SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ९१ विभाग-१, बृहद्वृत्तिः एवं चैवंविधः सिद्धान्ताभिहितो विधिर्यत्र वर्त्तते तद् विधिचैत्यमनिश्राकृतं द्रव्यत आयतनं चोच्यते इति भावत आयतनं तु ज्ञानादित्रयभ्राजिष्णवः पञ्चविधाचारचारवः सुविहितसाधवः ॥ शुभभावरूपाणां सतां वन्दनादिना भव्यानां ज्ञानादिलाभहेतुत्वात् ॥ यदुक्तम् ॥ आययणंपि य दुविहं दव्वे भावे य होइ नायव्वं ॥ दव्वंमि जिणहराई भावंमि य होइ तिविहं तु ॥ ननु भवत्वेवं द्रव्यभावभेदेनानायतनस्वरुपं तथापि जिनभवनं न क्वचि दनायतनमभिहितम् ॥ सत्यमनौपाधिकमनायतनायतनयोः स्वरूपमिदमुदितम् ॥ औपाधिकं त्वनायतनस्वरूपमेवं प्रतिपादितमागमे ॥ यत्र गतनां ज्ञानादित्रयव्याघातो भवति तद्वर्जयेन्मतिमान् ॥ अथ क्व गतानां तद्व्याघात इति चेदुच्यते ॥ यत्र लिङ्गमात्रधारिणः साधवो वसन्ति यदाहुरोधनियुक्तौ श्रीभद्रबाहुस्वामिपादाः ॥ नाणस्स देसणस्सय चरणस्स य जत्थ होइ वाघाओ ॥ वज्जिज्ज वज्जभीरू अणाययण वज्जओ खिप्पं ॥ सुगमा ॥ नवरं यत्रेत्यायतने स्थाने देवगृहादौ ॥ नचायतनशब्देनालयमात्रमेवोच्यते ॥ तद्देवगृहमिति वाच्यम् ॥ आयतनं देवानाम् ॥ तथा आययणंमि अभोगो इत्यभिधानकोशागमवचनाभ्यां लोके लोकोत्तरे च सामान्य विशेषाभ्यां देवगृहस्याभिधानात् ॥ ___ अथ किं तदायतनं यत् ज्ञानादित्रयोपघातिनिमित्तत्वादनायतनं भवतीत्याह ॥ जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया मूलगुणप्पडिसेवी अणाययणं तं वियाणाहि ॥ साधर्मिका लिङ्गतः समान धर्माणो बहवो भिन्नवृत्ता भ्रष्टाचारा अनार्या मूलगुणप्रतिसेविनो निर्दयतया प्राणातिपातादि प्रसक्ता यत्र ते निवसन्ति तदनायतनम् ॥ तथा जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिआ ॥ उत्तरगुणपडिसेवी अणाययणं तं वियाणाहि सुगमा ॥ नवरं उत्तरगुणप्रतिसेविनोऽशुद्धपिण्डादिग्राहिणः ॥ तथा ॥जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया ॥ लिङ्गवेसपडिछन्ना अणाययणं तं वियाणाहि ॥ सुगमा ॥ नवरं लिङ्गवेषमात्रेण प्रतिछन्ना आच्छदिताः प्राकृतलोकैः सुविहितेभ्योऽलक्ष्यमाण विशेषा इतियावत् ॥ इति बाह्यतः ॥आभ्यन्तरतः पुनर्मूलगुण प्रतिसेविनः उत्तर गुणप्रतिसेविनश्च यत्र तदनायतनमिति गाथा त्रयार्थः ॥ . श्री हरिभद्रसूरिभि विवरणे प्रतिपादित इति ॥ अस्य चायमाशयः ॥ न हि रुद्रादिगृहवत्स्वरूपेण जिनभवनमनायतनम् ॥ किन्तूपाधिवशात् ॥ उपाधिश्च तत्र लिङ्गिनिवासः ॥ अत एवोक्तम् ॥ यत्र निवसन्ति तदनायतनमिति ॥ तथा च यदि ते जिनभवने निवसन्ति तदा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy