Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजैनग्रंथमालायांकणयमयाभावादो जायंते कुंडलादयो भावा । अयमययाभावादो जह जायंते तु कडयादी ॥१४०॥ अण्णाणमया भावा अणाणिणो बहुबिहा वि जायते । णाणिस्स दु णाणमया सव्वे भावा तहा होति ॥१४॥ कनकमयाद्भावाजायंते कुंडलादयो भावाः । अयोमयकाद्भावाद्यथा जायंते तु कटकादयः ।।१४०॥ अज्ञानमयाद्भावादज्ञानिनो बहुविधा अपि जायते ।
ज्ञानिनस्तु ज्ञानमयाः सर्वे भावास्तथा भवंति ॥१४१॥ तात्पर्यवृत्तिः-कनकमयाद्भावात्पदार्थात् “उपदानकारणसदृशं कार्यं भवतीति" कृत्वा कुंडलादयो भावाः पर्यायाः कनकमया एव भवंति । अयोमयाल्लोहमयाद्भावात्पदार्थात् अयोमया एव भावा पर्यायाः कटकादयो भवंति यथा येन प्रकारणेति दृष्टांतगाथा गता । अथ दृार्टीतमाह । अण्णाणेति तथा पूर्वोक्तलोहदृष्टांतेनाज्ञानमयाद्भावाज्जीवपदार्थादज्ञानिनो भावाः पर्याया बहुविधा मिथ्यात्वरागादिरूपा अज्ञानमया जायते । तथैव च पूर्वोक्तजांबूनददृष्टांतेन ज्ञानिनो जीवस्य ज्ञानमयाः सर्वे भावाः पर्याया भवंति । किं च विस्तरः वीतरागस्वसंवेदनभेदज्ञानी जीवः यं शुद्धात्मभावनारूपं परिणामं करोति स परिणामः सर्वोपि ज्ञानमयो भवति । ततश्च येन ज्ञानमयपरिणामेन संसारस्थितिं हित्वा देवेंद्रलोकांतिकादिमहर्द्धिकदेवो भूत्वा घटिकाद्वयेन मतिश्रुतावधिरूपं ज्ञानमयभावं पर्यायं लभते । ततश्च विमानपरिवारादिविभूतिं जीर्णतृणमिव गणयन्पंचमहाविदेहे गत्वा पश्यति । किं पश्यतीति चेत् तदिदं समवसरणं त एते वीतरागसर्वज्ञास्त एते भेदाभेदरत्नत्रयाराधनापरिणता गणधरदेवादयो ये पूर्व श्रूयंते परमागमे ते दृष्टाः प्रत्यक्षेणेति मत्वा, विशेषेण दृढधर्ममतिर्भूत्वा तु चतुर्थगुणस्थानयोग्याशुद्धभावनामपरित्यजन्निरंतरं धर्मध्यानेन देवलोके कालं गमयित्वा, पश्चान्मनुष्यभवे राजाविराजमहाराजामंडलीकमहामंडलीकबलदेवचक्रवर्तितीर्थकरपरमदेवादिपदे लब्धेपि पूर्वभववासनावासितशुद्धात्मरूपं भेदभावनाबलेन मोहं न गच्छति रामपांडवादिवत् । ततश्च जिनदीक्षा गृहीत्वा सप्तर्द्धिचतुर्ज्ञानमयभावं पर्यायं लभते । तदनंतरं समस्तपुण्यपापपरिणामपरिहारपरिणताभेदरत्नत्रयलक्षणेन द्वितीयशुक्लध्यानरूपेण विशिष्टभेदभावनाबलेन स्वात्मभावनोत्थसुखामृतरसेन तृप्तो भूत्वा सर्वातिशयपरिपूर्णलोकत्रयाधिपाराध्यं परमाचिंत्यविभूतिविशेष केवलज्ञानरूपं भावं पर्यायं लभत इत्यभिप्रायः । अज्ञानिजीवस्तु मिथ्यात्वरागादिमयमज्ञानभावं कृत्वा नरनारकादिरूपं भावं पर्यायं लभत इति भावार्थः । एवं ज्ञानमयाज्ञानमयभावकथनमुख्यत्वेन गाथाषदं गतं । इति पूर्वोक्तप्रकारेण पुण्यपापादिसप्तपदार्थानां पीठिकारूपेण महाधिकारे कथंचित्परिणामित्वे सति ज्ञानिजीवो ज्ञानमयभावस्य कर्ता तथैव चाज्ञानिजीवोऽ ज्ञानमयस्य भावस्य कर्ता भवतीति, अज्ञानमुख्यतया गाथानवकेन षष्ठोंतराधिकारः समाप्तः ।
अथ पूर्वोक्त एवाज्ञानमयभावो द्रव्यभावगतपंचप्रत्ययरूपेण पंचविधो भवति सचाज्ञानिजीवस्य शुद्धात्मैवोपादेय इत्यरोचमानस्य तमेव शुद्धात्मानं स्वसंवेदनज्ञानेनाजानतस्तमेव परमसमाधिरूपेणाभावयतश्च बंधकारणं भवतीति सप्तमांतराधिकारे समुदायपातनिका ।
आत्मख्यातिः-यथा खलु पुद्गलस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वात्कार्याणां जांबूनदमयाद्भावाज्जांबूनदजातिमनतिवर्तमानाजांबूनदकुंडलादय एव भावा भवेयुर्न पुनः कालायसवलयादयः । कालायसमयाद्भावाच्च कालायसजातिमनतिवर्तमानाः कालायसवलयादय एव भवेयुर्न पुनर्जाबूनदकुंडलादयः । तथा जीवस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वादेव कार्याणां अज्ञानिनः स्वयमज्ञानमयादावादज्ञानजातिमनतिवर्तमाना विविधा अप्यज्ञानमया एव भावा भवेयुर्न पुननिमयाः

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250