Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजैनग्रंथमालायांद्वये च विशेंगभृतोऽपि पंच ते शते चं साष्टादशके चतुर्मुनिः ॥२॥ ___ आदिपुराणस्य द्वितीयपर्वणि १३९-१५० तमाभ्यां पद्याभ्यां भगवजिनसेनाचार्यैरपि मतमिदं पुपुषे । प्रथत्रयमपीदं पराचीनतमत्वात्प्रमाणतमं च ततो वीरनिर्वाणानंतर ६८३ संवत्सरपर्यंत अर्थात् २१३ वैक्रमः संवत्सरपर्यंतमचीकमतभारतेंऽगज्ञानप्रवृत्तिरत्र न कापि संशीतिः । ___ 'श्रुतावतारावलंबनतः वीरनिर्वाण-६८३-वर्षानंतरं श्रीदत्त-शिवदत्त-अर्हद्दत्ता अगपूर्वाणां कियतां चिदंशानां समभूवन् ज्ञातारः । तदनंतरं समजनि पुण्डूवर्धनपत्तने श्रीमदईदलि:-अंगपूर्वाशदेशज्ञः । तत. श्चांगपूर्वाशदेशज्ञो बभूव माघनीदमुनिः-समाययौ च स स्वर्ग समाधिद्वारेण । तत्पश्चात् कर्मप्राभूतबोधविचक्षणो धरसेनाचार्यः समुत्पेदे । स च भूतवलिपुष्पदंतावध्यापयामास । शिष्यद्वयं चेदं कर्मप्राभृतस्य षखंडशास्त्राणि विरचयामास । ___ गणधर-अतिवृष-उच्चारणाचार्या इति त्रयः सूरयोऽपरेऽपि समुत्पेदिरे । तैश्च क्रमशः कषायप्राभृतगाथा, चूर्णिका, वृत्तिश्च विलिखिताः।
संप्राप च पद्मनंदिमुनिः कर्मकषायप्राभृतसिद्धांतद्वयं गुरुपरिपाटीतः कोण्डकुन्दपुरे । अर्थात् इंद्रनंदिसूरिरचितश्रुतावतारालंबनेन प्रादुरभूद्भगवान् कुंदकुंद: भुतवलि-पुष्पदंत-उचारणाचार्यसमनंतरं । परं नाविर्भावितः कदा? तथापि निम्नलिखितपद्यात् सुनिश्चितं समनुमन्यते प्रतिपादिताचार्यमरणानंतरं कियद्वर्षानतरं प्रत्यपादि भगवान् कुंदकुंदः । अन्यथा गुरुपरिपाटीतः सिद्धांतद्वितयमवाप कुंदकुदप्रभुरिति न प्रतिपादयितुं पार्येत । तच्च पद्यमिदं
एवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन् । गुरुपरिपाव्या ज्ञातः सिद्धांतः कुंडकुंदपुरे ॥ १६० ॥
श्रीपद्मनंदिनेत्यादि............. गरीयानयं परितापः श्रुतावताररचयिता श्रीमदिंद्रनंदी नाजीगणत् गुणधरधरसेनाचार्ययोः पूर्वापरक्रम यदि स व्यजिज्ञपत् तयोः गुरुपरिपाटी प्रत्यपादि तदा सुलभतया सुनिश्चितः श्रीमत्कुंदकुंदसमयः । तथा तत्प्रतिपादनानुकंपया नियतमिदं विज्ञायते-अंगपूर्वतदंशयोरवबोधो देशकालदोषतो मंदतमायमानः प्रतिपद्यते स्म । क्रमेण चानेन गुणधरधरसेनाचायौँ प्रादुरभूतां सर्वतःपश्चात् । यौ च-अग्रायणीपूर्वीतर्गतपचमवस्तुनश्चतुर्थप्राभृतस्य, ज्ञानप्रवादपूर्वीतर्गतदशमवस्तुनस्तृतीयकषायप्राभृतस्य च ज्ञातारावास्तां ।
अयमाशयः-तदेमौ द्वौ विद्वांसौ समजनिषातां यदा समभूत् चरमांगज्ञानी लोहाचार्यः । तदनंतरं समपत्सत च आरातीयचतुर्मुनयः । ततश्च समुत्पेदाते- अर्हद्वलिमाघनंदिनाविति ।
श्रीलोहाचार्यस्य मरणकालः २१३ तमवैक्रमशताब्दिसन्निकृष्टः । यदि चरमांगज्ञानिवत् विनयधरादिचतुरारातीयमुनयोऽपि केवलमष्टादशवर्षांतःप्रविष्टा एव समभिमन्येरन् । तदनंतरं अर्हद्वलिमाघनंदिनावपिदशवर्षमध्या द्वादशवर्षमध्या वा संगण्येरन् तत्पश्चात् धरसेन-भूतवलि-पुष्पदंत-गुणधर-यतिवृषभ-उच्चारणाचार्यादीनां सत्त्वे गुरुपरिपाटीतस्तद्ग्रंथानां भगवत्कुंदकुंदपर्यंतसमानयने पंचाशद्वर्षाण्येव वा स्वीक्रियेरन् तदा भवति निश्चितः श्रीकुंदकुंदस्वामिसमयः-वैक्रमतृतीयशताब्देश्चरमपादसान्निध्ये ।
समवगच्छंति तावदिदं सकला जनाः समुपपेदे भगवान् कुंदकुंदो नंदिसंघे सातिशयो विश्रुतश्च विद्वान् । पराचीनजैनग्रंथा अप्यत्र प्रमाणं । अर्थात् समुल्लिखितं समवतिष्ठते तेषु, नंदसंघस्थापना समभूत्तत्परस्तात् । संघस्थापकश्च समजनि श्रीमदर्हद्वलिः । नंदिसंघगुर्वावलीतश्च समवाबोधीदं, यत्कुंदकुंदभगवान् तृतीयाचार्यो नंदिसंघस्य । अर्थात् समजनिषातां तत्पुरस्तात् माघनंदिजिनचंद्रौ। ततोऽर्हद्वलिमाघनंदिसमनंतरं तु लघीयस्तयावश्यक एव भगवत्कुंदस्थितिसमयः स च संपतिष्यति तृतीयशताब्देरुत्तरार्धकालः ।
एकदा भगवत्कुंदकुंददेवैः सह समजनि गरीयान् विवादो रैवनिकमहीधरे श्वेतांबराचार्याणां । कृता च तदा स्वामिभिः पाषाणनिर्मिता सरस्वतीमूर्तिर्वाचालितेति जागर्ति विश्रुतकथा । तत्र प्रमाणं

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250