Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 203
________________ - समयप्राभृतं । एकस्य वस्तुन इहान्यतरेण सार्द्ध संबंध एय सकलोऽपि यतो निषिद्धः । तत्कर्तृकर्मघटनास्ति न वस्तुभेदे पश्यंत्वकर्तृमुनयश्च जनाश्च तत्त्वं ॥ १९१ ॥ ये तु स्वभावनियमं कलयंति नेममज्ञानमग्नमहसो वत ते वराकाः । कुंवंति कर्म तत एव हि भावकर्म कर्ता स्वयं भवति चेतन एव नान्यः ।। १९२ ।। केहि चिदु पज्जयेहिं विणस्सदे णेव केहिचिदु जीवो। जमा तह्मा कुव्वदि सो वा अण्णो व णेयंतो ॥ ३५७ ।। केहिचिदु पजयहिं विणस्सदे णेव केहिचिदु जीवो। जमा तह्मा वेददि सोवा अण्णो व यंतो ॥ ३५८ ॥ जो चेव कुणदि सोचेव वेदको जस्त एस सिद्धंतो। सो जीवो णादव्वो मिच्छादिट्ठी अशारिहिदो ॥ ३५९ ॥ अण्णो करेदि अण्णो परिभुंजदि जस्स एस सिद्धंतो। सो जीवो णादव्वो मिच्छादिट्ठी अणारिहदो ॥ ३६० ॥ कैश्चित्पर्यायर्विनश्यति नैव कैश्चिन्तु जीवः । यस्मात्तस्मात्करोति स वा अन्यो वा नै कांत: ३१७ ।। कैश्चित्पर्यायैः-विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्माद्वेदयति स वा अन्योवा नैकांतः ।। ३५८ ॥ य एवं करोति सएव वेदको यस्यैष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यार्टिर नाईतः ॥ ३५९ ॥ अन्यः करोत्यन्यः परिभुक्ते यस्य एष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यादृष्टिरनाईतः ॥ ३६० ॥ तात्पर्यवृत्तिः केहिचिदु पन्जयहिं विणस्सदे णेव केहिचिदु जीवो कैश्चित्पर्यायैः पयोंयार्थिकनयविभागैर्देवमनुष्यादिरूपैर्विनश्यति जीवः । न नश्यति कैश्चिद्रव्यार्थिकनयविभागैः जमा यस्मादेवं नित्यानित्यस्वभावं जीवरूपं तह्मा तस्मात्कारणात् कुबदि सो वा द्रव्यार्थिकनयेन स एव कर्म करोति। स एव कः ? इति चेत ? यो भुक्ते । अण्णो चा पर्यायार्थिकनयेन पुनरन्यो वा । णिंयतो नचैकातोऽस्ति । एवं कर्तृत्वमुख्यत्वेन प्रथमगाथा गता। केहिचिदु पज्जयहिं विणस्सदे णेव केहिचिद जीवो कैश्चित् पर्यायैः पर्यायार्थिकनयविभागैः देवमनुष्यादिरूपैर्विनश्यति जीवः न नश्यति कैश्चिद्व्यार्थि कनयविभागैः । जमा यस्मादेवं नित्यानित्यस्वभावं जीवस्वरूपं तह्मा तस्मात्कारणात् वेददि सोवा निजशुद्धात्मभावनोत्थसुखामृतरसास्वादमलभमानः स एव कर्मफलं वेदयत्यनुभवति । स एव कः ? इति चेत येन पूर्वकृतं कर्म । अण्णोवा पर्यायार्थिकनयेन पुनरन्यो वा यंतो नचैकांतोऽस्ति । एव भोक्तत्वमुख्यत्वेन द्वितीयगाथा गता । किं च येन मनुष्यभवे शुभाशुभं कर्म कृतं स एव जीवो द्रव्यार्थिकनयन लोके नरके वा भुक्ते । पर्यायार्थिकनयेन पुनस्तद्भवापेक्षया वालकाले कृतं यौवनादिपर्यायातरे भुक्ते । भवांतरापेक्षया तु १ यद्यपीत आरभ्य गाथाचतुष्टयं नात्रात्मरूयातौ तथापि पुरस्ता दर्शना दन्नैव तेषामाक्षेवकृतः ।

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250