________________
श्री सङ्घपट्टकः तन्निवासौपाधिकत्वाद् भवति जिनभवनस्यानायतनत्वम् ॥
उपाध्यपराधेन स्वरूपत आयतनस्यापि तस्यानाश्रयणीयत्वात् ॥ दृश्यते चो पाधिवैगुण्यादुपाधिमतः सुगणस्याप्यभोग्यत्वम् ॥ यथा भुजङ्गसङ्गाच्चंदनतरोरिति भवत्यौपाधिकमस्यानायतनत्वमिति ॥ अत एव भगवता भद्रबाहुस्वामिना नायतनस्वरूपविचारात्परत: आयतनविचारप्रक्रमे भावायतनस्वरूपं प्रतिपिपादयिषता प्रथमं भावंमि उ होइ ति विहंतु इत्यनेन ज्ञानदर्शनचारित्रपवित्रमुनिलक्षणमनौपाधिकभावयतनस्वरूपमभिधाय तन्निवासौपाधिकत्वात्तदाश्रयस्याप्यायतनत्वम् ॥
जत्थ साहम्मिया बहवे सीलवंता बहुस्सुया ॥ चरित्तायारसंपन्ना आययणं तं वियाणाहि ॥ इत्यनेन प्रतिपादितम् ॥ लिङ्गप्रवचनाभ्यां साधर्मिकाः शिलादिमन्तः साधवा यत्र निवसन्ति तदायतनमिति तत्र व्याख्यानात्तत्कस्यहेतोः तदुपाधिसन्निधानादुपाधिमतस्तद्रूपता भवतीति ज्ञापनार्थम् ॥ ___ अत एव हरिभद्रसूरिणा जिनभवनविधापनभूभागं निरुपयता तत्पञ्चाशके कुत्सितलोकाकीर्णपाटकान्तनिर्मिते जिनगृहे साधूनामुपपातेन चारित्रभङ्गप्रसङ्गात्तत्र तद्विधापनाभावः प्रदर्शितः ॥ यदुक्तम् ॥ अएएसंमि न वुढी कारवणे जिणहरस्स नय पूया । साहूणमणणुवाओ किरियानासोउ स्ववाए।
न चैतावता तस्य नानायतनत्वं ज्ञानादित्रयविघातहेतुत्वस्य तल्लक्षणस्य तत्रा प्युपपद्यमानत्वात् ॥ तस्मात्सिद्धमुपाधिदोषाज्जिनभवनस्याप्यनायतनत्वं ज्ञानादित्रयविघातहेतुत्वस्य तल्लक्षणस्य तत्राप्युपपद्यमानत्वात् ॥
अनिश्रानिश्राकृतयोरन्येतरदेतदधिकृतं जिनभवनं भविष्यतीति चेन्न तल्लक्षणानुपपत्तेः तल्लक्षणमन्तरेण च लक्ष्यस्य तत्तया व्यवस्थापयितुमशक्यत्वात् ॥
तथाहि ॥ नैतदनिश्राकृतम् ॥ अत्रोत्सूत्रेत्यादिना प्रागभिहितस्य तल्लक्षणस्य विधिरोधसोऽत्र विवक्षितचैत्येऽनवरतं प्रवहता सर्वथा तद्विपरीतेनाऽविधिश्रोतसा समूलकाषं कषितत्वात् ॥
नाप्येतन्निश्राकृतम् ॥ निश्राकृतं हि तदुच्यते ॥ यत्र देशकालविप्रकर्षादिना सुविहतगुरुशिक्षादिविरहाच्छैथिल्यातिशयेन देशतःपार्श्वस्थावसन्नादिभावमापन्नानां शुद्धप्ररूपकाणामपि सातलोलतया तथाविधं विधिमनुपदिशतामप्रवर्तयतां च चैत्यादहिनिवासेपि तच्चिन्तापराणां यतीनां निश्रा वर्त्तते ॥
यत्र च श्राद्धानां श्रद्धावृद्धये सुविहितसूरयोपि कदाचिद्व्याख्यानं विदधति ॥ उसन्नावि य तत्थेवेत्यादि तथाप्तरिति समोसरणमित्यादि प्राक्प्रतिपादितवचनात् ॥ न चोक्तलक्षण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org