Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 208
________________ १७६ सनातनजनैग्रंथमालायाँ-.एषाचार्यपरंपरागतेदृशी श्रुतिः ॥ ३७० ।। तस्मान्न कोऽपि जीवोऽब्रह्मचारी युष्माकमुपदेशे । यस्मात्कमैव हि कर्माभिलपतीति यद्भणितं ॥ ३७१ ॥ यस्माद्धंति परं परेश हन्यते च सा प्रकृतिः । एतेनार्थेन भण्यते परशतं नामेति ॥ ३७२ ।। तस्मान्न कोऽपि जीव उपघातको युष्माकमुपदेशे । यस्मात्कर्मैव हि कर्म हंतीति भणितं ।। ३७३ ॥ एवं सांख्योपदेशे ये तु प्ररूपयंतीदृशं श्रमणाः । तेषां प्रकृतिः करोत्यात्मानश्चाकारकाः सर्वे ।। ३७४ ॥ अथवा मन्यसे ममात्मात्मानमात्मनः करोति । एष मिथ्यास्वभावस्तवैतन्मन्यमानस्य ॥ ३७५ ॥ . आत्मा नित्योऽसंख्येयप्रदेशो दर्शितस्तु समये ।। नापि स शक्यते ततो हीनोऽधिकश्च कर्तुं यत् ।। ३७६ ॥ जीवस्य जीवस्वरूपं विस्तरतो जानीहि लोकमानं हि । ततः स किं हीनोऽधिको वा कथं करोति द्रव्यं ॥ ३७७ ।। अथ ज्ञायकस्तु भावी ज्ञानस्वभावेन मतं । तस्मान्नाप्यात्मात्मानं स्वयमात्मनः करोति ॥ ३७८ ॥ तात्पर्यवृत्तिः-कर्मभिरज्ञानी क्रियते जीव एकांतेन तथैव च ज्ञानी क्रियते कर्मभिः । स्वापं निद्रा नीयते जागरणं तथैवेति प्रथमगाथा गता। कर्मभिः सुखीक्रियते दुःखीक्रियते तथैव च कर्मभिः । कर्मभिश्च मिथ्यात्वं नीयते तथैवासंयमं चैवैकांतेन द्वितीयगाथा गता । कर्मभिश्चैवोद्धोधस्तिर्यग्लोकं च भ्राम्यते कर्मभिश्चैव क्रियते शुभाशुभं यदन्यदपि किंचिदिति तृतीयगाथा गता। यस्मादेवं भाणितः कर्मैव करोति कर्मैव ददाति कर्मैव हरति यत्किंचिच्छुभाशुभं तस्मादेकांतेन सर्वे जीवा अकारका प्राप्ताः, ततश्च कर्माभावः कर्माभावे संसाराभावः सच प्रत्यक्षविरोधः-इति कमैकांतकर्तृत्वदूषणमुख्यत्वेन सूत्रचतुष्टयं गतं । कमैत्र करोत्येकांतेनेति पूर्वोक्तमर्थं श्रीकंदकुंदाचार्यदेवाः सांख्यमतसंवाद दर्शयित्वा पुनरपि समर्थयति । वयं ब्रमो द्वेषेणैव न भवदीयमतेऽपि भणितमास्ते पुंवेदाख्यं कर्म कर्तृ स्त्रीवेदकर्माभिलाषं करोति, स्त्रीवेदाख्यं कर्म पुंवेदकर्माभिलषत्येकांतेन नच जीवः । एवमाचार्यपरंपरायाः समागता श्रुतिरीदृशी। श्रुतिः कोऽर्थः ! आगमो भवतां सांख्यानामिति प्रथमगाथा गता । तथा सति किं दूषणं चेति ? एवं न कोपि जीवोऽस्त्यब्रह्मचारीयुष्माकमुपदेशे किंतु यथा शुद्धनिश्चयेन सर्वे जीवा ब्रह्मचारिणो भवंति तथैकांतेनाशुद्धनिश्चयेनापि ब्रह्मचारिण एव यस्मात्पुंवेदाख्यं कर्म स्त्रीवेदाख्यं कर्माभिलषति नच जीव इत्युक्तं पूर्व सच प्रत्यक्षविरोधः । इत्यब्रह्मकथनरूपेण गाथाद्वयं गतं । यस्मात्कारणात् परं कर्मस्वरूपं प्रकृतिः कर्बी हंति परेण कर्मणा सा प्रकृति रपि हन्यते न च जीवः । एतनार्थेन किल जैनमते परघातनामकर्मेति भण्यते । परं किंतु जैनमते जीवो हिंसा भावेन परिणमति परघातनाम साहकारिकारणं भवति इति नास्ति विरोध इति प्रथमगाथा गता। तस्मारिक दूषणं ? शुद्धपरिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन तावदपरिणामी हिंसापरिणामरहितो जीवो जैनागमे कथितः, कथं ? इति चेत् सव्वे सुद्धा हु सुद्धणया इति वचनात् व्यवहारेण तु परिणामीति । भवदीयमते पुनर्यथा शुद्धनयेन चाशुद्धनयेनाप्युपघातको हिंसकः कोऽपि नास्ति । कस्मात् ! इति चेम यस्मादेकांतेन कर्म चैवहिं स्फुटमन्यत् कर्म हंति, नचात्मेति पूर्वसूत्रे भणितमिति । एवं हिंसाविचारमुख्यत्वेन गाथाद्वयं गतं । एवं संखुवदेशं जे दु परूविंति एरि संसपणा एवं पूर्वोक्तं संख्योपदेशमीदृशमे

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250