Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 224
________________ १९२ सनातन जैनग्रंथमालायां धस्य निषेधयितुमशक्यत्वात् इति हेतोः - यद्रागद्वेषकरणं तदज्ञानं । यस्तु ज्ञानी स पुनः पूर्वोक्तव्यवहारनिश्चयकारणं समयसारं जानन् हर्षविषादौ न करोतीति भावार्थ: । एवं तु एवं पूर्वोक्तप्रकारेण मनोज्ञामनोज्ञशब्दादिपचेंद्रियविषयस्य परकीयगुणद्रव्यरूपस्य मनोविषयस्य वा । कथंभूतस्य ! जाणिदव्वस्स ज्ञातद्रव्यस्य पंचेंद्रियमनोविषयभूतस्येत्यर्थः । तस्य पूर्वोक्तप्रकारेण स्वरूपं ज्ञात्वापि उवसमेणैव गच्छदे मूढो उपशमेनैव गच्छति मूढो बहिरात्मा स्वयं कथंभूतः ? णिग्गहमणा निग्रहमनाः निवारणबुद्धिः । कस्य संबंधित्वेन ! परस्सय परस्य पंचेंद्रियमनोविषयस्य । कथंभूतस्य ! परकीयशब्दादिगुणरूपस्य । पुनरपि कथंभूतस्य स्वकीयविषयमागतस्य प्राप्तस्य । पुनरपि किं रूपश्चाज्ञानी जीवः । सयं च बुद्धिं सित्रमपत्तो स्वयं च शुद्धात्मसंवित्तिरूपां बुद्धिमप्राप्तः । वीतरागसहजपरमानंदरूपं शिवशब्दवाच्यं सुखं चाप्राप्त इति । किंच यथायस्कांतापलाकृष्टा सूची स्वस्थानात्प्रच्युत्यायस्कंतोपलपाषाणसमीपं गच्छति तथा शब्दादयश्चित्तक्षोभरूपविकृतिकरणार्थं जीवसमीपं न गच्छति । जीवोऽपि तत्समीपं न गच्छति किं तु स्वस्थाने स्वस्वरूपेणैव तिष्ठति । एवं वस्तुस्वभावे सत्यपि यदज्ञानी जीव उदसीनभावं मुक्त्वा रागद्वेषौ करोति तदज्ञानमिति । हे भगवन् पूर्वं बंधाधिकारे भणितं— एवं णाणी सुद्धो ण स परिणमदि रायमादीहिं । राइज्जदि अहिंदु सोरत्ता दिएहिं भावेहिं ॥ १ ॥ इत्यादि रागादीनामकर्ता ज्ञानी, परद्रव्यजनिता रागादयः इत्युक्तं । अत्र तु स्वकयबुद्धिदोषजनिता रागादयः परेषां दूषणं नास्तीति पूर्वापरविरोध: ? । अत्रोत्तरमाह तत्र बंधाधिकारव्याख्याने ज्ञानिजीवस्य मुख्यत्वात् ज्ञानी तु रागादिभिर्न परिणमति तेन कारणेन परद्रव्यजनिता भणिताः । अत्र चाज्ञानिजीवस्य मुख्यता स चाज्ञानी जीवः स्वकीयबुद्धिदोषेण परद्रव्यनिमित्तमात्रमाश्रित्य रागादिभिः परिणमति, तेन कारणेन परेषां शब्दादिपंचेंद्रियविषयाणां दूषणं नास्तीति भणितं । ततः कारणात् पूर्वापरविरोधो नास्ति इति । एवं निश्चयव्यवहारमोक्षमार्गभूतं निश्चयकारणसमयसार व्यवहारकारणसमय सारद्वयमजानन् सन्नज्ञानी जीवः स्वकीयबुद्धिदोषेण रागादिभिः परिणमति । परेषां शब्दादीनां दूषणं नास्तीति व्याख्यानमुख्यत्वेन नवमस्थले गाथादशकं गतं । अथ मिध्यात्वरागादिपरिणत जीवस्याज्ञानचेतना केवलज्ञानादिगुणप्रच्छादकं कर्मबंधं जनयतीति प्रतिपादयति आत्मख्यातिः - यथेह बहिरर्थो घटादिः, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा 'मां प्रकाशय' इति स्वप्रकाशने न प्रदीपं प्रयोजयति । नच प्रदीपोप्ययः कांतोपलकृष्टायः सूचीवत स्वस्थानात्प्रच्युत्य तं प्रका- शयितुमायाति । किं तु वस्तुस्वभावस्य परेणोत्पादयितुमशक्यत्वात् परमुत्पादयितुमशक्तत्वाच्च यथा तदसन्निधाने तथा तत्संनिधानेऽपि स्वरूपेणैव प्रकाशते । स्वरूपेणैव प्रकाशमानस्य चास्य वस्तुस्वभावादेव विचित्रां परिणतिमासादयन् कमनीयोऽकमनायो वा घटपटादिर्न मनागपि विक्रियायै कल्पते । तथा बहिरर्थः शब्दो रूपं गंधो रसः स्पर्शो गुणद्रव्ये च देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा मां शृणु मां पश्य मां जिघ्र मां रसय मां स्पर्श मां बुध्यस्वेति स्वज्ञाने नात्मानं प्रयोजयति । नचात्माप्ययः कांतो पलकृष्टायः सूचीवत् स्वस्थानास्प्रच्युत्य तान् ज्ञातुमायाति । किंतु वस्तुस्वभावस्य परेणोत्पादयितुमशक्यत्वात् परमुत्पादयितुमशक्तत्वाच्च यथा तदसन्निधाने तथा तत्सन्निधानेऽपि स्वरूपेणैव जानीते । स्वरूपेण जानतश्चास्य वस्तुस्वभावादेव विचित्रां परिणतिमासादयंतः कमनीया अकमनीया वा शब्दादयो बहिरर्था न मनागपि विक्रियायै कल्प्येरन् । एवमात्मा परं प्रति उदासीनो नित्यमेवेति वस्तुस्थितिः, तथापि यद्रागद्वेषौ तदज्ञानं । पूर्णैकाच्युतशुद्धबोधमहिमा बोधो न बोध्यादयं । यायात्कामपि विक्रियां तत इतो दीपः प्रकाश्यादिव ।

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250