Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
२१४
सनातनजैनग्रंथमालायांज्ञेयाकारकलंकमेचकचितिप्रक्षालनं कल्पयन्नेकाकारचिकिर्षया स्फुटमपि झानं पशुर्नेच्छेति ।
वैचित्र्येप्यविचित्रतामुपगतं ज्ञानं स्वतः क्षालित पर्यायस्तदनेकतां परिमृशन पश्यत्यनेकांवित् ॥१३५॥ . प्रत्यक्षालिखितस्फुटस्थिरपरद्रव्यास्तितावंचितः स्वद्रव्यानवलोकनेन परितः शून्यः पशुनंश्यति । स्वद्रव्यास्तितया निरूप्य निपुणं सद्यः समुन्मजता स्याद्वादी तु विशुद्धबोधमहसा पूर्गोभवन् जीवति॥१६॥ सर्वद्रव्यमयं प्रपद्य पुरुषं दुर्वासनावासितः स्वद्रव्यभ्रमतः पशुः किल परद्रव्येषु विश्राम्यति । स्याद्वादी तु समस्तवस्तुषु परद्रव्यात्मना नास्तितां जानन्निर्मलशुद्धबोधमहिमा स्वद्रव्यमेघाश्रयेत् ॥१३७॥ भिन्नक्षेत्रनिषण्णबोध्यनियतव्यापारनिष्ठः सदा सीदत्येव बहिः पतंतम भतः पश्यन्युमसि पशुः । स्वक्षेत्रास्तितया निरुद्धरभसः स्याद्वादवेदी पुनस्तिष्ठत्यात्मनि खातबोध्यनियतव्यापारशक्तिर्भवन् ॥१३॥ स्वक्षेत्रस्थितये पृथग्विधपरक्षत्रस्थितार्थोज्झना तुच्छीभूय पशुः प्रणश्यति चिदाकारान्महाथैर्वमन् । स्याद्वादी तु वसन् स्वधामिनि परक्षेत्रे विदन्नास्तितां त्यक्तार्थोऽपि न तुच्छतामनुभवत्याकारकर्षी परान्॥१३९।। पूर्वालंबितबोध्यनाशसमये ज्ञानस्य नाशं विदन् सीदत्येव न किंचनापि कलयन्नत्यंततुच्छः पशुः । अस्तित्वं निजकालतोऽस्य कलयन् स्याद्वादवेदी पुनः पूर्णस्तिष्ठति बाह्यवस्तुषु मुहुर्भूत्वा विनश्यत्यपि।।१४०॥ अर्यालंबनकाल एव कलयन् ज्ञानस्य सत्त्वं बहिर्जुयालंबनलालसेन मनसा भ्राम्यन् पशुनश्यति । नास्तित्वं परकालतोऽस्य कलयन् स्याद्वादवेदी पुनस्तिष्ठत्यात्मनिखातनित्यसहजज्ञानकपुंजीभवन् ॥१४१॥ विश्रांतः परभावभावकलनान्नित्यं बहिर्वस्तुषु नश्यत्येव पशुः स्वभावमहिमन्येकांतनिश्चेतनः । सर्वस्मान्नियतस्वभावभवनाज्ज्ञानाद्विभक्तोभवन् स्याद्वादी तु न नाशमेति सहजस्पष्टीकृतप्रत्ययः ॥१४२॥ अध्यास्यात्मनि सर्वभावभवनं शुद्धस्वभावच्युतः सर्वत्रापनिवारितो गतभयः स्वैरं पशुः क्रीड़ति । स्याद्वादी तु विशुद्ध एव लसति स्वस्य स्वभाव भरादारूढः परभावभावविरहव्यालोकनिष्कंपितः ।।१४३॥ प्रादुर्भावविराममुद्रितवहन् ज्ञानाशनानात्मतानिर्ज्ञानात्क्षणभंगसंगपतितः प्रायः पशुर्नश्यति । स्याद्वादी तु चिदात्मना परिमृशंश्चिद्वस्तु नित्योदितं टंकोत्कीर्णधनस्वभावमहिमज्ञानं भवन् जीवति ।।१४४।। टंकोत्कीर्णविशुद्धोधविसराकारात्मतत्त्वाशया वांछत्युच्छलदच्छवित्परिणतेभिन्नः पशुः किंचन । ज्ञानं नित्यमनित्यता परिगमेऽप्यासादयत्युज्ज्वलं स्याद्वादी तदनित्यतां परिमृशंश्चिद्वस्तुवृत्तिकमात् ॥१४॥
इत्यज्ञानविमूढानां ज्ञानमात्रं प्रसाधयन् । आत्मतत्त्वमनकांतः स्वयमेवानुभूयते ॥ १४६ ॥ एवं तत्त्वव्यवस्थित्या स्वं व्यवस्थापयन् स्वयं ।
आलंब्य शासनं जैनमनकांतो व्यवस्थितः ॥ १४७ ॥ नन्यनकांतमयस्यापि किमर्थमत्रात्मनो ज्ञानमात्रतया व्यपदेशः ! लक्षणप्रसिद्ध्या लक्ष्यप्रसिद्ध्यर्थे । आत्मनो हि ज्ञानं लक्षणं तदसाधारणगुणत्वात्तन ज्ञानप्रसिद्ध्या तल्लक्ष्यस्यात्मनः प्रसिद्धिः । ननु किमनया लक्षणप्रसिद्ध्या लक्ष्यमेव प्रसाधनीयं नाप्रसिद्धलक्षणस्य लक्ष्यप्रसिद्धिः ? प्रसिद्धिलक्षणस्यैव तत्प्रसिद्धः । ननु किं तल्लक्ष्यं यज्ज्ञान प्रसिद्ध्या ततो भिन्नं प्रसिद्धयति न ज्ञानाद्भिनं लक्ष्यं ज्ञानात्मनोव्यत्वेनाप्रसिद्धत्वात् तर्हि किं कृतो लक्षणविभागः? प्रसिद्धप्रासाभ्यमानत्वात् कृतः । प्रसिद्ध हि ज्ञानं ज्ञानमात्रस्य स्वसंवेदनसिद्धत्वात् तेन प्रसिद्धेन प्रसाध्यमानस्तदविनाभूतानंतधर्मसमुदयमूर्तिरात्मा ततो ज्ञानमात्राचलितनिखातया दृष्टया क्रमाक्रमप्रवृत्तं तदविनाभूतं अनंतधर्मज्ञानं यद्यावलक्ष्यते तत्तावत्समस्तमेवैकः खल्वात्मा एतदर्थमेवात्रास्य ज्ञानमात्रतया व्यपदेशः । . ननु क्रमाक्रमप्रवृत्तानंतधर्ममयस्यात्मनः कथं ज्ञानमात्रत्वं परस्परव्यतिरिक्तानंतधर्मसमुदायपरिणैतकज्ञप्तिमात्रभावरूपेण स्वयमेव भवनात् अत एवास्य ज्ञानमात्रैकभावांतःपातिन्योऽनताः शक्तयः उत्प्लवंते । आत्मद्रव्यहेतुभूतचैतन्यमात्रभावधारणलक्षणा जीवत्वशक्तिः । अजडत्वात्मिका चितिशक्तिः । अनाकारोपयोगमयी दृष्टिशक्तिः । साकारोपयोगमयी ज्ञानशक्तिः । अनाकुलत्वलक्षणा सुखशक्तिः । स्वरूपनिर्वतनसामर्थ्यरूपा वार्यशक्तिः । अखंडितप्रतापस्वातंत्र्यशालिवलक्षणा प्रभुत्वशक्तिः । सर्वभावव्यापकैकरूपा विभुत्वशाक्तिः । विश्वविश्वसामान्यभावपरिणात्ममयी सर्वदर्शित्वशक्तिः । विश्वविश्वविशेषभावपरिणात्मज्ञानमयी

Page Navigation
1 ... 244 245 246 247 248 249 250