Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 240
________________ २०८ सनातनजैनग्रंथमालायांतात्पर्यवृत्तिः-पाखंडियलिंगेसु व गिहलिंगेसु व बहुप्पयारेमु कुव्वंति जे ममत्ति वीतरागस्वसंवेदनज्ञानलक्षणभावलिंगरहितेषु निग्रंथरूपपाखडिद्रव्यलिंगषु कौपीनचिह्नादिगृहस्थलिगेषु बहुप्रकारेषु ये ममतां कुर्वति तेहि ण णादं समयसारं जगत्नयकालत्रयवर्तिख्यातिपूजालाभमिथ्यात्वकामक्रोधादिसमस्तपरद्रव्यालंबनसमुत्पन्नशुभाशुभसंकल्पविकल्परहितः शून्यः चिदानंदैकस्वभावशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपाभदरत्नत्रयात्मनिर्विकल्पसमाधिसंजातवीतरागसहजापूर्वपरमाह्लादरूपसुखरसानुभवपरमसमरसीभावपरिणामेन सालंबनपूर्णकलशवद्भरितावस्थः केवलज्ञानाद्यनंतचतुष्टयव्याक्तिरूपस्य साक्षा दुपादेयभूतस्य कार्यसमयसारस्योत्पादको योऽसौ निश्चयकारणसमयसारः स खलु तैर्न ज्ञात इति । अथ निर्विकारशुद्धात्मसंवित्तिलक्षणभावलिंगसहितं निर्ग्रथयतिलिंगं कौपीनकरणादिबहुभेदसहितं गृहि लिंगं चेति द्वयमपि मोक्षमार्गो व्यवहारनयो मन्यते । निश्चयनयस्तु सर्वद्रव्यलिंगानि न मन्यत इत्याख्याति आत्मख्यातिः--ये खलु श्रमणोऽहं श्रमणोपासकोऽहमिति द्रव्यलिंगममकारेण मिथ्याहंकारं कुर्वति तेऽनादिरुढ़व्यवहारविमूढाः प्रौदविवेकं निश्चयमनारुदाः परमार्थसत्यं भगवंतं समयसारं न पश्यति । व्यवहारविमूढदृष्टयः परमार्थ कलयंति नो जनाः । तुषबोधविमुग्धबुद्धयः कलयंतीह तुषं न तंदुलं ॥ १२८ ।। द्रव्यलिंगममकारमीलितैः दृश्यते समयसार एव न । द्रव्यलिंगमिह यत्किलान्यतो ज्ञानमेकमिदमेव हि स्वतः ॥ १२९ ॥ ववहारिओ पुण णओ दोण्णिवि लिंगाणि भणदि मोक्खपहे। णिच्छयणओ दु णिच्छदि मोक्खपहे सवलिंगाणि ॥४४४॥ व्यावहारिकः पुनर्नयो द्वे भपि लिंगे भणति मोक्षपथे । निश्चयनयस्तु नेच्छति मोक्षपथे सर्वलिंगानि ॥ ४४४ ॥ तात्पर्यवृत्तिः--चवहरिओ पुण णो दोण्णिवि लिंगाणि भणदि मोक्खपहे व्यावहारिकनयो द्वे लिंगे मोक्षपथे मन्यते । केन कृत्वा ? निर्विकारस्वसंवित्तिलक्षणभावलिंगस्य बहिरंग सहकारिकारणत्वेनेति । णिच्छयणओ दुणेच्छदि मुक्खपहे सम्बलिंगाणि निश्चयनयस्तु निर्विकल्पसमाधिरूपत्रिगुप्तिगुप्तवलेन अहं निर्ग्रथलिंगी, कौपीनधारकोऽहमित्यादि मनसि सर्वद्रव्यविकल्पं रागादिविकल्पवन्नेच्छति । कस्मात् ? स्वयमेव निर्विकल्पसमाधिस्वभावत्वात् इति । किंच-अहो शिष्य ! पाखंडीलिंगाणि य इत्यादि गाथा सप्तकेन द्रव्यलिंगं निषिद्धमेवेति त्वं मा जानाहि किं तु निश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिरूपं भावलिंगरहितानां यतीनां संबोधनं कृतं । कथं ? इति चेत् अहो तपोधनाः ! द्रव्यलिंगमात्रेण संतोषं मा कुरुत किं तु द्रव्यलिंगाधारेण निश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिरूपभावनां कुरुत ।। ननु भवदीयकल्पनेयं, द्रव्यलिंगनिषेधो न कृत इति ग्रंथे लिखितमास्ते णय होदि मोक्खमग्गो लिंगमित्यादि ? नैव णयहोदि मोक्खमग्गो लिंगमित्यादिवचनेन भवलिंगरहितं द्रव्यलिंग निषिद्धं न च भावलिंगसहितं । कथं ? इति चेत् द्रव्यलिंगाधारभूतो योऽसौ देहस्तस्य ममत्वं निषिद्धं । नच द्रव्यलिंगं निषिद्धं । केन रूपेण ? इति चेत् पूर्व दीक्षाकाले सर्वसंगपरित्याग एव कृतो न च देहत्यागः । कस्मात् ? देहधारणध्यानज्ञानानुष्ठानं भवति इति हेतोः। नच देहस्य पृथक्त्वं कर्तुमायाति शेषपरिग्रहवदिति । वीतरागध्यानकाले पुनर्मदीयो देहोऽहं लिंगीत्यादिविकल्पो व्यवहारेणापि न कर्तव्यः । देह निर्ममत्वं कृतं कथं ज्ञायते ? इति चेत् जं देह णिम्ममा अरिहा दंसमणाणचरित्ताणि सेवंते इत्यादि वचननेति । न हि शालितंदुलस्य बहिरंगतुषे विद्यमाने सत्यभ्यंतरतुषस्य त्यागः कर्तुमायाति ।

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250