________________
विभाग-१, बृहद्वृत्तिः
मध्यात्प्रकृतचैत्ये किञ्चिदुपलभ्यते ॥
तथाहि तत्र ॥ सर्वदान्तर्निवसद्भिरेव पार्श्वस्थादिभिः सकलचिन्ताविधानाच्छ्राद्धानां चात्यन्तकुदेशनावासितानां विधिपथमात्सर्येण तदुत्साहायैव प्रत्यवस्थानाद् दूरोत्सारित सुविहितानां तत्र व्याख्यानविधानम् ॥ तथा च कथमेतन्निश्राकृतं स्यात् ॥
९३
तस्मादनिश्रानिश्राकृतव्यतिरिक्तं लिङ्गिभिरध्यासितं तृतीयमेतदनायतनाभिधानं चैत्यमभ्युपगन्तव्यमिति ॥ ननु नित्यभक्तिकृतसाधर्मिकमङ्गलचैत्यभेदाच्चतुर्विधं चैत्यं सिद्धान्ते परिसङ्ख्यायते ॥ भक्तिकृतस्य निश्रानिश्राकृतभेदन द्वैविध्यात्पञ्चविधं वा ॥
न त्वनायतनाख्यस्य पञ्चमस्य षष्ठस्य वा क्वचित्परिसङ्ख्यानमस्ति । यदि ह्यनायतनमप्यभिप्रेतं स्यात्तदा तदपि नित्यचैत्यादिवत् परिसङ्ख्यायेत ॥ न चैवं ॥ तस्माच्चत्वारि पञ्चव चैत्यानि नानायतनमिति ॥ यथोक्तम् ॥ नीयाई सुरलोए भत्तिकयाइं च भरहमाईणं ॥ निस्सास्सिका साहम्मि य मंगलाई चेति चेन्न ॥
अन्यतीर्थिकपरिगृहीतार्हत्प्रतिमानां वन्दनादिनिषेधेन तस्याप्यागमेभिमतत्वात् ॥ कथमन्यथा सम्यक्त्वप्रतिपत्तिसमये श्राद्धानां नो मे कप्पइ अन्नतित्थियपरिग्गिहियाणि अरिहंतचेईयाणि वन्दित्तए वा नमसित्तए वा इत्यादिना भगवान् भद्रबाहुस्वामी भगवत्प्रतिकृतीनां बोटिकादिपरिगृहीतानां वन्दनादिप्रतिषेधमभिदधीत ।। न ह्यनायतनत्वं विना तत्प्रतिषेधाभिधानं शोभां बिभर्त्ति ॥ तस्मादस्त्यनायतनं सिद्धान्तभिहितमिति ॥
उक्तेष्वेवान्तर्भावान्नैतत्पृथगस्तीतिचेन्न तदभावात् तथाहि न तावन्नित्यचैत्येअस्यान्तर्भावः कृतकत्वेन तद्भावानुपपत्तेः ॥ विमानभवनसनातनशिलोच्चयादिष्वेव च नित्यचैत्यानां भावात् ॥ नापि निश्रानिश्राकृतयोः ॥ प्रागुक्तलक्षणस्येहानुपपत्त्येव तदन्तर्भावस्यापाकरणात् ॥
नापि साधर्मिकचैत्ये ॥ यतिमूर्त्यनुषङ्गित्वेनैव तस्याभिधानात् ॥ यदुक्तम् ॥ वारत्तगस्स पुत्त पडिमंठाविंसुचेइ य हरंमि ॥ तत्थयत्थलीआहेसी साहम्मिय चेइयं तंतु ॥ नापिमंगले चैत्ये तस्य प्रतिनियतविषयतयैव प्रतिपादनात् ॥ यदुक्तम् ॥ अरहंत पइठ्ठाए महुरानयरीइ मंगलाईतु ॥ गेहेसु चच्चारेसु य छन्नउइ गाम गद्येसु ॥
तस्मादेतेष्वन्तर्भावात् परतीर्थिकपरिगृहीताऽर्हच्चैत्यानामनायतनचैत्यत्वं सिद्धमिति ॥
नन्वेवं षष्ठचैत्याभ्युपगमे सूत्रोक्ता नित्यादिचैत्यपञ्चकसङ्ख्या विरुद्धयते ॥ तथाच सूत्रकृतां विरुद्धवादित्वेनान्यत्रापि तद्वचसि विनेयानां समाश्वासो न स्यादेवं च बहु विशीर्येतेतिचेन्न ॥ अविरोधात् ॥
नीयाइ सुरलोए इत्यादौ देवकुलिकपरिग्रहाद्युपाधिवशेनानि श्राकृतादेरपि क्वचित्
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org