Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 213
________________ समप्रभूतं । १८१ ते सहावेण तस्मात्कारणान्मृत्तिकादिसर्वद्रव्याणि कर्तॄणि घटादिरूपेण जायमानानि स्वकीयोपादानकारणेन मृत्तिकादिरूपेण जायंते नच कुंभकारादिबहिरंगनिमित्तरूपेण । कस्मात् ? इति चेत् उपादानकारण सदृशं कार्ये भवतीति यस्मात् । तेन किं सिद्धं १ यद्यपि पंचेंद्रियविषयरूपेण शब्दादीनां बहिरंगनिमिभूतेनाज्ञानिजीवस्य रागादयो जायंते तथापि जीवस्वरूपा एव चेतना न पुनः शब्दादिरूपा अचेतना भवतीति भावार्थः । एवं कोऽपि प्राथमिक शिष्यचित्तस्थानुरागादीन जानाति बहिरंगशब्दादिविषयाणां रागादिनिमित्तानां घातं करोमीति निर्विकल्पसमाधिलक्षणभेदज्ञानाभावाचिंतयति तस्य संबोधनार्थ पूर्व गाथान सह सूत्रसप्तकं गतं । अथ व्यवहारेण कर्तृकर्मणोर्भेदः, निश्चयेन पुनर्यदेव कर्तृ तदेव कर्मेत्युपदिशति - आत्मख्यातिः - १ - न च जीवस्य परद्रव्यं रागादीन्युत्पादयतीति शक्यं - अन्यद्रव्येणान्यद्रव्यगुणोस्पादककरणस्यायोगात्। सर्वद्रव्याणां स्वभावेनैवोत्पादात् । तथा हि मृत्तिका कुंभभावेनोत्पद्यमाना किं कुंभकार स्वभावेनोत्पद्यते किं मृत्तिकास्वभावेन ! यदि कुंभकारस्वभावेनोत्पद्यते तदा कुंभकरणाहंकारनिर्भरपुरुषाधिष्ठितव्यापृतकरपुरुषशरीराकारः कुंभः स्यात्, नच तथास्ति द्रव्यांतरस्वभावेन द्रव्यपरिणामोत्पादस्यादर्शनात् । यद्येवं तर्हि मृत्तिका कुभाकारस्वभावेन नोत्पद्यते किंतु मृत्तिकास्वभावेनैव, स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् । एवं च सति स्वस्वभावानतिक्रमान्न कुंभकारः कुंभस्योत्पादक एव मृत्तिकैव कुंभकारस्वभावमस्पृशंती स्वस्वभावेनोत्पद्यते । एवं सर्वाण्यपि द्रव्याणि स्वपरिणामपर्यायेणोत्पद्यमानानि किं निमित्तभूतद्रव्यांतरस्वभावेनोत्पद्यंते किं स्वस्वभावेन ? यदि निमित्तभूतद्रव्यांतरस्वभावेनोत्पद्यते तदा निमित्तभूतपरद्रव्याकारस्तत्परिणामः स्यात् नच तथास्ति द्रव्यांतरस्वभावेन द्रव्यपरिणामोत्पादस्यादर्शनात् । यद्येवं तर्हि न सर्वद्रव्याणि निमित्तभूतपरस्वभावेनोत्पद्यंते किंतु स्वस्वभावेनैव, स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् एवं च सति सर्वद्रव्याणां निमित्तभूतद्रव्यांतराणि स्वपरिणामस्योत्पादकान्येव सर्वद्रव्याण्येव निमित्तभूतद्रव्यांतरस्वभावमस्पृशंति स्वस्वभावेन स्वपरिणामभावेनोत्पद्यते अतो न परद्रव्यं जीवस्य रागादीनामुत्पादकमुत्पश्यामो यस्मै कुप्यामः । यदिह भवति रागद्वेषदोषप्रसूतिः कतरदपि परेषां दूषणं नास्ति तत्र । स्वयमयमपराधी तत्र सर्पत्यबोधो भवतु विदितमस्तं यात्वबोधोऽस्मि बोधः ॥९९९॥ रागजन्मनि निमित्ततां परद्रव्यमेव कलयंति ये तु ते । उत्तरति न हि मोहवाहिनीं शुद्धबोधविधुरांधबुद्धयः ॥ १०० ॥ जह सिपिओ दु कम्मं कुव्वदि णय सोदु तम्मओ होदि । तह जीवोविय कम्मं कुव्वदि णय तम्मओ होदि ॥ ३८६ ॥ जह सिपिओ दु करणेहिं कुव्वदि णय सोदु तम्मओ होदि । तह जीव करणेहिं कुव्वदि णय तम्मओ होदि ॥ ३.८७॥ जह सिप्पि करणाणि गिहृदि णय सो दु तम्मओ होदि । तह जीव करणाणिय गिदि णय तम्मओ होदि ॥ ३८८ ॥ जह सिपिउ कम्मफलं भुंजदि णय सोदु तम्मओ होदि । तह जीवो कम्मफलं भुंजदि णय सोवि तम्मओ होदि ॥ ३८९ ॥ एवं ववहारस्स दु वत्तव्वं दंसणं समासेण । १ एवं च सति मृत्तिकायाः स्वस्वभावेन कुंभभावी नोपवद्यते इति ख. पुस्तके पाठोऽधिकः ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250