________________
९०
श्री सङ्घपट्टकः तन्निर्मापणचिन्तादावधिकारात्तथा च कथं जिनगृहादेर्यतिममकारविषयता ॥ आश्रयश्च तेषां नास्ति ॥ प्रागऽभिहितदोषकलापात् ॥
तथा स्त्रीणां प्रवेशो निशि नास्ति ॥ अकालचारित्रदोषप्रसङ्गात् ॥ तदुक्तम् ॥ अज्जाणसावियाण य अकालचारित्तदोसभावाओ ॥ ऊसरणंमि न गमणं दिवसतिजामे निसिकहता ॥
लोकेपि कुलवधूनां यामिन्यां स्वगृहाद्वहिर्निगच्छन्तीनां महापवादाभिधानात् ॥ तदुक्तम् ॥. स्वगेहदेहली त्यक्ता निशि स्त्री याति या बहिः ॥ ज्ञेया कुलस्थितेर्लोपात्कुलटाकुलजापि सा ॥ दण्डनीतावपि कुलबालिकानां निशि स्वसद्मबहिर्निगमे दण्डप्रतिपादनाच्च ॥
अत एव यतिवसत्यादौ योषितामेकाकिनीनां दिवसेप्यनेकावर्णशङ्काकलङ्कानुषङ्गास्कन्दितत्वेन प्रवेशस्य प्रतिषेधः ॥ एवं च यदा लोकेपि रात्रौ स्त्रीणां गृहनिर्गमो विरुद्धस्तदा का वार्ता जिनशासने ॥ तस्मात्सर्वथा जिनवेश्मनि निशायां योषित्प्रवेशोऽनुचितत्वान्नास्तीति ॥
जातिज्ञातिकदाग्रहश्चनास्ति ॥ तत्र जातिकदाग्रहएतज्जातीया एव श्रावका अत्र भगवद्विम्बस्य दक्षिणादिशि स्नात्राधिकारिणो नान्यजातीया इत्यादिकः ॥ ज्ञातिकदाग्रह अस्माभिरस्मत्पूर्वजैर्वाकारितमिदं जिनमन्दिरं ततोऽस्मत्सगोत्रा एवात्र सर्वस्यामपि देववित्तसमुद्गकादिचिन्तायामधिकारिणो नेतर इत्यादिकः ॥
स च विधिचैत्ये न सङ्गतः सर्वेषामेव धार्मिकश्राद्धानां गुणवतां तत्र सर्वाधिकारित्वाभिधानादन्यथा जात्यादिनिश्रयाप्यनिश्राकृतत्वानुपपत्तेरिति ॥
न च श्राद्धलोकस्य ताम्बूलभक्षणमस्ति भगवदाशातनापत्तेः ॥ ताम्बूलमिति च तंबोलपाणेत्यादि गाथोक्तानां पानभोजनादीनामुपलक्षणम् ॥ तथा ॥ गब्दिकाद्यासन मप्याशातनाविशेषत्वादुपलक्ष्यते ॥ इत्येवंप्रकारा आज्ञाविधिः ॥ अत्रैषा निश्रितेकस्यापि यत्यादेनिश्रया अधीनतया विना कृते विधिकृते श्रुतोक्तविधिनिष्पादिते श्रीजिनचैत्यालये जिनभवन इति ॥
तथा इह न खलु नैव निषेधो निवारणं कस्यापि वन्दनपूजनादावुत्सूत्रभाषिणां तद्भक्तानां चापिवन्दनादिकं विदधतां न निषेधः क्रियते ॥ श्रद्धाभङ्गमास्तर्यादिदोषप्रसङ्गात् ॥ श्रुतविधिबहुमानी सिद्धान्तक्रमादरवान् तुःपुनरर्थे अबसर्वोयतिः श्राद्धो वा यथाक्रमं व्याख्यानादौ चैत्यचिन्तायां चाधिकारी योग्यः सिद्धान्तविधिविधुरस्य साध्वादेर्व्याख्यानादौ न तत्राधिकार इत्यर्थः ॥ त्रिचतुरजनदृष्ट्याविधिपरश्राद्धत्रयचतुष्टयदृशाऽत्र चैत्यद्रव्यवृध्यादिकं चैत्यचिन्तनं कार्यं विधेयं नत्वेकाकिना निस्पृहेणापि ॥ लोकापवादादिदोषापत्तेरिति प्रासङ्गिक वृत्तद्वयार्थः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org