Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 195
________________ १६३ समयप्रामृतं । जदा विमुंचदे चेदा कम्मफलमणंतयं । तदा विमुत्तो हवदि जाणगो पस्सगो मुणी ॥३४३॥ यावदेष प्रकृत्यर्थं चेतयिता नैव विमुंचति । अज्ञायको भवेत्ताबन्मिथ्यादृष्टिरसंयतः ॥३४२॥ यदा विमुंचति चेतयिता कर्मफलमनंतकं । तदा विमुक्तो भवति ज्ञायको दर्शको मुनिः ॥३४॥ तात्पर्यवृत्तिः-- यावत्कालमेष चेतयिता जीवः, चिदानंदैकस्वभावपरमात्मसम्यक्श्रद्धानज्ञानानुभवरूपाणां सम्यग्दर्शनज्ञानचारित्राणामभावात्प्रकृत्यर्थं रागादिकर्मोदयरूपं न मुंचति, तावत्कालं रागादिरूपमात्मानं श्रद्दधाति जानात्यनुभवति च ततो मिथ्यादृष्टिर्भवति, अज्ञानी भवति, असंयतश्च भवति, तथा भूतःसन् मोक्षं न लभते । यदा पुनरयमेव चेतयिता मिथ्यात्वरागादिरूपं कर्मफलं शक्तिरूपेणानंतविशेषण सर्वप्रकारेण मुंचति तदा शुद्धबुबैकस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवरूपाणां सम्यग्दर्शनज्ञानचारित्राणां सद्भावात् लाभमिथ्यात्वरागादिभ्यो भिन्नमात्मानं श्रद्दधाति जानात्यनुभवति च । ततः सम्यग्दृष्टिर्भवति, संयतो मुनिश्च भवति तथाभूतः सन् विशेषेण द्रव्यभावगतमूलोत्तरप्रकृतिविनाशेन मुक्तो भवतीति । एवं यद्यप्यात्मा शुद्धनिश्चयेन कर्ता न भवति तथाप्यनादिकर्मबंधवशान्मिथ्यात्वरागाद्यज्ञानभावेन कर्म बनातीति अज्ञान सामर्थ्यज्ञापनार्थ द्वितीयस्थले सूत्रचतुष्टयं गतं ___ अथ शुद्धनिश्चयनयेन कर्मफलभोक्तृत्वं जीवस्वभावो न भवति, कस्मात् ! अज्ञानस्वभावत्वात्-इति कथयति आत्मख्याति:-यावदयं चेतयिता प्रतिनियतस्वलक्षणानि नात् प्रकृतिस्वभावमात्मनो बंधानमित्तं न मुंचति तावत्स्वपरयोरेकत्वज्ञानेनाज्ञायको भवति । स्वपरयोरेकत्वदर्शनेन मिथ्यादृष्टिर्भवति । स्वपरयोरेकत्वपरिणत्या चासंयतो भवति । तावदेव परात्मनोरेकत्वाभ्यासस्य करणारकर्ता भवति । यदा त्वयमेव प्रतिनियतस्वलक्षणनिर्ज्ञानात् प्रकृतिस्वभावमात्मनो बंधनिमित्तं मुंचति तदा स्वपरयोविभागज्ञानेन ज्ञायको भवति । स्वपरयोविभागदर्शनेन दर्शको भवति । स्वपरयोविभागपरिणत्या च संयतो भवति तदैव च परास्मनोरेकत्वाध्यासस्याकरणादकर्ता भवति । भोक्तृत्वं न स्वभावोऽस्य स्मृतः कर्तृत्ववञ्चितः । अज्ञानादेव भोक्तायं तदभावादवेदकः ॥ १८७ ॥ अण्णाणी कम्मफलं पयडिसहावहिदो दु वेदेदि । णाणी पुण कम्मफलं जाणदि उदिदं ण वेदेदि ॥३४४॥ __ अज्ञानी कर्मफलं प्रकृतिस्वभावस्थितस्तु वेदयते । - ज्ञानी पुनः कर्मफलं जानाति-उदितं न घेदयते ॥ ३४४ ॥ तात्पर्यवृत्तिः- अण्णाणी कम्मफलं पयडिसहावाहिदो दु वेदेदि विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मकभेदज्ञानस्याभावादज्ञानी जीवः उदयागतकर्मप्रकृतिस्वभावे सुखदुःखस्वरूपे स्थित्वा हर्षविषादाभ्यां तन्मयो भूत्वा कर्मफलं वेदयत्यनुभवति । णाणी पुण कम्मफर्ल जाणदि उदिदं ण वेदेदि ज्ञानी पुनः पूर्वोक्तभेदज्ञानसद्भावात् वीतरागसहजपरमानंदरूप सुखरसास्वादेन परमसमरसीभावेन परिणतः सन् कर्मफलमुदितं वस्तुस्वरूपेण जानात्येव नच हर्षविषादाभ्यां तन्मयो भूत्वा वेदयतीति । १ स्थितः इति स. पाठः।

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250