________________
८०
श्री सङ्घपट्टकः अत एव भगवत्प्रवचनप्रतिपत्तावपि कुगुरुकुग्राहग्रस्तनां दारुणो विपाकः प्रतिपादित ॥ यदाह ॥ तुहपवयणं पि पाविय संभाविय साहुसावगत्तंपि ॥ कुग्रहकुगुरुहओ उण अणंतखुत्तो दुहं पत्तो ॥
तथा कुबोधस्यापि विपर्ययज्ञानत्वेन मिथ्यात्वरूपत्वाद् बहुभगवदुपदिष्टपदार्थविषयविपर्ययज्ञानरुपतत्साकल्येनैव क्रियमाणमेतन्नकेवलं संसाराय किन्त्वऽल्पतरजिनोक्तार्थविषयविपर्ययज्ञानरुपतदंशेनापि ॥ ___ यदाह ॥ सिद्धान्तमन्यार्थतयावगम्य, प्रवर्त्तमाना न फलं लभन्ते ॥ विपर्ययात्काचतयेव जात्यं माणिक्यमज्ञाःपरिवर्तयन्तः ॥
तथा कुदेशनाबाहुल्येनानुविद्धं सकलमेव दुर्गतिहेतवे इति किमाश्चर्यं यावत्तदंशेनापि ॥ अत एव श्रीमन्महावीरस्य मरीचिभवे पदमात्रोत्सूत्रदेशनानिबन्धनं भूरिभवभ्रमणं श्रूयते ॥ ..
यदुक्तम् ॥ उत्सूत्रपदमात्रस्य, देशनेनापि जन्तवः ॥ बम्भ्रम्यन्ते भवाम्भोधौ, भूरिकालं मरीचिवत् ॥
- आगमेप्युक्तम् ॥ फुडवागडमकहंतो जहट्ठियं बोहिलाभमुवहणइ ॥ जहभगओ विसालो जरमरणमहोअही आसि ॥
अथ कथं पुनर्विधिकृते जिनगृहादौ कुमताद्यंशानुवेधः ॥ उच्यते ॥ पूर्वोक्तानेककुतीर्थिकमतमध्यादेकमपि जिनगृहादिषु विदधतो भवति कुमतांशानुवेधः ॥ तथैकपदाद्यल्पोत्सूत्रभाषिणः कुगुरोराज्ञा या किञ्चिदेकं रात्रिस्नानादिकं जिनभवनादौ कुर्वतो यद्वाभ्युपेतसुगुरूक्तसमस्तधर्मकर्मविधायिनोपि कथञ्चित्कुगुरूक्तमपिकिञ्चित्तत्र विदधानस्य भवति कुगुरुलेशस्पर्शः ॥ ___ तथा दक्षिणादिदिग्व्यवस्थितानां भगवत्प्रतिमानां स्नात्रविधानेऽस्माकमाम्नायस्तस्मात्तत्रस्थितैरस्माभिरेवस्नात्रं विधातव्यमित्याद्यनेककुग्राहान्यतमेन कुग्राहेनतन्मन्दपरिणामरूपतया वा तत्र स्नात्रादिकं रचयतःकुग्रहांशश्लेषः ॥
तथा जाजस्सठिइ इत्याद्यागमार्थमन्यथा बुद्धा तदनुसारेण श्राद्धानां स्वस्य दिग्बन्धाधन्यतमं प्रतीच्छतां कुबोधलवानुषङ्गः ॥ तथाऽनेकोत्सूत्रवादिन आचार्यादेर्भूयस्याः कुदेशनायाः एकतरं किञ्चिदुत्सूत्रपदं रात्रिनंद्यादिकं तत्र कारयतःश्राद्धस्य कुदेशनालेशप्रवेश इत्येवं सर्वत्रोक्तधर्मकर्मसु कुमताद्यनुवेधः स्वधियाऽभ्यूहनीय इति ॥
ननु कथमेतानि गरीयांसि धर्मकृत्यानि कुमतादिलेशमात्रेणापि प्रतिरुध्यन्ते ॥ न हि मृणालतन्तुना दन्तिनः प्रतिबद्धं पार्यन्त इत्याशयविवक्षितार्थप्रसाधनानुगुणमुपमानमाह॥ वरभोजनमिव स्निग्धमधुरसुस्वादजेमनमिव ॥ इवेत्युपमानद्योतकमव्ययम् ॥ विषलवनिवेशतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org