Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृतं । इति कथनरूपेण सूत्रदशकं । तदनंतरं शुद्धात्मोपलब्धिरूपनिश्चयप्रतिक्रमणप्रत्याख्यानालोचनाचारित्र न्याख्यानमुख्यत्वेन सूत्रचतुष्टयं । तदनंतरं पंचेद्रियविषयनिरोधकथनरूपेण सूत्रदशकं । तदनंतरं कर्मचेतनाकर्मफलचेतनाविनाशरूपेण मुख्यत्वेन गाथात्रयं । ततः परं शास्त्रंद्रियविषयादिकं ज्ञानं न भवतीति प्रतिपादनरूपेण गाथापंचदश । ततः परं शुद्धात्मा कर्मनोकर्माहारादिकं निश्चयेन न गृह्णाति इति व्याख्यानमुख्यत्वेन गाथात्रयं । तदनंतरं शुद्धात्मभावनारूपं भावलिंगनिरपेक्षं द्रव्यलिंग मुक्तिकारणं न भवतीति प्रतिपादनमुख्यत्वेन गाथासप्तकं । तदनतरं मुख्यरूपफलदर्शनमुख्यत्वेन सूत्रमेकं ।
इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ समुदायेन
षडधिकनवतिगाथाभिस्त्रयोदशाधिकारैः समयसार
चूलिकाभिधानो दशमाऽधिकारः समाप्तःआत्मख्याति:-- यः खलु समयसारभूतस्य भवतः परमात्मनोऽस्य विश्वप्रकाशकत्वेन विश्वसमयस्य प्रतिपादनात् स्वयं शब्दब्रह्मायमाणं शास्त्रमिदमीत्य विश्वप्रकाशनसमर्थपरमार्थभूतचित्प्रकाशरूपपरमात्मानं निश्चिन्वन् अर्थतस्तत्त्वतश्च परिच्छिद्य अस्यैवार्थभूतं भगवति एकस्मिन् पूर्णविज्ञानघने परमब्रह्मणि सर्वारभेण स्थास्यति चेतयिता, स साक्षात्तत्क्षणविजृभमाणचिदेकरसनिर्भयस्वभावसुस्थितनिराकुलात्म रूपतया परमानंदशब्दवाच्यमुत्तममनाकुलत्वलक्षणं सौख्यं स्वयमेव भविष्यतीति ।
इतीदमात्मनस्तत्त्वं ज्ञानमात्रव्यवस्थितं ।
अखंडमेकमचलं स्वसंवेद्यमबाधितं ॥१३१॥ तात्पर्यवृत्तिः
अत्र स्यावादसिद्ध्यर्थं वस्तुतत्वव्यवस्थितिः ।
उपायोपेयभावश्च मनाग्भूयोऽपि चिंत्यते ॥ चित्यते विचार्यते कथ्यते मनाक् संक्षेपेण भूयः पुनरपि काऽसौ ? वस्तुतत्वव्यवस्थितिः ! वस्तुतत्त्वस्थ वस्तुतत्त्वस्वरूपस्य व्यवस्थितिाख्या । किमर्थं ? स्याद्वादशुद्ध्यर्थं स्याद्वादनिश्चयार्थे । अत्र समयसार म्याख्याने समाप्तिप्रस्तावेन केवलं वस्तुतत्त्वव्यवास्थितिश्चिंत्यते । उपायोपेयभावश्च । उपायो मोक्षमार्गः उपेयो मोक्ष इति । ___ अतः परं स्याद्वादशब्दार्थः कः !-इति प्रश्ने सत्याचार्या उत्तरमाहुः-स्थाकथंचित विवक्षित. प्रकारेणानेकांतरूपेण वदनं वादो जल्पः कथनं प्रतिपादनमिति स्याद्वादः सच स्याद्वादो भगयतोऽर्हतः शासनमित्यर्थः । तच्च भगवतः शासनं किं करोति ! सर्व वस्तु, अनेकांतात्मकमित्यनु शास्ति । अनेकांत इति कोऽर्थः ! इति चेत् एकवस्तुनि वस्तुत्वनिष्पादकं-अस्तित्वनास्तित्वद्वयादिस्वरूपं परस्परविरूद्धसापेक्षशक्तिद्वयं यत्तस्य प्रतिपादने स्यादनेकांतो भण्यते । सचानेकांत: किं करोति ? ज्ञानमात्रो योऽसौ भावो जीवपदार्थः शुद्धात्मा स तदतद्रूप एकानेकात्मकः सदसदात्मको नित्यानित्यादि स्वभावात्मको भवतीति कथयति । तथाहि झानरूपेण तद्रूपो भवति । श्रेयरूपेणातद्रूपो भवति । द्रव्यार्थिकनयेनकः । पर्यायार्थिकनयेनानेकः । स्वद्रव्यक्षेत्रकालभावचतुष्टयेन सद्रूपः । परद्रव्यक्षेत्रकाकभावचतुष्टयेनासद्रूपः । द्रव्यार्थिकनयेन नित्यः । पर्यायार्थिकनयेनाऽनित्यः । पर्यायार्थिकनयेनः भेदात्मकः द्रव्यार्थिकनयेनाभेदात्मको भवतीत्यद्यानेकधर्मात्मक इति । - तदेव स्याद्वादस्वरूपं तु समंतभद्राचार्यदेवैरपि भाणितमास्ते
संदकनित्यवक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यंति पुष्यंति स्यादितीह ते ॥ १॥ . सर्वथानियमत्यागी यदादृष्टमपेक्षकः। स्याश्छन्दस्तावके न्याये नान्येषामात्मविद्विषां ॥ २ ॥

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250