________________
श्री सङ्घट्टकः
हेयताज्ञापनार्थम् ॥ आगमेऽतिहेयस्याधाकर्मादेर्गोमांसादिनैवोपमानोपमेयदर्शनादिति ॥ अनेन चोपमानेन सिद्धान्तभिहितमङ्खफलकोपमानसंवादिनालिङ्गिपरिगृहीतजिनबिम्बस्यौपाधिकमनायतनत्वमपिसूचितम् ॥
तथाहि । बहुशस्तावदागमे यतीनां श्राद्धानां चायतनसेवाऽनायतनपरिहारोपदेशः श्रूयते ॥ तत्र किमिदमायतनं किंवानायतनमिति ॥ तत्र प्रथमं प्रतिपक्षनिर्णयेनायतनस्वरूपं सुगमं भवतीत्यनायतनस्वरूपमुच्यते ॥
८४
तथाह्यनायतनमस्थानं ज्ञानादिगुणानामिति सामर्थ्याद्गम्यं ॥ अथवा ॥ ज्ञानाद्याऽऽयहानिजननादनायतनम् ॥ यदुक्तम् ॥ सावज्जमणाययणं ॥ असोहिठाणं कुशीलसंसग्गी ॥ एगठाहुतिपया एए विवरीय आययणे ॥
तच्च द्वेधा ॥ लौकिकलोकोत्तरिकभेदात् ॥ लौकिकमपि द्रव्यभावभेदाद्विधा ॥ तत्र द्रव्यतो लौकिकमनायतनं हरसदनादि भावतो वेश्यादयः जिनप्रवचनबाह्यस्य यथासंख्यं द्रव्यरूपस्याशुभभावरूपस्य च सतो द्वयस्यापि यथासम्भवं संसर्गवन्दनसेवनादिना सम्यग्दृशां ज्ञानादिविघातनिमित्तत्वात् ॥
दव्वे रुद्दाइ घरा अणाययण भावओ दुविहमेवा || लोइयलोउत्तरियं तहियं पुण लोइयं इणमो ॥ खरिया तिरिक्खजोणी तालायरसमणमाहणसुसाणे वग्गुरियवाहगुम्मियहरिएसपुलिंदमच्छन्धा ॥ लोकोत्तरिकमपि भावतोऽनायतनं सुविहिताचारपरिभ्रष्टा लिङ्गमात्रधारिण: शक्तिमन्तोपि संयमक्रियामणीयसीमप्यकुर्वाणाः यत्याभासाः ॥ यदाह ॥ अहलोगुत्तरियं पुण अणायण भाव
व्वं ॥ जे संजजोगाणं करिंति हाणि समत्थावि ॥
तेषां जैनलिङ्गस्थितानामशुभभावरूपाणां सतामालापवन्दनादेर्ज्ञानाद्यायहानिहेतुत्वात् ॥ तदुक्तम् ॥ आलावो संवासो वीसम्भो सन्थवो पसङ्गो वा ॥ हीणायारेहि सम्मं सव्वजिणिदेहिं पडिकुट्टे ॥
अत एव जिनशासनस्थितानामपि तेषां वन्दनादिकं निवारितमागमे ॥ यदाह || वन्दणपूयणसक्कारणाइं सव्वं न कप्पए काउं ॥ लोगुत्तमलिङ्गीणवि के सिंचेवं जओ भणियं ॥ पासत्थोसन्नकुसीलनीयसंसत्तजणमहाछंदं ॥ नाऊण तं सुविहिया सव्वप्पयत्तेण वज्जन्ति ॥
अथ कथं निर्गुणत्वेपि पार्श्वस्थादीनां वन्दनादि प्रतिषेधः ॥ लिङ्गमात्रस्यैव हि वन्द्यत्वेनाभ्युपगमात् ॥ तस्य च तेषामपि सद्भावात् ॥ लिङ्गग्रहणेन कथञ्चिदकार्यं चिकीर्षोरपियतेर्जनापवादशङ्कया तत्र प्रागेवाप्रवृत्तेः ॥
वेषग्रहणस्य 'धम्मंरक्खड़ वेसो' इत्यादिनोपदेशमालायामपिचारित्ररक्षकत्वेन प्रतिपादनात् ॥ श्रेणिकादीनामपि जिनप्रवचने प्रवादपारम्पर्येण रजोहरणादिमात्रस्य वन्दन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org