________________
श्री सङ्घपट्टकः ॥ मूलकाव्यम् ॥ आक्रष्टुं मुग्धमीनान् बडिशपिशितवद्विम्बमादय जैनम्, तन्नाम्ना रम्यरूपानपवरकमठान् स्वेष्टसिद्धयै विधाप्य । यात्रास्नात्राद्युपायै नमसितकनिशाजागरादिच्छलैश्च,
श्रद्धालु मजैनैश्छलित इव शटैर्वञ्च्यते हा जनोऽयम् ॥२१॥ आक्रष्टुं मुग्धमीनान् जैनबिम्बमादय नामजैनैर्जनोयं वञ्च्यत इति सम्बन्धः तत्राक्रष्टमिति स्ववशमानेतुं न तु पुण्यमर्जयितुं मुग्धा हेयोपादेयविचारशून्यतया धर्मश्रद्धालवस्त एव जडप्रकृतितया स्वहिताहितपरिज्ञानवैकल्यसाधर्म्यान्मीना मत्स्यास्तान् बिम्बं प्रतिमां जैनं भागवतं आदर्य दर्शयित्वा यथा भो भव्या ऐहिकामुष्मिकसुखसाकल्यंनिधानकल्पमिदमर्हद्विम्बं पूजयत भक्त्येति सामान्यतोऽथवा भवत्पूर्वजैरेतद्विम्बमार्हतम् निर्मापितम् ॥ तथेदमेव प्रत्यहं नियमेनापुपूजन् ॥ ततो भवद्भिरपीदमेव विशेषेण पूजनीयम् ॥
तथार्हद्विम्बनिर्मापणमेव सम्प्रति भवजलधिनिपतज्जन्तुतारणायालमिति भवद्भिः स्वश्रेयसे नवीनं भगवद्विम्बं स्वनाम्ना विधापनीयमिति विशेषतो मुग्धजनपुरतः प्रज्ञाप्येत्यर्थः ॥ किल यतिना देशनाद्वारेण जिनबिम्बार्चनादेहिपुरः फलमुपवर्णनीयम् ॥ तत्फललिप्सया तदनुसारेण गृहिणः स्वयमेव तत्र प्रवृत्त्युपपत्तेः ॥
न तु साक्षात् तन्निर्माणनिर्मापणयोरुपदेशो दातव्यस्तदुपदेशस्य सावद्यतया यतेनिषेधात् ॥ लिङ्गिनस्तु कथमाजन्मामी गृहिणोऽस्माकं वश्या भविष्यन्तीतिधिया ऐहिकमेव स्वार्थ केवलं चिन्तयन्तोधूर्ततया पूर्वपुरुषसम्बन्धितादिक्रमेण मुग्धेभ्यो जिनबिम्बमादर्शयन्ति ॥
ते तु मुग्धत्वात्तदाशयमनवबुध्यमाना ऋजुश्रद्धालुतया पूर्ववंश्यस्नेहस्वकारितममतादिना तत्र जिनबिम्बादौ नित्यं द्रव्यं व्ययन्ते लिङ्गिनश्चेतदुपयुञ्जते स्वेच्छयेति ॥ भवति तदाकर्षणार्थं लिङ्गिनां जिनबिम्बदर्शनमिति ॥ किमिवेत्याह ॥
बडिशं मत्स्यवेधनं तदने मत्स्यविलोभनाय स्थापितं पिशितं मांसं तद्वत् ॥ वतिरुपमाने ॥ तदिव ॥ यथा धीवरा मत्स्याकर्षणाय बडिशाग्रे पिशितं स्थापयन्ति ते च तल्लोभतया स्वापायमागामिनमविभावयन्तो गभीरादपिनीराशयान्निर्गत्य मुग्धत्वात्तत्र लीयमाना बध्यन्ते एवं लिङ्गिनोपि मुग्धजनानां स्ववशताविधानायोक्तविधिना भगवद्विम्बमादर्शयन्ति न तु संसारनिस्तारणाय ॥
ते च श्राद्धाः स्नेहादिना प्रत्यहमेव तत्पूजनादिकं विदधाना विवेकशून्यत्वाद्भगवद्गुणबहुमानने पूजादिक्रियमाणं मोक्षाय नतु ममतादिनेत्यजानाना भाविनमात्मनो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org