Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 238
________________ २०६ समासनजैनग्रंथमालायांपाखंडिलिंगानि च गृहलिंगानि च बहुप्रकाराणि । गृहीत्वा वदंति मूढा लिंगमिदं मोक्षमार्ग इति ॥ ४३८ ।। न तु भवति मोक्षमागों लिंगं यद्देहनैर्ममका अर्हतः। लिंगं मुक्त्वा दर्शनज्ञान चरित्राणि सेवते ॥ ४३९ ॥ तात्पर्यवृत्तिः-पाखंडिलिंगानि गृहस्थलिंगानि बहुप्रकाराण गृहीत्वा वदंति मूढाः । किंवदंति ! इदं द्रव्यमयलिंगमेव मुक्तिकारणं । कथंभूताः संतः ? रागादिविकल्पोपाधिरहितं परमसमाधिरूपं भावलिंगमजानंतः णय होदि मोक्खमग्गो लिंगं भावलिंगरहितं द्रव्यलिंगं केवलं मोक्षमार्गो न भवति कस्मात ? इति चेत्-जं यस्मात्कारणात् देहणिम्ममा अरिहा अहंतो भगवंतो देहनिर्ममाः संतः किं कुर्वति ! लिंगं मुइत्तु लिंगाधारं यच्छरीरं तस्य शरीरस्य मन्ममत्वं तन्मनोवचनकायैर्मुक्त्वा । पश्चात् दसणणाण चरित्ताणि सेवंते सम्यग्दर्शनज्ञानचरित्राणि तानि सेवंते भावयतीत्यर्थः । अथैतदेव व्याख्यानं विशेषेण दृढयति । आत्मख्याति:-केचिद्रव्यलिंगमज्ञानेन मोक्षमार्ग मन्यमानाः संतो मोहेन द्रव्यलिंगमेवोपाददते । तदप्यनुपपन्नं सर्वेषामेव भगवतामहदेवानां शुद्धज्ञानमयत्वे सति द्रव्यलिंगाश्रयभूतशरीरममकारत्यागात् । तदाश्रितद्रव्यलिंगत्यागेन दर्शनज्ञानचरित्राणां मोक्षमार्गत्वेनोपासनस्य दर्शनात् । अथैतदेव साधयति णवि एस मोक्खमग्गो पाखंडी गिहमयाणि लिंगाणि । दंसणणाणचरित्ताणि मोक्खमग्गं जिणा विति ॥ ४४० ॥ नाप्येष मोक्षमार्गः पाखंडिगृहमयानि लिंगानि। दर्शनज्ञानचरित्राणि मोक्षमार्ग जिना वदंति ॥ ४४० ॥ तात्पर्यवृत्तिः–णवि एस मोक्खमग्गो नवैष मोक्षमार्गः । एष कः ? पाखंडिगिहमयाणि लिंगाणि निर्विकल्पसमाधिरूपभावलिंगनिरपेक्षाणि रहितानि यानि पाखंडिगृहिमयानि द्रव्यलिंगानि । कथंभूतानि ? निग्रंथकौपीनग्रहणरूपाणि बहिरंगाकारचिह्नानि । तर्हि को मोक्षमार्गः ? इति चेत् सण. णाणचरित्ताणि मोक्खमरगं जिणा विति शुद्धबुद्धकस्वभाव एव परमात्मतत्त्वश्रद्धानज्ञानानुभूतिरूपाणि सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग जिना वदंति कथयति । यत एवं आत्मख्यातिः - न खलु द्रव्यलिंग मोक्षमार्गः शरीराश्रितत्वे सति परद्रव्यत्वात् । तस्माद्दर्शनज्ञानचारित्राण्येव मोक्षमार्गः, आत्माश्रितत्वे सति स्वद्रव्यत्वात् । यत एवंजमा जहित्तु लिंगे सागारणगारि एहि वा गहिदे । दंसणणाणचरित्ते अप्पाणं जुज मोरखपहे ॥ ४४१ ॥ तस्मात्तु हित्वा लिंगानि सागारैरनगारिकैर्वा गृहीतानि । दर्शनज्ञानचारित्रे आत्मानं युंक्ष्व मोक्षपथे ॥ ४४१॥ तात्पर्यवृत्तिः-तह्मा जहित्तु लिंगे सागारणगारि एहि वा गहिदे यस्मात्पूर्वोक्तप्रकारे सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गे जिनाः प्रतिपादयंति तस्मात्त्यक्त्वा कानि निर्विकारस्वसंवेदनरूपभाव १ चइत्तु अयमपि पाठः।

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250