________________
विभाग-१, बृहद्वृत्तिः
श्रवणात् ॥
किञ्च भवतु सगुणस्यैवयतेर्वन्दनं तथापि सम्प्रतिजिनगणधरादिशातिशयपुरुषविरहे प्राणीनामन्तरङ्गशुद्धाशुद्धाध्यवसायपरिज्ञानाभावान्नास्मदादिभिः सगुणनिर्गुणमुनिविभागः सम्यगवसातुं पार्यते ॥ तस्मान्नेदानीन्तनजनानां यतिगुणागुणचिन्तया तद्वन्दनादिकर्त्तुमुचितं किन्तर्हि रजोहरणादिलिङ्गमात्रदर्शनेनेति ॥ यदुक्तम् ॥ केवलमणोहिचउदसदसनवपुव्वीहिं विरहिए इह्नि । सुद्धमसुद्धं चरणं ॥ को जाणइ कस्स भावं वा ॥ (तथा) सुविहियदुविहियं वा नाहं जाणामहंखुछउमत्थो ॥ लिङ्गं तु पूययामी तिगरणसुद्धेण भावेणं ति ॥
अत्रोच्यते ॥ यत्तावदुक्तं लिङ्गमात्रस्यैव वन्द्यत्वादिति तदयुक्तम् ॥ संयमब्रह्मचर्यादिगुणानामेव यत्यनुषङ्गिणां वन्द्यत्वेनागमेऽभिधानान्न तु लिङ्गस्य ॥ यदुक्तम् ॥ वंदामि तवं ह संजमं च खंती य बंभचेरं च ॥ जं जीवाण न हिंसा जंच नियत्तागिहावासा ॥
८५
लिङ्गमात्रस्य तु वन्द्यत्वे निह्नवानामपि वन्दनीयत्वापत्तेः ॥ लिङ्गमात्रदर्शनस्य तत्राप्यविशेषात् ॥ यदुक्तम् ॥ जइते लिङ्गपमाणं वंदाही निह्नए तुमं सव्वे ॥ एए अवंदमाणस्स लिङ्गमवि अप्पमाणं ते ॥
अथ निह्नवानां सङ्घबाह्यतया प्रकाशितत्वेनागमे तद्वन्दनप्रतिषेधान्न तद्विधीयते ॥ पार्श्वस्थानां तु तत्त्वेनाप्रकाशितत्वात्तद्विधास्यत इति चेन्न ॥
तत्तथानुद्घाटितानामपि सर्वाकृत्यविधायिनां निःशङ्कतया गृहस्थवत्सकलपापारम्भप्रवृत्या प्रवचनोड्डाहकारिणां यत्याभासानां रङ्गाङ्गणवर्तिदर्शनविडम्बनार्थं परिकल्पित यतिनेपथ्यधारिशैलूषादिवद्वन्दननिवारणात् ॥
यदाह । जह वेलम्बगलिङ्गं जाणंतस्स नमओ हवइ दोसो || निद्धंधसत्ति नाउणवन्दमाणेधुवन्दोसो ॥ यदप्युदेशमालावचनावष्टम्भेन वेषग्रहणस्य धर्म्मरक्षकत्वेन समर्थनं तदप्यसम्बद्धाभिधानम् ॥ यदि हि कस्यापिमहात्मनः कदाचित्कर्मोदयादकृत्यं विधित्सोरपि वेषग्रहणादिलज्जया तदविधानं तदा किमायातमिदानीन्तनरुढ्या निस्त्रिंशत्वेनाऽसमञ्जसवृत्त्या व्याप्रियमाणानामक्षिपक्ष्मनिमेषमात्रेणापि लोकापवादमगणयतां लिङ्गिनां वेषग्रहणस्य ॥
न हि ते वेषादिशङ्कयापि कथञ्चिदकार्यादंशमात्रेणापि निवर्त्तमाना उपलभ्यन्ते तस्मात् - सत्पुरुषविशेषविषयं तत्सूत्रं न सामान्यविषयमिति न तद्बलेन वेषग्रहणप्रामाण्यादधुनातनानां वेषमात्रभृतां वन्दनं सङ्गच्छत इति ॥
यदपि प्रवादपारम्पार्येण श्रेणिकादेरजोहरणवन्दनाभिधानं तदप्यागमनिर्मूलस्य प्रवादपारम्पर्यस्याप्रामाण्यापगमेन निरस्तम् ॥ न हि श्रेणिकनृपतिकथास्वागमेऽनेकधा विसृतास्वपि क्वचिच्छुनःपुच्छ्संयमितरजोहरणवन्दनं श्रूयते प्रत्युत क्षोभणनिमित्तागतमुनिवेषगीर्वाणादिदर्शने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org