Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 236
________________ सनातनजैनग्रंथमालायांधर्मेण मोक्षो भवतीति विचार्यते--केवलज्ञानं तावत्फलभूतमग्रे भविष्यति । अवधिमनःपर्ययज्ञानद्वयश्च रुपिश्ववधेः। तदनंतभागे मनः पययस्य इति वचनात्-मूर्तविषयत्वादेव मूर्तः मोक्षकारणं न भवति । ततःसा मादेव बहिर्विषयमतिज्ञानश्रुतज्ञानविकल्परहितत्वेन स्वशुद्धात्माभिमुखपरिच्छित्तिलक्षणं निश्चयनिर्विकल्पभावरूपमानसमतिज्ञानश्रुतज्ञानसंज्ञं पंचेद्रियाविषयत्वेनातींद्रियं शुद्धपारिणामिकभावीवषये तु या भावना तद्रूपं निर्विकारस्वसंवेदनशब्दवाच्यं संसारणां क्षायिकज्ञानाभावात् । क्षायोपशमिकमपि विशिष्टभेद ज्ञानं मुक्तिकारणं न भवति कस्मात् ? इति चेत् समस्तमिथ्यात्वरागादिविकल्पोपाधिरहितस्वशुद्धात्मभावनोत्थपरमाहादैकलक्षण सुखामृतरसास्वादैकाकारपरमसमरसीभावपरिणामेन कार्यभूतस्यानंतज्ञानसुखादिरूपस्य मोक्षफलस्य विवक्षितैकशुद्धनिश्चयनयेन शुद्धोपादानकारणत्वादिति । तथा चोक्तं भेदविज्ञानतः सिद्धाः सिद्धा ये किल के चन। तस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ १॥ अतः परमेवं सति शुद्धबुद्धकस्वभावपरमात्मतत्त्वस्य देह एव नास्ति कथमाहारो भविष्यत्युपदिशति आत्मख्यातिः-न श्रुतं ज्ञानमचेतनत्वात् ततो ज्ञानश्रुतयोर्व्यतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञानशब्दयोर्व्यतिरेकः । न रूपं ज्ञानमचेतनत्वात् ततो ज्ञानरूपयोव्यतिरेकः । न वर्णो ज्ञानमचतनत्वात् ततो ज्ञानवर्णयोर्व्यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयोर्व्यतिरेकः । न रसो ज्ञानमचतनत्वात् ततो ज्ञानरसयोर्व्यतिरेकः । न स्पर्शो ज्ञानमचतनत्वात् ततो ज्ञानर्पयोर्व्यतिरेकः । न कर्म ज्ञानमचे तनत्वात् ततो ज्ञानकर्मणोर्व्यतिरेकः।न धर्मो ज्ञानमचेतनत्वात् ततो ज्ञानधर्मयोव्यतिरेकः । नाधर्मो ज्ञानमचेतन त्वात् ततो ज्ञानाधर्मयोर्व्यतिरेकः । न कालो ज्ञानमचेतनत्वात् ततो ज्ञानकालयोर्व्यतिरेकः । नाकाशं ज्ञानमचेतनत्वात् ततो ज्ञानाकाशयोर्व्यतिरेकः। नाध्यवसानं ज्ञानमचतनत्वात् ततो ज्ञानाध्यवसानयोव्यतिरेकः । इत्येवं ज्ञानस्य सर्वैरेव परद्रव्यैः सह व्यतिरेकोनिश्चयसाधितो भवति । अथ जीव एवैको ज्ञानं चेतनत्वात् ततो ज्ञानजीवयोरेवाव्यतिरेकः, नच जीवस्य स्वयं ज्ञानत्वात्ततो व्यतिरेकःकश्चनापि शंकनीयः । एवं तु सति ज्ञानमेव सम्यग्दृष्टिः, ज्ञानमेव संयमः, ज्ञानमेवांगपूर्वरूपं सूत्रं, ज्ञानमेव धर्माधर्मों, ज्ञानमेव प्रवृज्येति ज्ञानस्य जीवपर्यायैरपि सहाव्यतिरेकोनिश्चयसाधितो दृष्टव्यः । ___ अथैवं सर्वव्यव्यतिरेकेण सर्वदर्शनादिजीवस्वभावाव्यतिरेकेण वा अतिव्याप्तिमव्याप्तिं च परिहरमाणम- । नादिविभ्रममूलं धर्माधर्मरूपं परमसमयमुद्दम्य स्वयमेव प्रवृज्यारूपमापाद्य दर्शनज्ञानचरित्रस्थितित्वरूपं समयमैवाप्य मोक्षमार्गमात्मन्येव परिणतं कृत्वा समवाप्तसंपूर्णविज्ञानघनभावं हानोपादानशून्यं साक्षात्समयसारभूतं शुद्धज्ञानमेकमेव स्थितं द्रष्टन्यं । अन्येभ्यो व्यतिरिक्तमात्मनियतं विभ्रत्पृथग्वस्तुतामादानोज्झनशून्यमेतदमलं ज्ञानं तथावस्थितं । मध्याद्यतविभागमुक्तसहजस्फारप्रभावं पुरः शुद्धज्ञानघनो यथास्य महिमा नित्योदितस्तिष्ठति ॥१२१॥ उन्मुक्तमुन्मोच्यामशेषतस्तत्तथात्तमादेयमशेषतस्तत् । यदात्मनः संहृतसर्वशक्तेःपूर्णस्य संधारणमात्मनीह ॥१२२॥ व्यतिरिक्तं परद्रव्यादेवं ज्ञानमवस्थितं । कथमाहारकं तत्स्यायेतदेवाऽस्य शंक्यते ॥१२३॥ अत्ता जस्स अमुत्तो णहु सो आहारओ हवदि एवं । आहारो खलु मुत्तो जमा सो पुग्गलमओ दु ॥४३५॥ णवि सक्कदि घित्तं जे ण मुंचदे चेव जं परं दव्वं । सो कोवि य तस्स गुणो पाउग्गिय विस्ससो वापि ॥४३६॥ १ नाजीवएवैको ज्ञानमेचतनत्वा ततो ज्ञानाजीवयोर्व्यतिरेकः ग पु. पाठः । २ अभिव्याप्य पाठोऽयं ख. पुस्तके । ३ णवि मोत्तुं जं परं दव्वं पाठोयमात्मख्याती ।

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250