Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 209
________________ समयप्राभूतं । १७७ कातरूपं ये केचन परमागमोक्तं नयविभागमजानंतः समणा श्रमणाभासाः द्रव्यलिंगिनः प्ररूपयंति कथयति । तसि पयडी कुव्यादि अप्पाय अकारया सव्वे तेषां मतेनैकांतेन प्रकृतिः की भवति । आत्मानश्च पुनरकारकाः सर्वे । ततश्च कर्तृत्वाभावे कर्माभावः, कर्माभावे संसाराभावः । ततो मोक्षप्रसंगः । स च प्रत्यक्षविरोध इति । जैनमते पुनः परस्परसापेक्षनिश्चयव्यवहारनयद्वयेन सर्व घटत इति नास्ति दोषः । एवं सांख्यमतसंवाद दर्शयित्वा जीवस्यकांतेनाकर्तृत्वदूषणद्वारण सूत्रपंचकं गतं । अहवामण्णसि मज्झं अप्पा अप्पाणमप्पणो कुणदि हे सांख्य ! अथवा मन्यसे त्वं पूर्वोक्तकर्तृत्वदूषणभयान्मदीयमते जीवो ज्ञानी ज्ञानित्वे च कर्मकर्तृत्वं न घटते यतः कारणादज्ञानिनां कर्मबंधो भवति । कित्वात्मा कर्ता आत्मानं कर्मतापन्नं आत्मना करणभूतेन करोति ततः कारणादकर्तृवे क्षणं न भवति ? इति चेत् एसो मिच्छ. सहावो तुझं एवं मुणंतस्स अयमपि मिथ्यास्वभाव एवं मन्यमानस्य तव इति पूर्वपक्षगाथा गता। . अथ सूत्रत्रयेण परिहारमाह कस्मान्मिथ्यास्वभावः १ इति चेत् जे यस्मात् कारणात् अप्पा णिचासं खजपदेसो देसिदो दु समयम्मि आत्मा द्रव्यार्थिकनयेन नित्यस्तथा चासंख्यातप्रदेशो देशितः समये परमागमे तस्यात्मनः शुद्धचैतन्यान्वयलक्षणद्रव्यत्वं तथैवासंख्यातप्रदेशत्वं च पूर्वमेव तिष्ठति णवि सो सकदि तत्तो हीणो अहियो व कादं जे तद्द्व्यं प्रदेशत्वं च तत्प्रमाणादधिकं हीन वा कर्तुं नायाति-इति हेतोरात्मा करोतीति वचनं मिथ्येति । अथ मतं असंख्यातमानं जघन्यमध्यमोत्कृष्टभेदेन बहुभेदं तिष्ठति तेन कारणेन जघन्यमध्यमोत्कृष्टरूपेण संख्यातप्रदेशत्वं जीवः करोति तदपि न घटते यस्मात्कारणात् नीवस्स जीवरूवं वित्थरदो जाण लोगमित्तं हि जीवस्य जीवरूपं प्रदेशापेक्षया विस्तरतो महामस्यकाले लोकपूरणकाले वा अथवा जघन्यतः सूक्ष्मनिगोदकाले नानाप्रकारमध्यमावगाहशरीरप्रहणकाले वा प्रदीपवद्विस्तारोपसंहारयशेन लोकमात्रप्रदेशमेव जानीहि हि स्फुटं तत्तो सो किं हीणो अहिभो व कदं भणसि दव्वं तस्माल्लोकमात्रप्रदेशप्रमाणात्स जीवः किं हीनोऽधिको वा कृतो येन त्वं भणसि आत्म द्रव्यं कृतं किंतु नैवेति । अह जाणगो दु भावोणाणसहावेण अस्थि देदिमदं अथ हे शिष्य ! ज्ञायको भावः पदार्थः आत्मा ज्ञानरूपेण पूर्वमेयास्तीति मतं । सम्मत्तमेव तह्मा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि यस्मानिर्मलानंदैकज्ञानस्वभावशुद्धात्मा पूर्वमेवास्ति तस्मादारमा कर्ता आत्मानं कर्मतापन्नं स्वयमेवात्मना कृत्वा नैव करोतीत्येकं दूषणं । द्वितीयं च निर्विकारपरमतत्त्वज्ञानी तु कर्ता न भवतीति पूर्वमेव भणितमास्ते । एवं पूर्वपक्षपरिहाररूपेण तुतीयांतररूपगाथाचतुष्टयं गतं । कश्चिदाहजीवात्प्राणा भिन्ना अभिन्ना वा यद्यभिन्नास्तदा यथा जीवस्य विनाशो नास्ति तथा प्राणानामापि विनाशो नास्ति कथं हिंसा ! । अथ भिन्नास्तहि जीवस्य प्राणघातेऽपि किमायातं ? तत्रापि हिंसा नास्तीति । तन कायादिपरिणामैः सह कथंचिद्भेदाभेदः । कथं ! इति चेत् तप्तायःपिंडवदर्तमानकाले पृथक्त्वं कर्तुं ना. याति तेन कारणेन व्यवहारेणाभेदः । निश्चयेन पुनर्मरणकाले कायादिप्राणा जीवेन सहैव न गच्छंति तेन कारणेन भेदः । यद्येकांतेन भेदो भवति तर्हि यथा परकीये काये छिद्यमाने भिद्यमानेऽपि दुःखं न भवति । तथा स्वकीयकायेऽपि दुःखं न प्राप्नोति न च तथा ? प्रत्यक्षविरोधात् । ननु तथापि व्यवहारेण हिंसा जाता नतु निश्चयेनेति ? सत्यमुक्तं भवता व्यवहारेण हिंसा तथा पापमपि नारकादिदुःखमपि व्यवहारेणेत्यस्माकं सम्मतमेव । तनारकादि दुःखं भवतामिष्टं चेत्तर्हि हिंसां कुरुत । भीतिरस्ति ! इति चेत् तर्हि त्यज्यतामिति । ततः स्थितमेतत् एकांतेन सांख्यमतवदकर्ता न भवति किं तर्हि रागादिविकल्परहितसमाधिलक्षणभेदज्ञानकाले कर्मणः कर्ता न भवति शेषकाले कर्तेति व्याख्यानमुख्यतयांतरस्थलत्रयेण चतुर्थस्थले त्रयोदश सूत्राणि गतानि । अथ यावत्कालं निजशुद्धात्मानमात्मत्वेन न जानाति पंचेंद्रियविषयादिकं परद्रन्यं च परत्वेन न जानात्ययं जीवः-तावत्कालं रागद्वेषाभ्यां परिणमतीत्यानेदयति-अथवा बाहिरंगपत्रंद्रियविषयमागसहका

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250