________________
श्री सङ्घपट्टकः वंदमाणस्स नेय कित्ती न निज्जरा होइ ॥ कायकिलेसं एमेव कुणइ तहकम्मबन्धं च ॥
ननु भवत्वसदाचारगुरूणां वन्दनादयशः कर्मबन्धस्तुकुतस्त्यस्तत्कारणसङ्क्लेशाद्यभावादिति चेत् न ॥तद्वन्दने तदसत्क्रियानुमोदनेनाऽन्येषामपि बहूनां तद्विषयबहुमानोत्पादनात्कर्मबन्धोपपत्तेः ॥
॥ यदाह ॥ किइकम्मंचपसंसा, सुहसीलजणंमिकम्मबन्धाय ॥ जेजे पमायठाणा ते ते उववूहिया होति । किञ्च तैः सार्धं संवासमात्रस्यापि यथाक्रममसेव्यतागर्हितत्वापत्त्यादृष्टान्ताभ्यां सिद्धान्ते सुविहितानां निषेधप्रतिपादनात् ॥ यदुक्तम् ॥ असुइठाणे पडिया चम्पकमालान कीरई सीसे ॥ पासत्थाइठाणेसु वट्टमाणो तह अपुज्जो ॥ पक्कणकुले वसंतो सउणीपारोवि गरहिओ होइ ॥ इयगरहियासुविहिया, मज्जिवसंता कुसीलाणं ॥
प्रद्वेषस्तु तेष्वपि न कर्त्तव्यस्तस्य दुर्गतिनिबन्धनत्वेनाभिधानात् ॥ किन्त्वहो कथममीमूढा भवकोटिदुरापमप्येतज्जिनमतमाणिक्यमासाद्य मुधा हारयन्तीति तत्स्वरूपं सानुकम्पं विभावयद्भिविवेकिभिरुपेक्षैव तेषु विधेया॥
॥ यदुक्तम् ॥ इयरेसुवियपओसो, नोकायव्वोभवठिईए सो ॥ नवरं विवज्जणिज्जो, विहिणा सइधम्मनिरएणमिति ॥ तदेवं पार्श्वस्थादिवन्दनस्य सुविहितानां ज्ञानादिहानिनिमित्तत्वा द्यवसितमेतद्धीनाचारा यतयोऽनायतनमिति ॥ ____ अधुनायतनं विचार्यते ॥ तत्रायतनं स्थानं गुणानामितीहापिगम्यम् अथवा आयस्यतननान्निरुक्तविधिना यतनम् ॥ वन्दनादिना ज्ञानादिलाभविस्तारकारणमित्यर्थः ॥ तदपि द्विधा ॥ द्रव्यभावभेदात्तत्र द्रव्यतो जिनभवनमनिश्राकृतं विधिचैत्यमायतनम् ॥ ___ द्रव्यरूपस्य सतस्तस्य सिद्धान्तोक्तविधिप्रवर्तनेन भव्यानां ज्ञानादिवृद्धिहेतुत्वात् ॥ अथ कोसौविधिर्यत्प्रवृत्त्या तत् विधिचैत्यमित्युच्यते ॥ तत्र निर्मापणे विधिः प्रथममेव किञ्चिदभिहितः ॥ सम्प्रति निर्मापिते तस्मिन् प्रतिष्ठापिते च स एव दिग्मात्रमभिधीयते ॥ यदुक्तम् श्रीप्रकरणकारैरेव स्थानान्तरे विधिचैत्यविधि प्रदर्शयद्भिः ॥ __ अत्रोत्सूत्रजनक्रमो न च न च स्नानं रजन्यां सदा, साधूनां ममताश्रयोन च न च स्त्रीणां प्रवेशो निशि ॥ जातिज्ञाति कदाग्रहोनच नच श्राद्धेषु ताम्बूलमित्याज्ञानेयमनिश्रिते विधिकृते श्रीजैनचैत्यालये ॥ इह न खलु निषेधः कस्यचिद्वन्दनादौ, श्रुतविधिबहुमानी त्वत्रसर्वोऽधिकारी ॥ त्रिचतुरजनदृष्टया चात्र चैत्यार्थवृद्धिव्ययविनिमयरक्षाचैत्यकृत्यादिकार्यम् ॥ व्याख्या ॥ अत्रेति विधिचैत्ये उत्सूत्रजनानामुत्सूत्रभाषिणां यत्यादीनां क्रमो व्याख्यानं नन्द्यादिकरणाधिकारो नास्ति किं तदुत्सूत्रमिति चेत् उच्यते ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org