Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 214
________________ सनातनमैमप्रथमालापासुणु णिच्छयस्स वयणं परिणामकदं तु जं होदि ॥३९०॥ जह सिप्पिओ दु चिटं कुव्वदि हवदिय तहा अणण्णो सो । तह जीवोवि य कम्मं कुव्वदि हवदि य अणण्णो सो ॥३९१॥ जह चिठं कुव्वंतो दु सिप्पिओ णिच दुक्खिदो होदि । तत्तोसेय अणण्णो तह चेटुंतो दुही जीवो ॥३९२॥ यथा शिल्पिकस्तु कर्म करोति नच स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति नच तन्मयो भवति ॥३८॥ यथा शिल्पिक करणैः करोति न स तु तन्मयो भवति । तथा जीवः करणः करोति नच तन्मयो भवति ॥३८७॥ यथा शिल्पिकस्तु करणानि गृह्णाति न स तु तन्मयो भवति । तथा जीवः करणानि च गृहाति नच तन्मयो भवति ॥३८८॥ यथा शिल्पिकः कर्मफलं भुंक्त नच स तु तन्मयो भवति । तथा जीवः कर्मफलं भुक्ते नच तन्मयो भवति ॥३८९॥ एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥३९०॥ यथा विल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः। तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात् ॥३९१।। यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति । तस्माच स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ॥३९२॥ तात्पर्यवृत्तिः - यथा लोके शिल्पी तु सुवर्णकारादिः सुवर्णकुंडलादिकर्म करोति, कैः कृत्वा ? हस्तकुटकाद्युपकरणैः । हस्तकुटकाद्युपकरणानि च हस्तेन गृह्णाति, तथापि तैः सुवर्णकुंडलादिकर्महस्तकुहकादिकरणैरुपकरणैः सह तन्मयो न भवति । तथैव ज्ञानी जीवोऽपि निष्क्रियवीतरागस्वसंवेदन ज्ञानच्युतः सन् ज्ञानावरणादिद्रव्यकर्माणि करोति । कैः कृत्वा ? मनोवचनकायव्यापाररूपैः कर्मोत्पादकरणैरुपकरणैः तथैव च कर्मोदयवशान्मनोवचनकायव्यापाररूपाणि कर्मोत्पादकरणान्युपकरणानि संश्लेषरूपेण व्यवहारनयेन गृह्णाति तथापि ज्ञानावरणादिद्रव्यकर्ममनोवचनकायव्यापाररूपकर्मोत्पादकोपकरणैः सह टंकोत्कीर्णज्ञायकत्वेन भिन्नत्वात्तन्मयो न भवति । तथैव च स एव शिल्पी सुवर्णकारादिः सुवर्ण कुडलादिकर्मणि कृते सति यत्किमप्यशनपानादिक मूल्यं लभते भुक्ते च तथापि तेनाशनपानादिना तन्मयो न भवति । तथा जीवोऽपि शुभाशुभकर्मफलं बहिरंगेन दृष्टाशनपानादिरूपं निजशुद्धात्मभावनोत्थमनोहरानंदसुखास्वादमलभमानो भुक्ते न च तन्मयो भवति । एवं ववहारस्स दु वत्तव्वं दसणं समासेण एवं पूर्वोक्तप्रकारेण गाथाचतुष्टयेन द्रव्यकर्मकर्तृत्वभोक्तृत्वरूपस्य व्यवहारनयस्य दर्शनं दृष्टांत उदाहरणं हे शिष्य ! वक्तव्यं व्याख्येयं कथनीयं समासेन संक्षेपेण मुणु णिच्छ यस्स वयणं परिणाम कदंतु जं हवदि इदं त्वग्रे वक्ष्यमाणं निश्चयस्य वचनं व्याख्यानं शृणु, कथंभूतं ? परिणामकृतं रागादिविकल्पेन निष्पादितमिति । जह सिप्पिओ दु चेठं कुन्धादि हवदि य तहा अणण्णोसो यथा सुवर्णकारादिशिल्पी कुंडलादिकमेवमेवं करोमीति मनसि चेष्टां. करोति इति तया चेष्टया सह भवति चानन्यस्तन्मयः तहजीवोविय कम्मं कुन्चदि हवदि य अणण्णो सो तथैवाज्ञानी जीवः केवलज्ञानादिव्यक्तिरूपस्य

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250