Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 221
________________ समयसारप्राभृतं । नित्यं प्रत्याख्यानं करोति नित्यमपि यः प्रतिक्रामति । नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ॥४०६॥ तात्पर्यवृत्ति:-णियत्तदे अप्पयंतु जो इहलोकपरलोकाकांक्षारूपख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षालक्षणनिदानबंधादिसमस्तपरद्रव्यालंबनोत्पन्नशुभाशुभसंकल्पविकल्परहिते शून्ये विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवनरूपाभेदरत्नत्रयात्मनिर्विकल्पपरमसमाधिसमुत्पन्नवीतराग सहजपरमानंदस्वभावसुखरसास्वादसमरसीभावपरिणामेन सालंबने भरितावस्थे केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्योत्पादके कारणसमयसारे स्थित्वा यः कर्ता, आत्मानं कर्मतापन्नं निकतयति । कस्मात्सकाशात् ? कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं तत्तो . शुभाशुभमूलोत्तरप्रकृतिभेदनानेकविस्तरविस्तीर्ण पूर्वकृतं यत्कर्म तस्मात् सो पडिक्कमणं स पुरुष एवाभेदनयेन निश्चयप्रतिक्रमणं भवतीत्यर्थः । णियत्तदे जो अनंतज्ञानादिस्वरूपात्मद्रव्यसम्यक्श्रद्धानज्ञानानुभूति स्वरूपाभेदरत्नत्रयलक्षणे परमसामायिके स्थित्वा यः कर्ता आत्मानं निवर्तयति । कस्मात्सकाशात् ! कम्मं जं सुहमसुई जह्मियभावेण वज्झदि भविस्सं तत्तो शुभाशुभानेकविस्तरविस्तीर्ण भविष्यकर्म यस्मिन्मिथ्यात्वादिरागादिपरिणामे सति बध्यते तस्मात् सो पच्चक्खाणं हवे चेदा स एवंगुणविशिष्टस्तपोधन एवाभेदनयेन निश्चयप्रत्याख्यानं भवतीति विज्ञेयं । जो वेददि नित्यानंदैकस्वभाव शुद्धात्मसम्यश्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मके सुखदुःखजीवितमरणादिविषये सर्वोपेक्षासंयमे स्थित्या यः कर्ता वेदयत्यनुभवति जानाति । किं जानाति । जं यत्कर्म तं तत् । केन रूपेण ! दोसं दोषोयं मम स्वरूपं न भवति । कथं भूतं कर्म ! उदिण्णं उदयागतं । पुनरपि कथभूतं ? सुहमसुहं शुभाशुभं । पुनश्च किंरूपं ! अणेयवित्थरबिसेसं मूलोत्तरप्रकृतिभेदेनानेकविस्तरविस्तीर्ण । संपडिय संप्रति काले खलु स्फुटं । सो आलोयणं चेदा स चेतायता पुरुष एवाभेदनयेन निश्चयालोचनं भवतीति ज्ञातव्यं । णिचं पच्चक्खाणं कुव्वादि णिच्चंपि जो पडिक्कमदि णिच्च अलोचेदिय निश्चयरत्नत्रयलक्षणे शुद्धात्मस्वरूपे स्थित्वा यः कर्ता पूर्वोक्तनिश्चयप्रत्याख्यानप्रतिक्रमणालोचनानुष्ठानानि नित्यं सर्वकालं करोति सोदु चरित्तं हवदि चेदा स चेतयिता पुरुष एवाभेदनयेन निश्चयचारित्रं भवति । कस्मात् ! इति चेत् शुद्धात्मस्वरूपे चरणं चारित्रमिति वचनात् । एवं निश्चयप्रतिक्रमणप्रत्याख्याना लोचनाचारित्रव्याख्यानरूपेणाष्टमस्थले गाथाचतुष्टयं गतं ।। अथेंद्रियमनोविषयेषु रागद्वेषौ मिथ्याज्ञानपरिणतमेव जीवं करोतीत्याख्याति आत्मख्यातिः - यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेम्यश्चेतयितात्मानं निवर्तयति स तत्कार णभूतं पूर्वकर्म प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति । स एव वर्तमान कर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः, आलोचना भवति । एवमयं नित्यं प्रतिक्रामन् , नित्यं प्रत्याचक्षाणो नित्यमालोचयंश्च पूर्वकर्मकार्येभ्य उत्तरकर्मकरणेभ्या भावेभ्योत्यंत निवृत्तः, वर्तमानं कर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः स्वस्मिन्नेव खलु ज्ञानस्वभावे निरंतरचरणा चारित्रं भवति । चारित्रं तु भवन् स्वस्य ज्ञानमात्रस्य चेतनात् स्वयमेव ज्ञानचेतना भवतीति भावः । ज्ञानस्य संचेतनयैव नित्यं प्रकाशते ज्ञानमतीव शुद्धं । अज्ञानसंचेतनया तु धावन् बोधस्य शुद्धिं निरुणद्धि बंधः ॥१०॥ णिदिदसंथुदवयणाणि पोग्गला परिणमंति वहुगाणि । ताणि सुणिदण रूसदि तूसदिय अहं पुणो भणिदो ॥४०७॥ पोग्गलदव्वं सदुत्तह परिणदं तस्स जदि गुणो अण्णो ।

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250