________________
८६
श्री सङ्घपट्टकः
तदवन्दनमेवोपलभ्यत इति ॥
यदप्यभ्युपगमवादेन किञ्च भवत्वित्यादिना साम्प्रतं सगुणनिर्गुणविभागानवगमेन लिङ्गमात्रप्रणामप्रतिपादनं तदप्यविदितजिनागमस्य ते वचः ॥ यतो शेषविशेषविषयतया जिनादिवच्छद्मस्थैरिदानीमानामनिश्चायिदेहिनां मानसाध्यवसाय स्तथाप्याकारेङ्गितबाह्यक्रियादिभिरन्तरङ्गः प्राणिपरिणामः सामान्यतया तैरपि निश्चेतुं शक्यत एव ॥ तथैवदर्शनात् ॥
यदुक्तम् ॥ सुद्धमसुद्धं चरणं जहाउ जाणंति ओहिनाणाइ, आगारेहि मणपिहुतहच्छउत्था if I अ व भगवता भद्रबाहुस्वामिना सौविहित्यं लक्षयितुं वसतिविहारादिका बाह्यक्रियालक्षणत्वेनोपन्यस्ताः ॥ यदुक्तम् || आलएणं विहारेणं ठाणाचंकमणेण ॥ सक्का सुविहियानाओ भासावेणइएणय ॥
लोकेप्याकारेङ्गितादिभिरेव पार्थिवादीनामान्तरप्रसादादिभावपरिच्छेदनविज्ञानुजीविप्रभृतनां विज्ञप्त्यादिप्रवृत्तिदर्शनात् ॥ एवमनभ्युपगमे च जगद्व्यवहारोच्छेदप्रसङ्गात् ॥ किञ्च मा भूदतिगूढाशयतया बकवृत्तीनां केषाञ्चिच्छद्मस्थैर्मानसाध्यवसायावसायः ॥
तथा च तदनवसायात् क्रियतां तेषामङ्गारमर्द्दकादिवद्दाम्भिकानामपिवन्दनम् ॥ येषां त्वाधुनिकन्यायेन प्रकटप्रतिसेविनामतिवैशसकृत्या भवद्भिरप्यन्तरङ्गभावोपलम्भस्तेषां तावदभ्युपगम्यतामवन्दनमिति ॥
ननु तथापि कृष्याद्यकरणेन गृहिभ्य उत्तमत्वात्तेषां वन्द्यत्वं सङ्गस्यत इति चेन्न ॥ सम्प्रतिकेषाञ्चित्तदुपलम्भेपि लज्जनीयतया तदविवक्षयापि सिद्धान्ते गृहियतिधर्मबाह्यत्वेन गृहिभ्योपि तेषां हीनत्वप्रतिपादनात् ॥ यदुक्तम् ॥ केसिंपिसंजयाणं केहिंपि गुणेहि सावगा अहिंगा || म्हा देसजई, इयरे पुण उभयओ भट्ठा ॥
नन्वेवं यदि सर्वथा पार्श्वस्थादीनां वन्दननिषेधस्तर्हि कथं "कालम्मिसंकिलिट्टे" इत्यादिना पार्श्वस्थादिपञ्चकान्यतरेण संवासः ॥ तथा वायाएनमुक्कारो इत्यादिना सुविहितानामपि तद्वाग्नमस्काराद्युपदेशश्च सिद्धान्ते श्रूयते इति चेत्तन्न ॥
सदोषादपि पार्श्वस्थादिसंवासान्महादोषमेकाकित्वं यतीनामित्येकाकित्वात्यन्तनिषेधपर्यवसायित्वेन कालम्मिसंकिलिट्टे इत्याद्यागमस्यापवादिकसंवासाभिधायकस्यापि सर्वदा तद्वन्दनाप्रसाधकत्वात् ॥
तथा वायाए नमोक्कारो इत्यादिरपि म्लेच्छाद्युपप्लवात्पार्श्वस्थाद्यनाकीर्णक्षेत्रेषु स्थित्यभावे तदाकीर्णेपि क्षेत्रे सुविहितैः समागत्य तद्वन्दनाद्यनुवृत्त्यापि स्वसंयमक्रियाविधातव्या ॥ तावन्मात्रतदनुवृत्त्यकरणे तेभ्यस्तेषां बहुलाघवापत्तेरित्यादिहेतुभिः क्षेत्रकालाद्यपेक्षया अग्गीयादाइन्नेखित्तेअन्नत्थठि अभावंमि इत्यादिना विशेषविषयत्व समर्थनात् ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org