Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
२१०
सनातन जैनग्रंथमालायां
भलमलमतिजल्पैर्दुर्विकल्पैरनल्पैरयमिह परमार्थश्चित्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रान्न खलु समयसारादादुत्तरं किंचिदस्ति ॥ १२९ ॥ इदमेकं जगच्चक्षुरक्षयं याति पूर्णतां । विज्ञानघनमानंदमयमध्यक्षतां नयत् ॥ १३० ॥
जो समयपाहुड मिणं पठिदूणय अच्छतचदो णादुं । अच्छे ठाहिदि चेदा सो पावदि उत्तमं सुक्खं ॥ १४५॥ यः समयसारप्राभृतमिदं पठित्वा अर्थतत्त्वतो ज्ञात्वा ।
अर्थे स्थास्यति चेतयिता स प्राप्नोत्युत्तमं सौख्यं || ४ ४५ ॥
तात्पर्यवृत्तिः - श्री कुंदकुंदाचार्यदेवा समयसार प्रथसमाप्तिं कुर्वतः फलं दर्शयति - तद्यथाजो समयपाहुणमिणं पठितॄणय यः कर्ता समयप्राभृताख्यमिदं शास्त्रं पूर्वं पठित्वा न केवलं पठित्वा अस्थ तच्चदो णादुं ज्ञात्वा च कस्मात् ? ग्रंथार्थतः न केवल ग्रंथार्थतः १ तत्त्वता भावपूर्वेण अत्थे ठाहिदि पश्चादुपादेयरूपे शुद्धात्मलक्षणेऽर्थे निर्विकल्पसमाधौ स्थास्यति चेदा सो पावदि उत्तमं सोक्खं सचेतयितात्मा भाविकाले प्राप्नोति लभते । किं लभते ? वीतरागसहजापूर्वपरमाह्लादरूपं आत्मोपादानसिद्धं * स्वयमतिशयवद्वतबाधं विशालवृद्धिहासव्यपेतं विषयविरहितं निःप्रतिद्वंद्वभावं अन्यद्रव्यानपेक्षं निरुपमं, अमितं, शाश्वतं सर्वकालमुत्कृष्टानंतसारं परमसुखं सिद्धस्य जातमिति ।
अत्राह शिष्यः- हे भगवन् ! अतींद्रियसुखं निरंतरं व्याख्यातं भवद्भिस्तच्च जनैर्न ज्ञायते ? भग`वानाह कोऽपि देवदत्तः स्त्रीसेवनाप्रभृतिपंचेंद्रियविषयव्यापाररहितप्रस्तावे निर्व्याकुलचित्तः, तिष्ठति स केनापि पृष्टः भो देवदत्त ! सुखेन तिष्ठसि त्वमिति ? तेनोक्तं सुखमस्तीति तत्सुखमतींद्रियं कस्मात ! इति चेत् संसारिकसुखं पंचेंद्रियप्रभवं । यत्पुनरतींद्रियसुखं तत्पंचेंद्रियविषयव्यापाराभावेऽपि दृष्टं इदं तावत्सामान्येनातींद्रियसुखमुपलभ्यते । यत्पुनः पंचेद्रियमनोभव समस्त विकल्पजालरहितानां समाधिस्थपरमयोगिनां स्वसंवेदनगम्यमतीन्द्रियसुखं ताद्वशेषेणेति । यच्च मुक्तात्मनामतींद्रियसुखं तदनुमानगम्यमगम्यं च । तथाहि - मुक्तानामिंद्रियविषयव्यापाराभावेऽपि अतींद्रियसुखमस्तीति पक्षः । कस्मात् ? इति चेत् इदानीं तेन विषयव्यापारातीत निर्विकल्पसमाधिरतपरममुनींद्राणां स्वसंवेद्यात्मसुखोपलब्धिरिति हेतुः । एवं पक्षहेतुरूपेण द्वयंगमनुमानं ज्ञातव्यं । आगमे तु प्रसिद्धमेवात्मोपादान सिद्धमित्यादि वचनेन । अतः कारणात् अतींद्रियसुखे संदेहो न कर्तव्य इति । उक्तंच-
यद्देवमनुजाः सर्वे सौख्यमक्षार्थसभवं ।
निर्विशति निराबाधं सर्वाक्षप्रीणनक्षमं ॥ १ ॥ सर्वेणातीतकालेन यच्च भुक्तं महर्द्धिकं ।
भाविनो ये च भोक्ष्यंति स्वादिष्टं स्वतिरंजकं ॥ २ ॥
अनंतगुणिनं तस्मादत्यक्षं स्वस्वभावजं ।
एकस्मिन् समये भुक्तं तत्सुखं परमेश्वरः || ३ ||
एवं पूर्वोक्तप्रकारेण विष्णुकर्तृत्वनिराकरण मुख्यत्वेन गाथासप्तकं । तदनंतरमन्यः करोति अन्योभुंक्ते- इति बौद्धमतैकांतनिराकरण मुख्यत्वेन गाथाचतुष्टयं । ततः परमात्मा रागादिभावकर्म न करोति इति सांख्यमतनिरकरणरूपेण सूत्रपंचकं । ततः परं कर्मैव सुखादिकं करोति न चात्मेति पुनरपि सांख्यमतैकांतनिराकरणमुख्यत्वेन गाथात्रयोदश । तदनंतरं चित्तस्थरागस्य घातः कर्तव्य - इत्यजानन्वहिरंग शब्दादिविषयाणां घातं करोमीति यौऽसो चिंतयति तत्संबोधनार्थ गाथासप्तकं । तदनंतरं द्रव्यकर्म व्यवहारेण करोति भावकर्म निश्चयेन करोतीति मुख्यत्वेन गाथासप्तकं । ततः परं ज्ञानं ज्ञेयरूपेण न परिणमति
1

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250