Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
१७२
सनातनजैनग्रंथमालायां
पर्यायेण कृतं देवादिपर्यायेण भुंक्ते इति भावार्थ: । एवं गाथाद्वयेनानेकांतव्यवस्थापनारूपेण स्वपक्ष
सिद्धिः कृता ।
अथैकांतेन य एव करोति स एव भुक्ते । अथवान्यः करोत्यन्यो भुंक्ते इति यो वदति स मिथ्यादृष्टिरित्युपदिशति
जो चैव कुणदि सोचैव वेदको जस्स एस सिद्धांतो य एव जीवः शुभाशुभं कर्म करोति एव चकांतेन भुंक्ते न पुनरन्यः यस्यैष सिद्धांत: - : -आगमः । सो जीवो णादन्वो मिच्छादिट्ठी अणारिहदो स जीवो मिध्यादृष्टिरनार्हतो ज्ञातव्यः । कथं मिध्यादृष्टिः ? इति चेत् यदैकांतेन नित्यकू - टस्थोऽपरिणामी टंकात्कीर्णः सांख्यमतवत् तदा येन मनुष्यभवेन नरकगतियोग्यं पापकर्मकृतं स्वर्गगतियोग्यं पुण्यकर्म कृतं तस्य जीवस्य नरके स्वर्गे वा गमनं न प्राप्नोति । तथा शुद्धात्मानुष्ठानेन मोक्षश्च कुतः ? नित्यैकांतत्वादिति । अण्णो करेदि अण्णो परिभुंनदि जस्स एस सिद्धंतो अन्यः करोति कर्म भुंक्ते चान्यः, यद्येकांतेन ब्रूते सो जीवो णादन्वो मिच्छादिट्ठी अणाग्दिो तदा येन मनुव्यभवे पुण्यकर्म कृतं पापकर्मकृतं मोक्षार्थं शुद्धात्मभावनानुष्ठानं वा तस्य पुण्यकर्मणां देवलोकेभ्यः कोऽपि भोक्ता प्राप्नोति न च स जीवः । नरकेऽपि तथैव । केवलज्ञानादिव्यक्तिरूपं मोक्षं चान्यः कोऽपि लभते ततश्च पुण्यपापमोक्षानुष्ठानं वृथेति बौद्धमतदूषणं, इति गाथाद्वयेन नित्यैकांतक्षणिकैकांतमत निराकृतं । एवं द्वितीयस्थले सूत्रचतुष्टयं गतं । अथ यद्यपि शुद्वनयेन शुद्धबुद्धैकस्वभावात् कर्मणां कर्त्ता जीवस्तथाप्यशुद्धनयेन रागादिभावकर्मणां स एव कर्ता न च पुद्गल इत्याख्याति- - अत्र गाथापंचकेन प्रत्येकं गाथापूर्वार्धेन सांख्यमतानुसारिशिष्यं प्रति पूर्वपक्षः, उत्तरार्धेन परिहार इति ज्ञातव्यं -
आत्मख्यातिः - यतो हि प्रतिसमय संभवदगुरुलघुगुणपरिणामद्वारेण क्षणिकत्वादचलित चैतन्यान्व - गुणद्वारेण नित्यत्वाच्च जीवः कैश्चित्पर्यायैर्विनश्यति, कैश्चित्तु न विनश्यतीति द्विस्वभावो जीवस्वभावः । ततो य एव करोति स एवान्यो वा वेदयते । य एव वेदयते स एवान्यो वा करोतीति नास्त्येकांतः । एवमनेकांतेऽपि यस्तत्क्षण वर्तमानस्यैव परमार्थसत्त्वेन वस्तुत्वमिति वस्त्वंशेऽपि वस्तुत्वमध्यास्य शुद्धनयलोभादृजुसूत्रकांते स्थित्वा य एव करोति स एव न वेदयते । अन्यः करोति अन्यो वेदयते इति पश्यति स मिथ्यादृष्टिरेव दृष्टव्यः । क्षणिकत्वेऽपि वृत्त्यंशानां वृत्तिमतश्चैतन्यचमत्कारस्य टंकोत्कीर्णस्यैवांतः प्रतिभासमानत्वात् ।
आत्मानं परिशुद्धमीप्सुभिरतिव्याप्तिं प्रपद्यांधकैः कालोपाधिवलादशुद्धिमधिकां तत्रापि मत्वा परैः । चैतन्यं क्षणिकं प्रकल्प्य प्रथकैः शुद्धर्जुसूत्रेरितैरात्मा व्युज्भित एव हारवदहो निस्सूत्रमुक्तेक्षिभिः || कर्तुर्वेदयतुश्च युक्तिवशतो भेदोऽस्त्वभेदोपि वा कर्ता वेदयिता च मा भवतु वा वस्त्वेव संचित्यतां । प्रोता सूत्र इवात्मनीह निपुणैर्भर्त्तुं न शक्या कचिश्चिञ्चितामणिमालिकेयमभितोप्येका चकास्त्येव नः ॥
मिच्छत्ता जदि पयडी मिच्छादिट्टी करेदि अप्पाणं । तह्मा वेदणा दे पडी गणु कारगो पत्ता || ३६१ ॥ सम्मत्ता जदि पयडी सम्मादिट्ठी करेदि अप्पाणं । तह्मा अचेदणा दे पयडी णणु कारगो पत्तो ॥ ३६२ ॥ अहवा एसो जीवो पोग्गलदव्वस्त कुणदि मिच्छत्तं । तह्मा पोग्गलदव्वं मिच्छादिट्ठी ण पुण जीवो || ३६३ ॥
१ बोद्धैरित्यर्थः । २ अवेदणा पाठोयं ख. पुस्तके । ३ नेयमात्मख्यात गाथा ततो नैतस्या मात्मख्यातिष्टीका ।

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250