Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 225
________________ १९३ समयप्राभृतं । तद्वस्तुस्थितिबोधबध्यधिषणा एते किमज्ञानिनो । रागद्वषमयीं भवंति सहजा मुंचत्युदानितां ॥ १०९ ॥ रागद्वेषविभावमुक्तमहसो नित्यं स्वभावस्पृशः पूर्वागामिसमस्तकर्मविकला भिन्नास्तदात्वोदयात् । दूरारूढचरित्रवैभववलाचंचञ्चिदर्मियीं विंदन्ति स्वरसाभिषिक्तभुवनां ज्ञानस्य संचेतनां ॥ ११० ॥ वेदंतो कम्मफलं अप्पाणं जो दु कुणदि कम्मफलं। सो तं पुणोवि वंधदि वीयं दुक्खस्स अट्टविहं ॥ ४१७ ॥ वेदंतो कम्मफलं मयेकदं जो दु मुणदि कम्मफलं । सो तं पुणोवि वंधदि वीयं दुक्खस्स अट्ट विहं ॥ ४१८ ॥ वेदंतो कम्मफलं सुहिदो दुहिदो दु हवदि जो चेदा । सो तं पुणोवि वंधदि वीयं दुक्खस्स अट्टविहं ॥ ४१९ ॥ वेदयमानः कर्मफलमात्मानं यस्तु करोति कर्मफलं । स तत्पुनरपि बनाति बीजं दुःखस्याष्टविधं ॥ ४१७ ॥ वेदयमानः कर्मफलं मया कृतं यस्तु जानाति कर्मफलं । स तत्पुनरपि पधाति बीजं दुःखस्याष्टविधं ॥ ४१८ ॥ वेदयमानः कर्मफलं सुखितो दुःखितश्च भवति चेतयिता । स तत्पुनरपि बनावि बीनं दुःख स्याष्टविधं ॥ ४१९ ॥ - तात्पर्यवृत्तिः-ज्ञानाज्ञानभेदेन चेतना तावद्विविधा भवति । इयं तावदज्ञानचेतना गाधानयेण कथ्यते–उदयागतं शुभाशुभं कर्म वेदयन्ननुभवन् सन्नज्ञानिजीवः स्वस्थभावाद् भ्रष्टो भूत्वा मदीयं कर्मेति भणति । मया कृतं कर्मेति च भणति । स जीवः पुनरपि तदष्टविधं कर्म बनाति । कथंभूतं ! बीजं कारणं । कस्य ? दुःखस्य । इति गाथाद्वयेनाज्ञानरूपा कर्मभावचेतना व्याख्याता । कर्मचेतना कोऽर्थः ? इति चेत् मदीयं कर्म मया कृतं कर्मेत्याद्यज्ञानभावेन-ईहापूर्वकमिष्टानिष्टरूपेण निरुपरागशुद्धात्मानुभूतिच्युतस्य मनोबचनकायव्यापारकरणं यत्, सा बंधकारणभूता कर्मचेतना भण्यते । उदयागतं कर्मफलं वेदयन् शुद्धारमस्वरूपमचेतयन् मनोज्ञामनोजेंद्रियविषयनिमित्तेन यः सुखितो दुःखितो वा भवति स जीवः पुनरपि तदएविधं कर्म बन्नाति । कथंभूतं? बीजं कारणं । कस्य ? दुःखस्य । इत्येकगाथया कर्मफलचेतना व्याख्याता । कर्मफलचेतना कोऽर्थः ! इति चेत् स्वस्थभावरहितेनाज्ञानभावेन यथा संभवं व्यक्ता, व्यक्तस्वभावेनेहापूर्वकमिष्टानिष्टविकल्परूपेण हर्षविषादमयं सुखदुःखानुभवनं यत, सा बंधकारणभूता कर्मफलचेतना भण्यते । इयं कर्मचेतना कर्मफलचेतना द्विरूपापि त्याज्या बंधकारणत्वादिति । तत्र तयोर्द्वयोः कर्मचेतनाकर्मफलचेतनयोर्मध्ये पूर्व तावन्निश्चयप्रतिक्रमण-निश्चयप्रत्याख्यान-निश्चयालोचनास्वरूपं यत्पूर्व व्याख्यातं तत्र स्थित्वा शुद्धज्ञानचेतनावलेन कर्मचेतनासन्यासभावनां नाटयति । कर्मचेतनात्यागभावनां कर्मबंधविनाशार्थ करोतीत्यर्थः । तद्यथा यदमहमकार्ष यदहमचीकरं यदहं कुर्वतमप्यन्यं प्राणिनं समन्वज्ञासिषं । केन ! मनसा याचा कायेन तन्मिथ्या मे दुष्कृतमिति षसंयोनेगैकभंगः । यदहमकार्षे यदहमचीकरं यदहं कुर्वतमप्यन्यं प्राणिनं समनुज्ञासिषं । केन मनसा वाचा तन्मिथ्या मे दुष्कृतमिति पंचसंयोगेन, एकैकापनयनेन भंगत्रयं भवति । संयोगेनेत्याद्यक्षसंचारेणैकोनपंचाशद्भगा भवंतीति टीकाभिप्रायः । अथवा त एव सुखोपायेन कथ्यते । कथं: इति चेत् कृतं कारितमनुमितमिति प्रत्येकं भंगत्रयं भवति । कृतकारितवयं कृतानुमतद्वयं कारितानुमत, २५

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250