Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 223
________________ समयसारप्राभृतं । नचैति विनिहीतुं कायविषयमागतं तु स्पर्श ॥ ४१३ ॥ अशुभः शुभो वा गुणो न त्वां भणति बुध्यस्त्र मामिति स एव । नचैति विनिहीतुं बुदिविषयमागतं तु गुणं ॥ ४१४॥ अशुभं शुभं वा द्रव्यं न त्वां भणति बुध्वस्व मामिति स एव ।। मचैति विनिगृहीतुं बुद्धिविषयमागतं तु द्रव्यं ।। ४१५ ॥ एवं तु ज्ञातव्यस्य उपशमेनैव गच्छति मूढः ।। विनिग्रहमनाः परस्य तु स्वयं च बुद्धिं शिवामप्राप्तः ॥ ४१६ ।। तात्पर्यवृत्ति:-- रूसदि तूसदिय एकेंद्रियविकलेंद्रियादिदुर्लभपरंपराक्रमणातीतानंतकाले दृष्टश्रुतानुभूतमिथ्यात्वविषयकषायादिविभावपरिणामाधानतया अत्यंतदुर्लभेन कथंचित्कालादिलब्धिवशेन मिध्यात्वादिसप्तप्रकृतीनां तथैव चरित्रमोहनीयस्य चोपशमक्षयोपशमक्षये सति षड्द्रव्यपंचास्तिकायसप्ततत्त्वनवपदार्थादिश्रद्धानज्ञानरागद्वेषपरिहाररूपेण भदरत्नत्रयात्मकव्यवहारमोक्षमार्गसंज्ञेन व्यवहारकारणसमयसारेण साध्येन विशुद्धज्ञानदर्शनस्वभावशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिरूपेणानंतकेवलज्ञानादिचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्योत्पादकेन निश्चयकारणसमयसारेण विना खल्यज्ञानिजीवो रुष्यति तुष्यति च । किं कृत्वा ! सुणिऊण श्रुत्वा । पुनः पश्चात् केन रूपेण ! अहं भणिदो अनेनाहं भणित इति । कानि श्रुत्वा ? णिदिदसंथुदवयणाणि निंदितसंस्तुतवचनानि ताणि तानि । किं विशिष्टानि ? पोग्गलापरिणमंति बहुगाणि भाषावर्गणायोग्यपुद्गलाः कतीरा यानि कर्मतापन्नानि बहुविधानि परिणमंति । ज्ञानी पुनर्व्यवहारमोक्षमार्ग निश्चयमोक्षमागभूतं पूर्वोक्तद्विविधकारणसमयसारं ज्ञात्वा बहिरंगेष्टानिष्टविषये रागद्वेषौ न करोतीति भावार्थः । पुग्गलदव्वं सदुत्तहपरिणदं भाषावर्गणायोग्यपुद्गलद्रव्यं कर्तृ म्रियस्वेति जीयस्त्वमिति रूपेण निंदितसंस्तुतब्दरूपत्वपरिणतं तस्स जदि गुणो अण्णो तस्य पुद्गलद्रव्यस्य शुद्धात्मस्वरूपाद्यदि गुणोऽन्यो भिन्नो जडरूपः, तर्हि जीवस्य किमायातं ? न किमपि । तस्यैवा निजीवस्य पूर्वोक्तव्यवहारकारणसमयसारनिश्चयसमयसारकारणरहितस्य संबोधनं क्रियते । कथं ? इति चेत् यस्मानिंदितसंस्तुतवचनेन पुद्गलाः परिणमंति तह्मा ण तुमं भणिदो किं. चिवि तस्मात्कारणात्त्वं न भणितः किंचिदपि कि रूससे अवुहो कि रुष्यसे अबुध ! बहिरात्मन्निति । स चैवाशानिजीवो व्यवहारनिश्चयकारणसमयसाराभ्यां रहितः पुनरपि संबोध्यते । हे अज्ञानिन् ! शब्दरूपगंधरसस्पर्शरूपा मनोज्ञामनोज्ञपंचेंद्रियविषयाः कर्तारः, त्वां कर्मतापन्नं किमपि न भणति । किं न भणंति ! हे देवदत्त ! मां कर्मतापन्नं शृणु, मां पश्य, मां जिघ्र, मां स्वादय, मां स्पृशेति । पुनरप्यज्ञानी ब्रूते एते शब्दादयः कर्तारो मां किमपि न भणंति, परं किंतु मदीयश्रोत्रादिविषयस्थानेषु समागच्छंति ? आचार्या उत्तरमाहुः-हे मूढ ! नचायांति विनिर्गृहीतुं-एते शब्दादिपंचेंद्रियविषयाः । कथंभूताः संतः ! श्रोत्रंद्रियादिस्वकीयस्वकीयविषयभावमागच्छंतः । कस्मात् ! इति चेत् वस्तुस्वभावादिति । यस्तु परमतत्त्वज्ञानी जीवः स पूर्वोक्तव्यवहारनिश्चयकारणसमयसाराभ्यां बाह्याभ्यंतररत्नत्रयलक्षणाभ्यां सहितः सन् मनोज्ञामनोशशब्दादिविषयेषु समागतेषु रागद्वेषौ न करोति । किंतु स्वस्थभावेन शुद्धात्मस्वरूपमनुभवतीति भावार्थः । यथा पंचेंद्रियविषये मनोज्ञामनोजेंद्रियसंकल्पवशेन रागद्वेषौ करोत्यज्ञानी जीवः । तथा परकीयगुणपरिच्छेदरूपे परद्रव्यपरिच्छेद्यरूपे च मनोविषयेऽपि रागद्वेषौ करोति तस्याज्ञानिजीवस्य पुनरपि संबोधनं क्रियते तद्यथा--परकीयगुणः शुभोऽशुभो वा चेतनोऽचेतनो वा । द्रव्यमपि परकीय कर्तृत्वं कर्मतापन्नं न भणति हे मनोबुद्धे हे अज्ञानिजनचित्त ! मां कर्मतापन्नं बुध्यस्व जानीहि । अज्ञानी वदति-एवं न ते किंतु मदीयमनास परकीयगुणो द्रव्यं वा परिच्छित्तिसंकल्परूपेण स्फुरति प्रतिभाति । तत्रोत्तरं दीयते स चैव परकीयगुणः परकीयद्रव्यं वा मनोबुद्धिविषयमागतं विनिगृहीतुं नायाति । कस्मात् ? ज्ञेयवायकसंब

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250