Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 239
________________ २०७ समयसारप्राभृतं । लिंगरहितानि सागारानगारवर्गे : समूह: - गृहीतानि बहिरंगाकारद्रव्यलिंगानि । पश्चात् किं कुरु ! दंसणः णाणचरिते अप्पाणं जुंज मोक्खपहे हे भव्य ! आत्मानं योजय संबंधं कुरुष्व केवलज्ञानाद्यनंतचतुष्टयस्वरूपशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयलक्षणे मोक्षपथे मोक्षमार्गे । अथ निश्चयरत्नत्रयात्मकः शुद्धात्मानुभूतिलक्षणो मोक्षमार्गो मोक्षार्थिना पुरुषेण सेवितव्य इत्युपदिशतिआत्मख्यातिः - यतो द्रव्यलिंगं न मोक्षमार्गः, ततः समस्तमपि द्रव्यलिंगं त्यक्त्वा दर्शनज्ञानचारित्रे व मोक्षमार्गत्वात् आत्मा योक्तव्य इति सूत्रानुमतिः । दर्शनज्ञानचारित्रत्रयात्मा तत्त्वमात्मनः । एक एव सदा सेव्यो मोक्षमार्गे मुमुक्षुणा ॥ १२५ ॥ मुक्खप अप्पाणं ठवेहि वेदयदि झायहि तं चैव । तत्व विहर णिचं माविरहसु अण्णदव्वेसु || ४४२ ॥ मोक्षपथे आत्मानं स्थापय वेदय ध्याय हि तं चैव । ate विहर नित्यं मा विहार्षीरन्यद्रव्येषु ।। ४४२ ॥ तात्पर्यवृत्तिः- मोक्खपद्दे अप्पाणं ठबेहि हे भव्य ! आत्मानं स्थापय क ? शुद्धज्ञानदर्शनस्वभाबात्मतत्वसम्यक्श्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयस्वरूपे मोक्षपथे । वेदयहि तमेव मोक्षपथं चेतयस्व परमसमरसीभावेन अनुभवस्व झायहि तं चैव तमेव ध्याय निर्विकल्पसमाधौ स्थित्वा भाव । त्व बिहर णिच्चं तत्रैव विहर वर्तनापरिणतिं कुरु । नित्यं सर्वकालं । माविहरसु अण्णदव्वेसु दृष्टश्रुतानु-: भूतभोगाकांक्षारूपनिदानबंधादिपरद्रव्यालंबनात्पन्नशुभाशुभंसकल्पविकल्पेषु मा विहार्षीः, मा गच्छ मा परिणतिं कुर्बिति । अथ सहजशुद्ध परमात्मानुभूतिलक्षणभावलिंगरहिता ये द्रव्यलिंगे ममतां कुर्वति तेऽद्यापि समयसारं न जानतीति प्रकाशयति आत्मख्यातिः - आ संसारात्परद्रव्ये रागद्वेषादौ नित्यमेव स्वप्रज्ञादोषेणावतिष्ठमानमपि स्वप्रज्ञागुणेनैव ततो व्यावर्त्य दर्शनज्ञानचारित्रेषु नित्यमेवात्रस्थापयंति निश्चितमात्मानं । तथा चित्तांतर निरोधेनात्यंतमेकाम्रो भूत्वा दर्शनज्ञानचारित्राण्येव ध्यायस्व । तथा सकलकर्मकर्मफलचेतनासंन्यासेन शुद्धज्ञानचेतना - मयोभूत्वा दर्शनज्ञानचारित्राण्येव चेतयस्व । तथा द्रव्यस्वभाववशतः प्रतिक्षणविजृंभमाणपरिणामतया तन्मयपरिणामो भूत्वा दर्शनज्ञानचारित्रेष्वेव विहर । तथा ज्ञानरूपमेकमेवाचलितमवलंबमानो ज्ञेयरूपेणोपाधितया सर्व एव प्रधावत्स्वपि परद्रव्येषु सर्वेष्वपि मनागपि मा विहार्षीः । एको मोक्षपथो य एष नियतो दृग्ज्ञप्तिवृत्तात्मकस्तत्रैव स्थितिमेति यस्तमनिशं ध्यायेच्च तं चेतति । तस्मिन्नेव निरंतरं विहरति द्रव्यांतराण्यस्पृशन् सोऽवश्यं समयस्य सारमचिरान्नित्योदयं विंदति ॥ १२६॥ ये त्वेनं परिहृत्य संवृत्तिपथप्रस्थापितेनात्मना लिंगे द्रव्यमये च हंति ममतां तत्त्वावबोधच्युताः । नित्योद्योतमखंड मेक मतुलालोकं स्वभावप्रभाप्राग्भारं समयस्य सारममलं नाद्यापि पश्यंति ते ॥१२७॥ पाखंडियलिंगेसु व गिहलिंगेसु व वहुप्पयारेसु । कुव्वंति जे ममत्तिं तेहिं ण णादं समयसारं ॥ ४४३ ॥ पाखंडिलिंगेषु वा गृहिलिंगेषु वा बहुप्रकारेषु । कुर्वेति ये ममतां तैर्न ज्ञातः समयसारः ॥ ४४३ ॥ १ तत्वज्ञान बहिर्भूता इत्यर्थः ।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250