Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 220
________________ १४८ सनातनजैनग्रंथमालायांणामेनोपयमाना कुग्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्रेतयतीति व्यवाहियते । तथा चेतयितापि दर्शनगुणनिर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणम मानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्व. भावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पयमानमात्मनः स्वभावेन पश्यतीति व्यवाहियते । अपि च यथा च सैव सेटिका श्वेतगुणानिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यं चात्मस्वभावेनापरिणामयंती कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणानिर्भरस्वभावस्य परिणामेनोत्पद्यमाना कुड्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्वेतयतीति व्यवाहियते । तथा चेतयितापि ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेनापोहतीति व्यवाहियते । एवमयमात्मनो ज्ञानदर्शनचरित्रपर्यायाणां निश्चयव्यवहारप्रकारः । एवमेवान्येषां सर्वेषामपि पर्यायाणां दृष्टव्यः । शुद्धद्रव्यनिरूपणार्पितमतेस्तत्त्वं समुत्पश्यतो नैकद्रव्यगतं चकास्ति किमपि द्रव्यांतरं जातुचित् । ज्ञानं ज्ञेयमवैति यत्तु तदयं शुद्धस्वभावोदयः किं द्रव्यांतरचुंबनाकुलधियस्तत्त्वाच्च्यवंते जनाः ॥१०॥ शुद्धद्रव्यस्वरसभवनास्किं स्वभावस्य शेष-मन्यदृव्यं भवति यदि वा तस्य किं स्यात्स्वभावः । ज्योत्स्नारूपं स्वपयति मुवं नैव तस्यास्तिभूमिमा॑नं ज्ञेयं कलयति सदा ज्ञेयमस्यास्ति नैव ॥१०६॥ रागद्वेषद्वयमुदयते तावदेतन यावद् ज्ञानं ज्ञानं भवति न पुनर्बाध्यतां याति बोध्यं । शान बानं भवतु तदिदं न्यक्कृताज्ञानभावं भावोभावो भवति तिरयन्येन पूर्णस्वभावः ॥१०७॥ कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं । तत्तो णियत्तदे अप्पयं तु जो सो पडिकमणं ॥४०३॥ कम्मं जं सुहमसुहं जझिय भावेण वज्झदि भविस्सं । तत्तो णियत्तदे जो सो पकक्खाणं हवे चेदा ॥४०४॥ जं सुहमसुहमुदिण्णं संपडिय अणेयवित्थरविसेसं । तं दोसं जो चेददि स खलु आलोयणं चेदा ॥४०५॥ णिचं पञ्चक्खाणं कुव्वदि णिचंपि जो पडिक्कमदि । णिचं आलोचेयदि सो हु चरित्तं हवदि चेदा ॥४०॥ कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेषं । । तस्माभिवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥४०३॥ कर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । सस्माभिवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥४०४॥ यच्छुभमशुभमुदीर्ण संप्रति चानेकविस्तरविशेषं । तं दोषं चेतयते स खल्वालोचनं चेतयिता ॥४०५॥ ददि पाठोऽयं स. पुस्तके।

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250