________________
विभाग-१, बृहद्वृत्तिः
दुर्गतिपातमचिन्तयन्तो लिङ्गिभिर्वशीकृत्य सततमुपजीव्यन्त इति भवति बडिशपिशितसमानं जिनबिम्बमिति ॥
ननु कथं जिनबिम्बबडिशपिशितयोरुपमानोपमेयभावः ॥ समानगुणयो रेवोभयोरलङ्कारग्रन्थेषूपमानोपमेयभावप्रतिपादनात् ॥ महाकविकाव्येषु तथा दर्शनात् ॥
अत्र तु जिनबिम्बस्य सकलत्रिभुवनातिशायिनः सर्वोपमातीतत्वादत्युत्तमवस्तूपमायोग्यत्वात् वा बडिशपिशितस्य च सर्वात्यन्तहीनत्वात् कथं तेनोपमा उत्तममात्रस्यापि हीनमात्रेणाप्युपमानोपमेयभावो न युक्तः ॥ किं पुनः सर्वोत्तमस्याधमेन ॥ एवं च जिनबिम्बस्य बडि पिशितेनोपमानोपमेयभावप्रदर्शने कवितुर्महापापप्रसङ्गः ॥
८३
किञ्च काव्यालङ्कारमार्गे चण्डालैरिव युष्माभिः साहसं परमं कृतमित्यादिन्यायेन हीनोत्तमस्योपमानकरणे कवेर्महाकाव्याकौशलदोषाभिधानात्तत्सर्वथा नायमुपमानोपमेयभावो घटां प्राञ्चतीति ॥
तन्न । लोकाकर्षणेन स्वनिर्वाहहेतोर्लिङ्गिपरिगृहीतस्य जिनबिम्बस्योत्तमस्याप्यसदुपाधिवश्मत् दुष्परिवारपरिवृतराजादेरिव वाञ्छितफलासाधकत्वाद्धीनताध्यारोपेणोप मानेन साम्यापादनादुपमानोपमेयभावोपपत्तेः ॥
ननु तथापि नैतदुपमानं जिनबिम्बस्य सङ्गच्छते ॥ सिद्धान्ते क्वचिदपि जिनबिम्बोदेशेनैवंविधोपमानानुपलम्भात् ॥
इति चेन्न तत्राप्युपलब्धेः ॥ तथाहि ॥ शीलेह मङ्खफलए इत्याद्यागमे स्वनिर्वाहादि - हेतुचैत्यादीनामुपमेयानामत्यंतस्वसमताप्रदर्शनायोपमानैर्मखफलकैरतिहीनैः स्वांतनिगीर्णतयाऽध्यवसितानामुपमापेक्षयातिशयोक्त्याऽ तिहीनतायाः प्रतिपादनात् ॥
उपमायां ह्युभयोरपि स्वतन्त्रतया पार्थक्येन प्रतीतेस्तुल्यतामात्रमवगम्यते ॥ अतिशयोक्तौ तु कमलमनंभसि कमले च कुवलये इत्यादिवदेव नामसाम्यमुपमेयस्योपमानेन ॥ येनमडफलकैः सर्वथात्मनैकात्म्यमापादितानि जिनबिम्बानि मङ्खफलकान्येव चैतानि लिङ्गिनिर्वाहहेतुचैत्यानि न तु भगवद्विम्बानीति ॥
तथाचातिशयोक्तिलक्षणम् ॥ निगीर्य्याध्यवसानं च प्रकृतस्य परेण यदित्येवं च कथं नागमे एवंविधोपमानोपलम्भसम्भवस्तथाच सिद्धान्तानुसारेणोपमानोपमेयभावं निबध्नतः कवेः कथं पापलेशोपि ॥ कथं चोक्तन्यायेन समानगुणयोरुभयोस्तद्भावं ग्रथ्नतः कवितुः काव्यानैपुणदोषप्रसङ्गोपीतियुक्तमुक्तं प्रकरणकारेण बडिशपिशितवदित्युपमानं प्रकृतजिनबिम्बस्येति ॥
अत्र चापवित्रेण बडिशपिशितेनोपमानं लिङ्गिपरिगृहीतस्य जिनबिम्बस्याऽत्यन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org