________________
८७
विभाग-१, बृहद्वृत्तिः
ननु तथापि यथाऽर्हद्विम्बानामर्हद्गुणवन्ध्यत्वेऽपि तद्गुणाध्यारोपेण वन्दनम् वाञ्च्छितफलावहम् ॥ तद्वत्पार्श्वस्थादीनां यतिगुणशून्यत्वेऽपि लिङ्गसाम्येन तदारोपात् तथा घटिष्यत इति चेन्न ।
अर्हद्विम्बेषु ह्यनुपयोगरूपत्वाद्यथा गुणानामभावस्तथा दोषाणामपि ॥ तथाचोभयस्याप्यभावाद्युक्तं तेषु सतो विद्यमानार्हद्गुणानध्यात्ममध्यारोप्य फलार्थिनां वन्दनम् ॥ पार्श्वस्थादीनां तु प्रत्यक्षलक्ष्यमाणनिखिलदोषकलापानां सर्वथा मुनिगुणोज्जितत्वेन लिङ्गसाधर्म्यात्तद्गुणारोपेण तद्विधीयमानं कथङ्कारं घटामाटीकेत ॥
कोह्यनुन्मत्तः पीतिमचाकचक्यादिसाधात्काञ्चनगुणानारोप्यारकूटं कनकमूल्येन क्रीणीयात् ॥ तदुक्तम् ॥ नाज्ञाहते मुनिगुणानधिरोप्य लिङ्गसारुप्यतः परिचरत्यवकीर्णतोऽन्यः क्रीणाति रुक्ममिति तद्गुणरोपणात्को रीतिं सुवर्णतुलयेतर उन्मदिष्णोः ___ तस्माद्यत्किचिदेतदपीति ॥ तस्मान्नलिङ्गमानं सुविहितानां वन्दनगोचरः किन्तु गुणः न च लिङ्गमात्रस्यावन्द्यत्वे द्विजादिवदपवादेनापि तेषां वन्दनाभिधानं सिद्धान्ते न सङ्गच्छत इति वाच्यं, तेषामनुद्घाटितत्वेन लिङ्गमात्रसाधादपवादेन तदुपपत्तेरिति ॥
ननु माभूवन्यार्श्वस्थादयः क्रियाहीनत्वाद्वन्दनीयाः ॥ ये तु गच्छे बहुयतिसङ्कलत्वास्वमत्या पिण्डाशुद्ध्यादिदोषसम्भावनया ततो निर्गत्य स्वातन्त्र्येण दुष्करक्रियां कुर्वन्ति ते संयमक्रियातत्परत्वाद्वन्द्या भविष्यन्तीति चेत् न ॥ तेषामपि सुगुरुसम्प्रदायाभावात् सम्यगागमार्थापरिज्ञानेन विपर्यस्तमतितयोत्सूत्रभाषित्वात् ॥ कुग्रहाहुष्करक्रियाकरणेप्युत्सर्गापवाद
क्षेत्रकालादिविषयविभागानवबोधेन प्रवचनमालिन्यकारित्वाच्च यतित्वनिषेधात् ॥ • तथा चावन्दनीयत्वात्तहमानविधायिनां चोत्पथानुमोदनेन दुर्गतिपातप्रतिपादनात् ॥ यदाह ॥ जेउ तह विवज्जथ्थासम्मं गुरुलाघवं अयाणंता । सग्गाहाकिरियरया पवयणखिसावहा खुद्दा ॥ पायं अभिन्नगंठी तमाउ तह दुक्करंपि कुव्वंता ॥ बज्जव्व न ते साहू खंधाहरणेण विन्नेया ॥ तेसिं बहुमाणेणं उन्मग्गणुमोयणा अणिट्ठफला ॥ तह्मा तित्थयराणाठिएसु जुत्तुथ्थ बहुमाणो ॥
तस्माद् गुणवतामेव वन्दनं श्रेयो न लिङ्गक्रियामात्रधारिणामिति ॥ तथा पूर्वत्वादज्ञातगुणदोषोपि यतिः पर्युपासनीयः प्रथमं यावत्परिशीलनेन तस्याद्यापिदोषोपलम्भो न भवति ॥ तदुपलम्भे तु सोपि दूरतो वर्जनीयः ॥ ___ यदाह ॥ अमुणियगुणदोसं पासिओ साहुवेसं, पढममसढभावालेहसुस्संजयं च ॥ पुणबकुसकुसीलुत्तिन्नमुस्सुत्तभासिं ? विसविसहरसंसग्गिव उज्जेह तुज्जेति ॥ अथ पार्श्वस्थादिवन्दने को दोषो येनैवं सिद्धान्तप्रतिषेध इति चेत् अयशःकर्मबन्धादिरिति बूमः तदुक्तम् ॥ पासत्थाई
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org