Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृतं । ज्ञानी त्यवेदक एवेति नियम्यते
णिव्वेदसमावण्णो णाणी कम्मप्फलं वियाणादि ।
महुरं कंडुवं वहुविहमवेदको तेण पण्णत्तो ॥ ३४७॥ . निर्वेदसमापनो ज्ञानी कर्मफलं विजानाति ।
मधुरं कटुकं वहुविधमवेदको तेन प्रज्ञप्तः ॥ ३४७ ॥ तात्पर्यहात्तिः-णिव्वेदसपावण्णो णाणी कम्मप्फलं वियाणादि परमतत्त्वज्ञानी जीवः संसारशरीरभोगरूपत्रिविधवैराग्यसंपन्नो भूत्वा शुभाशुभकर्मफलमुदयागतं वस्तुस्वरूपेण विशेषेण निर्विकारस्वशुद्धात्मनो भिन्नत्वेन जानाति । कथं भूतं जानाति ! पहुरं कडवं बहुविहमवेदको तेण पण्णत्तो अशुभकर्मफलं निंबकांजीरविषहलाहलरूपेण कटुकं जानाति । शुभकर्मफलं बहुविधं गुडखंडशर्करामृतरूपेण मधुरं जानाति। नच शुद्धात्मोत्थसहजपरमानंदरूपमतींद्रियसुखं विहाय पंचेन्द्रियसुखे परिणमति, तेन कारणेन ज्ञानी वेदको भोक्ता न भवतीति नियमः । एवं ज्ञानी शुद्धनिश्चयेन शुभाशुभकर्म फलभोक्ता न भवतीति व्याख्यानमुख्यत्वेन तृतीयस्थले सूत्रचतुष्टयं गतं ।।
आत्मख्यातिः - ज्ञानी तु निरस्तभेदभावश्रुतज्ञानलक्षणशुद्धात्मज्ञानसद्भावेन परतोऽत्यंतविविक्तत्वात प्रकृतिस्वभावं स्वयमेव मुंचति ततो मधुरं मधुरं वा कर्मफलमुदितं ज्ञातृत्वात् केवलमेव जानाति, न पुनाने सति परद्रव्यस्याहतयाऽनुभवितुमयोग्यत्वाद्वेदयते । अतो ज्ञानी प्रकृतिस्वभावविरक्तत्वादवेदक एव ।
झानी करोति न न वेदयते च कर्म जानाति केवलमयं किल तत्स्वभावं । जानन्परं करणवेदनयोरभावात् शुद्धस्वभावनियतः स हि मुक्त एव ॥१८॥ णवि कुव्वदि णवि वेददि णाणी कम्माइ बहु पयाराइ । जाणदि पुण कम्मफलं बंधं पुण्णं च पावं च ॥ ३४८ ॥
नापि करोति नापि वेदयते ज्ञानी कर्माणि बहुमकाराणि ।
जानाति पुनः कर्मफलं बंधं पुण्यं च पापं च ॥३४८॥ तात्पर्यवृत्तिः--णवि कुन्वदि णवि वेददि णाणी कम्माइ बहुपयाराइ त्रिगुप्तिगुप्तत्ववलेन ख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनशून्येनानंतज्ञानदर्शनसुखवीर्यस्वरूपेण सालंबने भरितावस्थे निर्विकल्पसमाधौ स्थितो ज्ञानी कर्माणि बहुप्रकाराणि ज्ञानावरणादिमलोत्सरप्रकृतिभेदभिन्नानि निश्चयनेन न करोति न च तन्मयो भूत्वा वेदयत्यनुभवति । तर्हि किं करोति ! जाणदि पुण कम्मफलं वंधं पुण्णं पावं च परमात्मभावनोत्थसुखे तृप्तो भूत्वा वस्तुस्वरूपेण जानात्येव । किं जानाति ! सुखदुःखस्वरूपकर्मफलं प्रकृतिबंधादिभेदभिन्नं पुनः कर्मबंध, सद्वेद्यशुभायुर्नामगोत्ररूपं पुण्यं, अतोऽन्यदसवेद्यादिरूपं पापं चेति । तमेव कर्तृत्वभोक्तृत्वभावं विशेषेण समर्थयति
आत्मख्यातिः--ज्ञानी हि कर्मचेतनाशून्यत्वेन कर्मफलचेतनाशून्यत्वेन च स्वयमकर्तृत्वादवेदयितृत्वाच्च न कर्म करोति न वेदयते च । किंतु ज्ञानचेतनामयत्वेन केवलं ज्ञातृत्वात्कर्मबंध कर्मफलं च शुभमशुभं वा केवलमेव जानाति ।
कुत एतत् ? दिडी जह अण्णाणं पाठोयमात्मख्यातौ।

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250