Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 201
________________ समयप्राभृतं । १६९ णिचं कुव्वंताणं सदेव मणुत्रासुरे लोगे नित्यं सर्वकालं कर्म कुर्वतोः । क ? लोके । कथंभूते ? देवमनुष्यासुरसहिते । किंच - रागद्वेषमोहरूपेण परिणमनमेव कर्तृत्वमुच्यते । तत्र रागद्वेषमोहपरिणमने सति शुद्धस्वभाव'त्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मकमोक्षमार्गाच्यवनं भवति ततश्च मोक्षो न भवतीति भावार्थः । एवं पूर्वपक्षरूपेण गाथात्रयं गतं । अथोत्तरं निश्चयेनात्मनः पुद्गलद्रव्येण सह कर्तृकर्मसंबंधो नास्ति कथं कर्ता भविष्यतीति कथयति - आत्मख्यातिः - ये त्वात्मानं कर्तारमेव पश्यंति ते लोकोत्तरिका अपि न लौकिकतामतिवर्तते । लौकिकानां परमात्मा विष्णुः सुरनारकादिकार्याणि करोति तेषां तु स्वात्मा तानि करोति इत्यपसिद्धांतस्य समत्वात् । ततस्तेषामात्मनो नित्यकर्तृत्वाभ्युपगमात् - लौकिकानामिव लोकोत्तरिकाणामपि नास्ति मोक्षः । नास्ति सर्वोऽपि संबंधः परद्रव्यात्मतत्त्वयोः । कर्तृत्वसंबंधाभावे तत्कर्तृता कुतः ॥ १९० ॥ ववहार भासिदेण दु परदव्वं मम भणति विदित्था । जाणंति णिच्छयेण दु णय इह परमाणुमि मम किंचि ॥ ३५३ ॥ जह कोवि णरो जंपदि अह्माणं गामविसयपुररखं । य होंति ताणि तस्सदु भणदिय मोहेण सो अप्पा ॥ ३५४ ॥ एमेव मिच्छदिट्ठी णाणी णिस्संसयं हवदि एसो । जो परदव्वं मम इदि जाणतो अप्पयं कुणदि || ३५५॥ तह्माण मेति णच्चा दो एदा कत्ति ववसाओ । परदव्वे जाणतो जाणे जो दिट्ठिरहिदाणं ॥ ३५६ ॥ व्यवहार भाषितेन तु परद्रव्यं मम भर्णत्यविदितार्थाः । जानंति निश्चयेन तु नचेह परमाणुमात्रमपि किंचित् ॥ ३५३ ॥ यथा कोsपि नरो जल्पति अस्माकं ग्रामविषयपुरराष्ट्रं । नच भवंति तस्य तानि तु भणति च मोहेन स आत्मा || ३५४ ॥ एवमेव मिध्यादृष्टिर्ज्ञानी निस्संशयं भवत्येषः । यः परद्रव्यं ममेति जानन्नात्मानं करोति ।। ३५५ ॥ तस्मान्न मे इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृव्यवसायं । परद्रव्ये जानन् जानीयाद्दष्टिरहितानां ।। ३५६ ।। तात्पर्यवृत्तिः — ववहार भासिदेण दु परदव्वं मम भांति विदिदच्छा पर द्रव्यं मम भणति । के ते ? विदितार्थाः-ज्ञातार्थाः तत्त्ववेदिनः । केन कृत्वा भांति ? व्यवहारभाषितेन व्यवहारनयेन । जाणंति णिच्छयेण दु णय इह परमाणुमित्त मम किंचि निश्चयेन पुनर्जानंति । किं ? नचेह परद्रव्यं परमाणुमात्रमपि ममेति । जह कोवि णरो जंपदि अह्माणं गाम विसयपुर र द्वं यथा नाम स्फुटमहो वा कश्चित्पुरुषो जल्पति । किं जल्पति ? वृत्त्यावृतो ग्रामः, देशाभिधानो विषयः, नगराभिधानं पुरं, देशैकदेशसंज्ञं राष्ट्रमस्माकमिति । यहुं ति ताणि तस्सदु भणदिय मोहेण सो अप्पा नच तानि तस्य भवंति राजकीय नगरादीनि तथाप्यसौ मोहेन ब्रूते मदीयं प्रामादिकमिति दृष्टांतः । अथ दातः — एवं पूर्वोक्तदृष्टांतेन ज्ञानी व्यवहार

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250