Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृत ।
२०९ अभ्यंतरतुषत्यागे सति बहिरंगतुषत्यागो नियमेन भवत्येव । अनेन न्यायेन सर्वसंगपरित्यागरूपे बहिरंग द्रव्यलिंगे सति भावलिंगं भवति न भवति वा नियमो नास्ति । अभ्यंतरे तु भावलिंगे सति सर्वसंगपरित्यागरूपं द्रव्यलिंगं भवत्येवेति ।
हे भगवन् भावलिंगे सति बहिरंग द्रव्यलिंगं भवतीति नियमो नास्ति साहारणासाहारणे त्यादि वचनादिति ? परिहारमाह-कोऽपि तपोधनो ध्यानारुढस्तिष्ठति तस्य केनापि दुष्टभावेन वस्त्रवेष्टनं कृतं । आभरणादिकं वा कृतं तथाप्यसौ निग्रंथ एव । कस्मात् ? इति चेत् बुद्धिपूर्वकममत्वाभावात् पांडयादिवत् । येऽपि घटिकाद्वयेन मोक्षं गता भरतचक्रवर्त्यादयस्तेऽपि निग्रंथरूपेणैव । परं किंतु तेषां परिग्रह स्यागं लोका न जानंति स्तोककालत्वादिति भावार्थः । एवं भावलिंगरहितानां द्रव्यलिंगमात्रं मोक्ष कारणं न भवति । भावलिंगसंहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन त्रयोदशस्थले गाथासप्तकं गतं ।
अत्राह शिष्यः-केवलज्ञानं शुद्धं छमस्थज्ञानं पुनरशुद्धं शुद्धस्य केवलज्ञानस्य कारणं न भवति । कस्मात् ? इति चेत्
सुदं तु वियाणतो सुदमेवप्पयं लहदि जीवो इति वचनात् इति ? नैवं छमस्थज्ञानस्य कथंचिच्छुद्धाशुद्धत्वं । तद्यथा यद्यपि केवलज्ञानापेक्षया शुद्धं न भवति तथापि मिथ्यात्वरागादिरहितत्वेन वीतराग सम्यक्त्वचारित्रसहितत्वेन च शुद्धं । अभेदनयेन पुनः छद्मस्थानां संबंधि भेदज्ञानमात्मस्वरूपमेव ततः कारणात्तेनैकदेशव्यक्तिरूपेणापि सकलव्यक्तिरूपं केवलज्ञानं जायते नास्ति दोषः ।
अथ मतं सावरणत्वात्क्षायोपशमिकत्वाद्वा शुद्धं न भवति तर्हि मोक्षोऽपि नास्ति । कस्मात् ! छमस्थानां ज्ञानं यद्यप्येकदेशेन निरावरणं तथापि केवलज्ञानापेक्षया नियमेन सावरणमेव क्षायोपशमिकमेवेति । अथाभिप्रायः पारिणामिकभाव शुद्धः तेन मोक्षो भविष्यति तदपि न घटते । कस्मात् ? इति चेत् केवलज्ञानात्पूर्व पारिणामिकभावस्य शक्तिमात्रेण शुद्धत्वं न व्यक्तिरूपणेति
तथाहि जीवत्वभव्यत्वाभव्यत्वरूपेण त्रिविधोहि पारिणामिकः । तत्र तावदभव्यत्वं मुक्तिकारणं न भवति यत्पुनर्जीवत्वभव्यत्वद्वयं तस्य द्वयस्य तु यदायं जीवो दर्शनचारित्रमोहिनीयोपशमक्षयोपशमक्षयलाभेन वीतरागसम्यग्दर्शनज्ञानचारित्रत्रयेण परिणमति तदा शुद्धत्वं । तच्च शुद्धत्वं-औपशमिकक्षायोपशमिकक्षायिकभावत्रयस्य संबंधि मुख्यवृत्त्या, पारिणामिकस्य पुनर्गौणत्वेनेति । तत्र शुद्धपारिणामिकस्य बंधमोक्षस्य कारणरहितत्वं पंचास्तिकायेऽनेन श्लोकेन भणितमास्ते
मोक्षं कुर्वति मिश्रौपशमिकक्षायिकाभिधाः ।
बंधमौदयिको भावो निष्क्रियः पारिणामिकः ॥ १॥ तत एव स्थितं निर्विकल्पशुद्धात्मपरिच्छित्तिलक्षणं वीतरागसम्यक्त्वचारित्राविनाभूतमभेदनयेन तदेव शुद्धात्मशब्दवाच्यक्षायोपशमिकमपि भावश्रुतज्ञानं मोक्षकारणं भवतीति । शुद्धपारिणामिकभावः पुनरेकदेशव्यक्तिलक्षणायां कथंचिद्भेदाभेदरूपस्य द्रव्यपर्यायात्मकस्य जीवपदार्थस्य शुद्धभावनावस्थायां ध्येयभूतद्रव्यरूपेण तिष्ठति नच ध्यानपर्यायरूपेण, कस्मात् ? ध्यानस्य विनश्वरत्वात् इति ।
अथेदं शुद्धात्मतत्त्वं निर्विकारस्वसंवेदनप्रत्यक्षेण भावयन्नात्मा परमाक्षयसुख प्राप्नोतीत्युपदिशति
आत्मख्यातिः - यः खलु श्रमणश्रमणोपासकभेदेन द्विविधं द्रव्यालिंगम्भवति मोक्षमार्ग इति प्ररूपणप्रकारः स केवलं व्यवहार एव न परमार्थ स्तस्य स्वयमशुद्धद्रव्यानुभवनात्मकत्वे सति परमार्थत्वाभावात् । यदेव श्रमणश्रमणोपासकविकल्पानातक्रांतं दृशिज्ञप्तिप्रवृत्तिमात्रं शुद्धज्ञानमेकमेवैकमिति निस्तुषसंचेतनं परमार्थः, तस्यैव स्वयं शुद्धद्रव्यानुभवात्मकत्वे सति परमार्थकत्वात् ततो ये व्यवहारमेव परमार्थबुद्ध्या चेतयंते ते समयसारमेव न संचेतयंते । य एव परमार्थ परमार्थबुद्ध्या चेतयंते ते एव समयसारं चेतयंते । .

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250