________________
विभाग-१, बृहद्वृत्तिः गरलकणप्रक्षेपात् ॥
अयमर्थः इदृशी हि विषकणस्यापि परिणामिका शक्तिर्यया हृद्यमपि बह्व पिभोजनंक्षणादैव सकलमसौस्वात्मभावेन परिणमयति तथा परिणमितं च तद्भुज्यमानमपायाय जायते यथा तथा कुमतादिलेशस्यापि मिथ्यात्वरूपत्वादेवंविधमहिमा येन महीयोपि जिनगृहविधानादिधर्मकर्म स्वस्वरूपतया भावयति ॥ तथाभावितं च तद्विधीयमानमपि संसाराय संपद्यत इति ॥
इदमत्र तात्पर्यम् ॥ यद्यपि विषयसाद्गुण्येन जिनगृहादिकरणं निसर्गमधुरं तथापि तद्भगवदाज्ञापुरस्कारेणैव सुगतिफलाय कल्पते भगवदवाज्ञामन्तरेण जिनगृहादिकरणेपि तदाराधनाऽभावेन तदनुपपत्तेः ॥
कुन्तलदेव्यादीनां तत्करणेपि दुर्गतिगमनश्रवणात् ॥ आज्ञासम्प्रदानस्यैव तदाराधनोपायत्वात् ॥ यदाह ॥ तुममच्छीहिं न दीससि नाराहिज्जसि पभूयपूयाहिं ॥ किन्तुगुरुभत्तिरागेण वयणपरिपालणेणं च ॥
तथा ॥ यस्य चाराधनोपायः सदाज्ञाभ्यास एव हि ॥ यथाशक्तिविधानेन नियमात्स फलप्रदः ॥ लोकेपि स्वामिशासनं विना तदनुकुलं किञ्चन विदधानोपि भृत्यो न स्वामिनस्तोषाय जायते प्रत्युत रोषाय ॥ तस्याज्ञाभङ्गजनितवैधुर्यप्राप्तः ॥
यदुक्तम् ॥ भिच्चावि सामिणो इह जत्तेण कुणंति जेउ स निओगं ॥ हुन्ति फलभायणं ते इयरेसि किलेसमित्तं तु ॥ एवमिहापि कुमतादीनि भगवदाज्ञाविरोधीन्यतस्तदंशानुवेधेनापि सर्वाण्यपि जिनगृहनिर्मापणादीनि तन्निमित्तान्यपि भगवदाज्ञाभङ्गहेतुत्वाद्भवफलान्येव ॥ : समइपवित्ती सव्वा आणावज्जति भवफला चेव ॥ तित्थगरुद्देसेणवि न तत्तओ सा तदुद्देसा ॥ अत एव सम्यक्त्वशुद्धिहेतवे कर्त्तव्यतयाऽभिहितान्यप्येतान्यसमञ्जसवृत्त्या क्रियमाणानि तदभावापादकत्वेन श्रूयन्ते ॥ यदाह श्री हरिभद्रसूरयः ॥ पाएणणंतदेउलजिणपडिमा कारियाउ जीवेहिं ॥ असमंजसवित्तीए न य सिद्धो दंसणलवोवि ॥ तदेवं विषलवसंवलितभोजनोपमानेन जिनगृहादिविधानस्य कुमतादिलेशसंस्पर्शिनोप्यनभिमतकारित्वं व्यवस्थितमिति वृत्तार्थः ॥२०॥
अधुना मुग्धजनाकर्षणनिमित्तजिनबिम्बप्रदर्शनादिद्वारेण लिङ्गिनां लोकप्रतारणं दर्शयन्नाह -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org