Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 176
________________ सनातनजैनग्रंथमालायां___अथ श्रीकुमारनंदिसैद्धांतिकदेवशिष्यैः प्रसिद्धकथान्यायेन पूर्वविदेहं गत्वा वीतराग सर्वज्ञसीमंधरस्वामितीर्थकरपरमदेवं दृष्वा च तन्मुखकमलविनिर्गतदिव्यवर्णश्रवणादवधारितपदार्थसमूहैर्बुद्धात्मतत्त्वादिसारार्थ गृहीत्वा पुनरप्यागतैः श्रीमत्कुंद कदाचार्यदेवैः पद्मनंद्य परनामधेयरंतस्तत्त्वबहिस्तत्त्वगौणमुख्यप्रतिपत्त्यर्थं - अथवा-शिवकुमारमहाराजादिसंक्षेप रुचिशिष्यप्रतिबोधनार्थ विरचिते पंचास्तिकायमाभृतशास्त्रे यथाक्रमेणाधिकारशुद्धिपूर्वक तात्पयोर्थव्याख्यानं कथ्यते___इति श्रीमज्जयसेनाचार्यकरकल्पमहीरुहखचितसमयसारसंस्कृतटीकालिखितगद्यतश्च पमनंदीत्यपराभिधाविभूषितश्रीकुंदकुंदभगवान् कुमारनंदिसैद्धांतिदेवशिष्यः प्रकटीकृतः । किंतु मतद्वयमपीदमर्वाचीनतमत्वान्न प्रामाणिकी तथ्यतामवांचति । यतः-- - श्रुतावतारे--अहंदलेः पश्चान्माघनंदिनस्तदनंतरं च धरसेनादिगुरुणां समुल्लेखः कृतः न माघनंद्यनंतरं गुणचंद्रस्य नापि कुमारनंदिनः । श्रवणवेलगुललेखेष्वपि न कापि श्रीकुंदकुंद गुरोरुल्लेखो दृष्टिपथमवातरत् किंतु महीपतिचंद्रगुप्तवर्णनासमनंतरं कुंदकुंदभगवानेव समुपवर्णितः । प्राधा च गुरुपरंपरा श्रीमत्कुंदकुंदत एव तद्वर्णनायां । नंदिसंघस्य प्रधानारातीयः श्रीकुंदकुंद एवाजीगणत, इति न केनापि विजज्ञे क आसीत्कुंदकुंदभगवद्गुरुः ? स्वरचितग्रंथेष्वपि कापि नोल्लेखयांचक्रे कुंदकुंदभगवानात्मनीनं गुरुमिति । शिष्यपरंपरा श्रीमद्भगवत्कुंदकुंदाचार्यः समजनिष्ट नंदिसंघस्य नंदिगणस्य वा प्राथमिकाचार्यः । समस्ति कश्चित् १११५ तम-ए. डी. शताब्दिसन्निकृष्टः शिलालेखः । तत्र व्यलेखि विस्तरतया समुल्लेखः श्रीकुंदकुंदशिष्य परंपरायाः । स्थानाभावादप्रकाशयतोऽपि वयं तं, समुद्भावयामः कियन्तं चित्तत्सारं श्रीमत्पद्मनंदिनोऽपराभिधेयः कुंदकुंद आसीत् । स च समियाय चारणद्धिं प्रखरामलाचारणमाहा. स्म्यात् । समजनि च तस्योमास्वातिः शिष्यः । गृध्रपिच्छाचार्यनाम्नापि स समुपालेभे भुवि विश्रति । नाभूच्च पद्मनंद्यन्वये गृध्रपिच्छसमः कश्चिदन्यः प्रखरविद्वान् । तस्य च नैकनरपतिपरिपूजितचरणः वोभवतिस्म वलाकपिच्छः शिष्यः । वलाकपिच्छस्यांतेवासी च तर्कव्याकरणसाहित्यादिनिगमागमजल निधिसमाहितपारो यतिश्च समजनि गुणनंदिविद्वान् । गुणनंदिनश्च त्रिशतशिष्या समभूवन् तेष्वपि कठिनतममपि विषयं सुलभतया व्याख्यातृत्वात्, प्रमाणतत्त्वावबोद्धृत्वात् सिद्धांतशास्त्रस्य वेत्तृत्वाच्च समन्निखिलांतेवासिशिरोमणिः श्रीदेवेंद्रविद्वान् । देवेंद्राचार्यांतेवासी सिद्धांतचक्रवर्ती वा कमिनीवल्लभश्चवभूव कलधौतनंदी ( कनकनंदी ( ? । ) तस्य च पुत्रो मदनशंकरो महेंद्रकीर्तिर्वा समजनि । तच्छिष्यश्च श्रीवीरनंदी स च कविचूडामणिः, गमकः महावादी, वाग्मी च जातः । इत्यादि । वतीयमंगराजरचितशिलालेखेऽपि पद्मनंदि-उमास्वाति-वलाकपिच्छेत्याचार्यत्रयवर्णनानंतरं सं. स्तुताः समंतभद्र-पूज्यपाद-अकलंकप्रभृतयः सूरयः । किंतु न कापि समुलिलिख समंतभदः किल वलाकपिच्छस्य शिष्य आसीदिति । परं तद्वंशपरंपरायामभूदिति लेखः । ४०तमे शिलालेखेऽपि यत्र बलाकपिच्छवर्णनानंतरं समंतभद्रपूज्यपादौ स्त्येतेस्म तत्र समंतभद्रः ~वलाकपिच्छपरंपरायामेव समजनि न तु तच्छिष्य इति समाविरभावि सुस्पष्टतया। . परंतु लेखद्वितयमपीदं न नंदिसंघपट्टावलीसमतामवांचति । नदिसंघपट्टावल्यास्तु परंपरेयं-उमास्वातिः, लोहाचार्यः, यशःकीर्तिः, यशोनंदी, देवनंदी, (पूज्यपादः) गुणनंदीत्यादयः । संभाव्यते पट्टभेदाद्भवेदयं भेदः । पट्टावलीरचयितारो वा प्रमाणाभावेऽप्यनुमानतस्तं क्रमं लिलिखुरिति ।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250