलिततमसमुच्चै स्वितो यस्य बिम्बम् गतमलमपि दृष्टेर्नालिकानां विबोधम् ॥ प्रजनयति रजोभि धूसराणां नराणाम् त्रिजगति स नमस्यः कस्य न स्याग्जिनेन्द्रः ॥ ततश्चायुघृतमितिवत् कारणे प्रतिमालक्षणे ज्ञानादिलक्षणकार्योपचारेण तासामपि भावग्रामत्वमुपपत्स्यत इति चेन्न ॥ एवं सति निह्नवादीनामपि भावग्रामत्वापत्ते स्तेषामपि प्रशान्तरूपक्रियादिदर्शनेन कस्यचित् सम्यत्क्वाद्युत्पत्तेः ॥ नचेदमिष्टं भवतोपि सर्वैरेव जिनमततिभिर्निह्नवानामाज्ञाबाह्यत्वेनाभावग्रामतया वर्जनीयत्वाभ्युपगमात् ॥ एवं निह्नवोदाहरणेन प्रतिमानामपि मिथ्यादृष्टिपरिगृहीतानामभावग्रामत्वेन वजनीयत्वमभ्युपेयम् ॥ यदुक्तम् ॥ चित्रं निसर्गसुभगापि परिग्रहेण, मिथ्यादृशां भगवतः प्रतिमा तथापि ॥ सम्यग्दृशां प्रणमनादिविधावभावग्रामत्वतो भवति निह्नववद्विहेया ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy