________________
विभाग-१, बृहद्वृत्तिः
८९
स्वमतिकल्पितमागमोत्तीर्णंतद्विसंवादि चानुष्ठानम् ॥ यदाह ॥ उस्सूत्तमणुवइट्टं सच्छंदविप्पियं अणुवाइति ॥ कथं पुनरेतदुत्सूत्रं जिनसदने जायते इति चेत् उच्यते ॥
गृहिणा स्ववित्तेन देववित्तेन वा भाटकादिहेतुकदेवद्रव्यवृद्धये यद्देवनिमित्तं स्थावरादिनिष्पादनम् ॥ तथा महार्घानेहसिविक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समर्थ - धान्यसङ्ग्रहणम् ॥
तथा यद्देवहेतवे कूपवाटिकाक्षेत्रादिविधानम् ॥ तथा शुल्कशालादिषु भाण्डमुद्दिश्य राज्यग्राह्यभागाधिककरोत्पादनादुत्पन्नेन द्रविणेन यद् गृहिणा देवपूजनविधानमित्थमेवमादीन्युत्सूत्रपदानि यतिदेशनया देवगृहेऽपि सम्भवन्ति ॥
यदुक्तम् ॥ उस्सुत्तं पुण इत्थं थावरपाओगकूवकरणाई ॥ उष्भूयगकर उप्पायणाइ धम्माहिगारंमि ॥ अत्र चादिशब्दान्निशिबलिनन्द्यादिग्रहः ॥ तत्र स्थावरादिनिर्मापणादीनां षट्कायादिरम्भा संयतवासादिना महासावद्यत्वेन देवनिमित्तं सिद्धान्ते निवारितत्वादुत्सूत्रम् ॥
एतान्यन्तरेणापि च भक्तिमद्भिः स्वद्रव्यव्ययेन भगवत्सपर्यापर्यापणात् ॥ उद्भूतककरोत्पादनस्य च व्यवहारिणामत्यन्ताप्रीतिजननादुत्सूत्रत्वम् ॥ पराप्रीतिमात्रस्यापि जैनमते . भगवच्छ्रीमहावीरोदाहरणेन बहुधा निषेधात् ॥
• यदुक्तम् ॥ धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं ॥ इय संजमोवि सेओइत्थय भयवं उदाहरणं ।। सोतावसासमाओ तेसिंअप्पत्तियं मुणेऊणं ॥ परमं अबोहिबीय तओ गओ हंतकालेवि ॥
निशि बलिनन्द्यादिकस्य चोत्सूत्रत्वं प्रागेव भावितम् ॥ तथाचैवमाद्युत्सूत्रभाषिणां तत्र व्याख्यानान्द्याधिकारेण यावदुत्सूत्रभाषिसंतानं यावज्जिनगृहं च तद्देशनया तत्र प्रवर्त्तमानानां संतानक्रमेण प्रजायमानानां च श्राद्धानां भवकूपप्रपातप्रसङ्ग इति ॥
अत एव कथञ्चिदगत्या तदुपाश्रये गतानां सुविहितानां माभूत्तद्देशनाकर्णनात्संशयादिना सत्पथविप्रतिपतिरिति तदनाकर्णनाय तत्प्रतिघातश्रवणस्थगनादयः प्रकाराः सिद्धान्ते प्रदर्शिताः ॥
यदाह ।। एमेव अहाछंदे पडिहणणाज्जाण अज्जयणकन्ना ॥ ठाणठिओनिसामे सुवणाहरणाय गहिए ।। तस्मान्न विधिचैत्ये तेषां क्रम इति ॥ तथा नच स्नात्रं रजन्यां सदा ॥ प्राग्दर्शितदोषसन्दोहात् सदेति सर्वकालमित्यर्थः ॥ तेन कदाचित्कस्य श्रीमहावीरमोक्षकल्याणकस्नात्रस्याप्याधुनिकरुढ्या रात्रौ कैश्चिद्विधियमानस्य निषेधो ज्ञापितः ॥ एतेन प्रतिष्ठाया अपि रात्रौ निषेधः सूचितः तस्याः स्नात्रपुरःसरत्वात् ॥
तथा साधूनां ममता मदीयमेतज्जिनगृहप्रतिमादिकमित्यादिका नास्ति ।। गृहस्थस्यैव
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org