Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 226
________________ १९४ सनातनजैनग्रंथमालायांद्वयमिति द्विसंयोगेन च भंगत्रयं जातं । कृतकारितानुमतत्रयमिति संयोगेनैको भंग इति सप्तभंगी । तथैव मनसा वाचा कायेनेति प्रत्येकभंगत्रयं भवति । मनोवचनद्वयं मनःकायद्वयं वचनकायद्वयमिति द्विसंयोगेन भंगत्रयं जातं । मनोवचनकायत्रयमिति च त्रिसंयोगेनैको भंग इयमपि सप्तभंगी। कृतं मनसा सह, कृतं वाचा सह, कृतं कायेन सह, कृतं मनोवचनद्वयेन सह, कृतं मनःकायद्वयन सह, कृतं वचनकायद्वयेन सह, कृतं मनोवचनकायत्रयेण सहेति कृते निरुद्धे विवक्षिते सप्तभंगी जाता यथा । तथा कारितेऽपि तथा-अनुमतेऽपि, तथा कृतकारितद्वयेऽपि, तथा कृतानुमतद्वयेऽपि, तथा कारितानुमतद्वयेऽपि, तथा कृतकारितानुमतत्रये चेति प्रत्येकमनेन क्रमेण सप्तभंगी योजनीया । एवं-एकोनपंचाशद्भगा भवंतीति प्रतिक्रमणकल्पः समाप्तः । इदानीं प्रत्याख्यानकल्पः कथ्यते-तथाहि-यदहं करिष्यामि यदहं कारयिष्यामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुज्ञास्यामि । केन मनसा वाचा कायेन तन्मिथ्या मे दुष्कृतमिति पूर्ववत् षट्संयोगेनको भंगः । यथा यदहं करिष्यामि यदहं कारयिष्यामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुज्ञास्यामि । केन ? मनसा वाचा चेति तन्मिथ्या मे दुष्कृतमिति पूर्ववदेकैकापनयनेन पंचसंयोगेन भंगत्रयं भवति । एवं पूर्वोक्तक्रमेणएकोनपंचाशद्धंगा ज्ञातव्याः । इति प्रत्याख्यानकल्पः समाप्तः । इदानीमालोचनाकल्पः कथ्यते तद्यथा-यदहं करोमि यदहं कारयामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुजानामि । केन ? मनसा वाचा कायेनेति तन्मिथ्या मे दुष्कृतमिति पूर्ववत षट्संयोगेनैकभंगः । तथा यदहं करोमि यदहं कारयामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुजानामि केन? मनसा वाचेति तन्मिथ्या में दुष्कृतमिति-एकैकापनयनेन पंचसंयोगेन भंगत्रयं भवति । एवं पूर्वोक्तप्रकारेण एकोनपंचाशद्धंगा ज्ञातव्याः । इत्यालोचनाकल्पः समाप्तः। कल्पः पर्व परिच्छेदोऽधिकारोऽध्यायः प्रकरणमित्याद्येकार्था ज्ञातव्याः । एवं निश्चयप्रतिक्रमण-निश्चयप्रत्याख्यान-निश्चयालोचनाप्रकारेण शुद्धज्ञानचेतनाभावनारूपेण गाथाद्वयव्याख्यानेन कर्मचेतनासन्यासभावना समाप्ता । इदानीं शुद्धज्ञानचेतनाभावनावलेन कर्मफलचेतनासन्यासभावनां नाटयति करोतीत्यर्थः । तद्यथा-नाहं मतिज्ञानावरणीयकर्मफलं मुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये सम्यगनुभवे इत्यर्थः । नाहं श्रुतज्ञानावरणीयकर्मफलं भुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । नाहमवधिज्ञानावरणीयकर्मफलं मुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । नाहं मनःपर्ययज्ञानावरणीयफलं भुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । नाहं केवलज्ञानावरणीयफलं भुंजे । किं तर्हि करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये इति पंचप्रकारज्ञानावरणीयरूपेण कर्मफलसंज्ञाभावना व्याख्याता। नाहं चक्षुर्दर्शनावरणीयफलं भुजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । एवं टीकाकथितक्रमण पण णव दु अट्ठवीसा चउ तिय णउ दीय दुण्णि पंचेव । वावण्णहीण वियसय पयडिविणासेण होंति ते सिद्धा ॥ १ ॥ इमां गाथामाश्रित्य अष्टचत्वारिंशदधिकशतप्रमितोत्तरप्रकृतीनां कर्मफलसन्यासभावना नाटयितव्या, कर्तव्येत्यर्थः । किंच जगत्त्रयकालत्रयसंबंविमनोवचनकायकृतकारितानुमतख्यातिपूजालाभदृष्टश्रुतानुभूत भोगाकांक्षारूपनिधानबंधादिसमस्तपरद्रव्यालंबनोत्पन्न शुभाशुभसंकल्पविकल्परहितन शून्येन चिदानंदैकस्वभावशुद्धात्मतत्त्वसम्यक्त्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजपरमानंदरूपसुखरसास्वादपरमसमरसीभावानुभवसालंबेन भरितावस्थेन केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य साक्षादुपादेयभूतस्य कार्यसमयसारस्योत्पादकेन निश्चयकारणसमयसाररूपेण शुद्धज्ञानचेतनाभावानावष्टंभेन कृत्वा कर्मचेतनासन्यासभावना कर्मफलचेतनासन्यासभावना च मोक्षार्थिना पुरुषेण कर्तव्येति भावार्थः । एवं गाथाद्वयं कर्मचेतनासन्यासभावनामुख्यत्वेन, गाथैका कर्मफलचेतनासन्यासभावनामुख्यत्वेनेति दशमस्थले गाथात्रयं गतं ।

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250