Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
२०५
समयसारप्राभृतं । तमा दु जो विसुद्धो चेदा सो णेव गिढदे किंचि । णेव विमुंचदि किंचिंवि जीवाजीवाणदव्वाणं ॥४३७॥
आत्मा यस्यामूर्ती न खलु स आहारको भवत्येवं । आहारः खलु मूर्ती यस्मात्स पुद्गलमयस्तु ॥४३५॥ नापि शक्यते गृहीतुं यन मुंचति चैव यत्परं द्रव्यं । स कोऽपि च तस्य गुणो प्रायोगिको वैस्रो वापि ॥४३६॥ तस्मात्तु यो विशुद्धश्चेतयिता स नैव गृह्णाति किंचित् ।
नैव विमुंचीत किंचिदपि जीवाजीवयोव्ययोः ॥४७॥ तात्पर्यवृत्तिः -अत्ता जस्स अमुत्तो आत्मा यस्य शुद्धनयस्याभिप्रायेण मूर्तो न भवति णहु सो आहारगो हवदि एवं स एवममूर्तत्वे सति हु स्फुटं तस्य शुद्धनयस्याभिप्रायेणाहारको न भवति । अहारो खल मुत्तो आहारः कथंभूतः ! खलु स्फुटं मूर्तः । जह्मा सो पुग्गलमओ दु यस्मात् स नोकर्माहारः पुद्गलमयः ।
सो कोविय तस्स गुणो स कोपि तस्य गुणोऽस्त्यात्मनः । कथं ! पाउग्गिय विस्ससो वापि प्रायोगिको वैस्रसिकश्चेति । प्रायोगिकः कर्मसंयोगजनितः । वैस्रसिकः स्वभावजः । येन गुणेन किं करोति ? णवि सक्कदि घित्तुं जे ण मुंचिदं चेव जं परं दव्वं परद्रव्यमाहारादिकं गृहीतुं मोक्तुं च न शक्नोति । अहो भगवन् ! कर्मजनितप्रायोगिकगुणेन आहारं गृहंतस्ते कथमनाहारका भवंति इति । हे शिष्य ! भद्रमुक्तं त्वया परं किंतु निश्चयेन तन्मयो न भवनि स व्यवहारनयः । इदं तु निश्चयव्याख्यानमिति ।।
तमादु जो विशुद्धो चेदा यस्मान्नियश्चयनयेनानाहारकः तस्मात्कारणात् यस्तु विशेषेण शुद्धो रागादिरहितश्चेतयितात्मा सोणेव गिद किंचि व विमुंदि किंचिवि जीवाजीवाणदव्वाणं कर्माहार-नोकर्माहार-लेप्याहार-ओजआहार-मानसाहाररूपेण जीवाजीवद्रव्याणां मध्ये सचित्ताचित्ताहारं नैव किंचिद्गृह्णाति न मुंचति । ततः कारणान्नोकर्माहारमयशरीरं जीवस्वरूपं न भवति । शरीराभावे शरीरमयद्रव्यलिंगमपि जीवस्वरूपं न भवति इति । एवं निश्चयेन जीवस्याहारो नास्ति, इति व्याख्यानमुख्यत्वेन द्वादशस्थले गाथात्रयं गतं ।
अथैवं विशुद्धज्ञानदर्शनस्वभावस्य परमात्मनो नोकर्माहाराद्यभावे सत्याहारमयदेहो नास्ति । देहाभावे देहमयद्रव्यलिंग निश्चयेन मुक्तिकारणं न भवतीति प्रतिपादयति
आत्मख्याति:- ज्ञानं हि परद्रव्यं किंचिदपि न गृह्णाति न मुंचति प्रायोगिकगुणसामर्थ्यात् वैस्रसिकगुणसामर्थ्याद्वा ज्ञानेन परद्रव्यस्य गृहीतुं मोक्तुं चाशक्यत्वात् । परद्रव्यं च न ज्ञानस्यामूर्तात्मद्रव्यस्य मूर्तपुद्गलद्रव्यत्वादाहारः ततो ज्ञानं नाहारकं भवत्यतो ज्ञानस्य देहो नाशंकनीयः ।।
एवं ज्ञानस्य शुद्धस्य देह एव न विद्यते ।
ततो देहमयं ज्ञातुर्न लिंगं मोक्षकारणं ॥ १२४ ॥ पाखंडियलिंगाणि य गिहलिंगाणिय वहुप्पयाराणी । घित्तुं वदति मूढा लिंगमिणं मोक्स्वमग्गोत्ति ॥ ४३८॥ णय होदि मोक्खमग्गो लिंगं जं देहणिम्ममा अरिहा । लिंगं मुइत्तु दंसणणाणचरित्ताणि सेवंति ॥४३९॥

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250