Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 133
________________ “१२८ सनातनजैनग्रंथमालायांघेति समुदायेन पंचाशद्गाथाभिः षडभिः रंतराधिकारैः ___ सप्तमो निर्जराधिकारः समाप्तः । तत्रैवं सति शृंगाररहितपात्रवत् शांतरसरूपेण निर्जरा निष्क्रांता। आत्मख्याति:-यतो हि सम्यग्दृष्टिष्टंकोत्कीर्णेकज्ञानभावमयत्वेन ज्ञानस्य समस्तशक्तिप्रबोधेन प्रभावजननात्प्रभावनकरः ततोस्य ज्ञानप्रभावनाप्रकर्षकृतो नास्ति बंधः किं तु निर्जरैव । रुंधन बंध नवमिति निजैः संगतोऽष्टाभिरंगैः प्राग्बद्धं तु क्षयमुपनयन् निर्जराज्जंभणेन । सम्यग्दृष्टिः स्वयमतिरसादादिमभ्यांतमुक्तं ज्ञानं भूत्वा नटति गगनाभोगरंगं विगाह्य ॥१५६॥ ___ इति निर्जरा निष्कांता . इति समयसारव्याख्यायामात्मख्याती षष्ठोऽकः। तात्पर्यवृत्तिः-अथ प्रविशति बंधः । तत्र जहणाम कोवि पुरिसो इत्यादि गाथामादिं कृत्वा पाठक्रमेण षट्पंचाशद्गाथापयतं व्याख्यानं करोति । तासु षट्पंचाशद्गाथासु मध्ये प्रथमतस्तावद् बंधस्वरूपसूचनमुख्यत्वेन गाथादशकं.। तदनंतरं निश्चयेन हिंसाहिंसाव्रताव्रतद्वयस्य लक्षणकथनरूपेण जो मण्णदि हिंसामि इत्यादि गाथासप्तकं । ततः परं बहिरंगद्रव्यहिंसा भवतु मा भवतु, निश्चयेन हिंसाध्यवसाय एव हिंसेति प्रतिपादनरूपेण जो मरदि इत्यादि' गाथाषद्कं । अथानंतरं निश्चयरत्नत्रयलक्षणं यद्भेदविज्ञानं तस्माद्विलक्षणानि यानि व्रताव्रतानि तद्व्याख्यानमुख्यत्वेन एवमलिऐ इत्यादि सूत्रभूतगाथाद्वयं । तदनंतरं तस्यैव भावपुण्यपापरूपव्रताव्रतस्य शुभाशुभबंधकारणभूतस्य परिणामव्याख्यानमुख्यत्वेन वत्थु पदुच्च इत्यादि गाथात्रयोदश । एवं समुदायेन पंचदश । तदनंतरं निश्चये स्थित्वा व्यवहारो निषेध्यत इति कथनरूपेण ववहारणओ इत्यादि सूत्रषद्कं । अतः परं रागद्वेषरहितज्ञानिनां प्राशुकानपानाद्याहारो, बंधकारणं न भवति इति पिंडशुद्धिव्याख्यानरूपेण आधाकम्मादीया इत्यादि सूत्रचतुष्टयं । तदनंतरं क्रोधादिकषायाः कर्मबंधनिमित्तं भवंति तेषां च चेतनाचेतनबहिर्द्रव्यं निमित्तं भवतीति प्रतिपादनरूपेण जह फलिहमाण विसुद्धो इत्यादि सूत्रपंचकं । तदनंतरमप्रतिक्रमणमप्रत्याख्यानं च बंधकारणं भवति न पुनः शुद्धात्मेति व्याख्यानमुख्यत्वेन अप्पडिकमणं इत्यादिगाथात्रयं चेति समुदायेन षट्पंचाशद्गाथाभिरष्टांतराधिकरैः बंधाधिकारे समुदायपातानका । तद्यथा बहिरात्मजीवसबंधिनो बंधकारणभूतस्य श्रृंगारसहितपात्रस्थानीयस्य मिथ्याज्ञानस्य नाटकरूपेण प्रविशतः सतः शांतरसपारणतं वीतरागसम्यक्त्वाविनाभूतं भेदज्ञानप्रतिषेधं करोतीति उपदिशति । आत्मख्याति:-अथ प्रविशति बंधः।। रोगोद्गारमहारसेन सकलं कृत्वा प्रमत्तं जगत्क्रीडतं रसभारनिर्भरमहानाट्येन बंधं धुनत् । आनंदामृतनित्यभोज सहजावस्थां स्फुटं नाटयद्वीरोदारमनाकुलं निरुपधिज्ञानं समुन्मज्जति ॥१५॥ जह णाम कोवि पुरिसो णेहभत्तोदु रेणुवहुलम्मि । ठाणम्मि ठाइदूणय करदि सत्थेहि वायामं ॥२५५॥ छिंददि भिंदंदि य तहा तालीतलकदलिवंसपिंडीओ। सचित्ताचित्ताणं करेदि दवाणमुवघादं ॥२५६॥ १ गगनलक्षणं यच्छुद्धस्वरूपं तस्याभोगो विस्तारः सएव रंगो नाट्यशाला । २ रागशब्द उपलक्षणं तेन द्वेषमोहादीनामपि प्रहणं तस्य उदार आधिक्यं स एव महारस उन्मादकरसः तेन रागोद्गारमहारसेन । ३ वेपयत् ।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250